श्रवणम्

10.65.4 समानपद
स्व᳚र्णरम॒न्तरि᳚क्षाणि रोच॒ना द्यावा॒भूमी᳚ पृथि॒वीं स्क᳚म्भु॒रोज᳚सा ।
पृ॒क्षा इ᳚व म॒हय᳚न्तः सुरा॒तयो᳚ दे॒वाः स्त᳚वन्ते॒ मनु᳚षाय सू॒रयः᳚ ॥
▶ पदपाठः (Word-by-word)
स्वः᳚॑नरम् । अ॒न्तरि᳚क्षाणि । रो॒च॒ना । द्यावा॒भूमी॒ इति᳚ । पृ॒थि॒वीम् । स्क॒म्भुः॒ । ओज᳚सा ।
पृ॒क्षाः॑इ᳚व । म॒हय᳚न्तः । सु॒॑रा॒तयः᳚ । दे॒वाः । स्त॒व॒न्ते॒ । मनु᳚षाय । सू॒रयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वर्णरं सर्वस्य स्वस्वकर्मणि नेतारमादित्यमन्तरिक्षाणि। द्यावापृथिव्योरन्तरामध्ये क्षियन्ति निवसन्तीत्यन्तरिक्षाणि। मध्यस्थितानि रोचना रोचमानानि तेजंसि द्यावाभुमी द्यावापृथिव्यौ पृथिवीं विस्तीर्णमन्तरिक्षं च एतानादित्यादीनोजसा स्वबलेनैव देवाः स्कंभुः। धारयन्ति। स्कंभ इति सौत्रो धातुः। लिति रूपम्। किञ्च पृक्शा इव दरिद्रेषु धनानि संपर्चयन्त इव अत एव महयन्तः स्तोतॄन्धनादिभिः पूजयन्तः सुरातयह् सुदाना मनुशाय मनुष्याय सूरयो धनावां प्रेरका एते देवाः स्तवन्ते। अस्मिन्यज्ञे स्तूयन्ते॥४॥