या गौर्व᳚र्त॒निं प॒र्येति᳚ निष्कृ॒तं पयो॒ दुहा᳚ना व्रत॒नीर᳚वा॒रतः᳚ ।
सा प्र᳚ब्रुवा॒णा वरु᳚णाय दा॒शुषे᳚ दे॒वेभ्यो᳚ दाशद्ध॒विषा᳚ वि॒वस्व᳚ते ॥
सा प्र᳚ब्रुवा॒णा वरु᳚णाय दा॒शुषे᳚ दे॒वेभ्यो᳚ दाशद्ध॒विषा᳚ वि॒वस्व᳚ते ॥
पदपाठः (Word-by-word)
या । गौः । व॒र्त॒निम् । प॒रि॒॑एति᳚ । निः॒॑कृ॒तम् । पयः᳚ । दुहा᳚ना । व्र॒त॒॑नीः । अ॒वा॒रतः᳚ ।
सा । प्र॒॑ब्रु॒वा॒णा । वरु᳚णाय । दा॒शुषे᳚ । दे॒वेभ्यः᳚ । दा॒श॒त् । ह॒विषा᳚ । वि॒वस्व᳚ते ॥
सा । प्र॒॑ब्रु॒वा॒णा । वरु᳚णाय । दा॒शुषे᳚ । दे॒वेभ्यः᳚ । दा॒श॒त् । ह॒विषा᳚ । वि॒वस्व᳚ते ॥
सायणभाष्यम् (Sayana Commentary)
येयं मदीया पयः क्षीरादिकम् दुहाना व्रतनीराश्रयणपयः प्रदानेन कर्मणो नेत्री गौर्निष्कृतम् संस्कृतं वर्तनिमावासस्थानं यज्ञमवारतोऽवरनेनाप्रार्थनेनैव पर्येति परिगच्छति स्वयमेवागच्छति प्रब्रुवाना मया प्रस्तूयमाना सा गौर्दाशुषे हविर्दत्तवते वरुणाय देवेभ्योऽन्येभ्य इन्द्रादिभ्यश्च हविषान्नेन विवस्वते देवान्परिचरते मह्यं मां रक्षितुं दाशत्। पयः प्रयच्छतु। दाशृ दाने। लॆट्याअगमः। यद्वा गौरिति माध्यमिका वाक् या पय ऊर्जम् दुहाना सा नो मन्द्रेषमुर्जम् दुहाना। इ. ८-१००-११। इत्यादिशु दृष्टत्वात्। तत्परतया पुर्ववद्योज्यम्॥६॥