दशमं मण्डलम् - सूक्तम् 63

17 ऋचः

ऋषिः: गयः प्लातः देवता: विश्वेदेवाः छन्दः: जगती

सूक्तम् 10.63 - सम्पूर्णम्

1 / 17
ऋक्: 10.63.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (17)
10.63.1
प॒रा॒वतो॒ ये दिधि᳚षन्त॒ आप्यं॒ मनु᳚प्रीतासो॒ जनि᳚मा वि॒वस्व᳚तः ।
य॒याते॒र्ये न᳚हु॒ष्य᳚स्य ब॒र्हिषि᳚ दे॒वा आस᳚ते॒ ते अधि᳚ ब्रुवन्तु नः ॥
▶ पदपाठः (Word-by-word)
प॒रा॒॑वतः᳚ । ये । दिधि᳚षन्ते । आप्य᳚म् । मनु᳚॑प्रीतासः । जनि᳚म । वि॒वस्व᳚तः ।
य॒यातेः᳚ । ये । न॒हु॒ष्य᳚स्य । ब॒र्हिषि᳚ । दे॒वाः । आस᳚ते । ते । अधि᳚ । ब्रु॒व॒न्तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

परावतो य इति सप्तदशर्चं त्तुतीयं सूक्तं प्लतेः पुत्रस्य गयस्यार्षम् । षोडशीसप्तदशौ त्रिष्टुभौ। पञ्चदशी त्रिष्टुब्जगती वा। शिष्टाश्चतुर्दश जगत्यः। स्वस्ति नः पथ्यास्विति द्वे पथ्यास्वस्तिदेवताके। शिष्टा वैश्वदेव्यः। तथाचानुक्रान्तम्। परावतस्त्र्यूना गयः प्लातो द्वित्रिष्टुबन्तम् तु स्वस्ति न स्त्रिष्टुब्वा सह चोत्तरया पथ्या स्वस्तिदेवत्येति। पृष्ठ्याभिप्लवयोस्तृतीयेऽहनि वैश्वदेव एतत्सूक्तं वैश्वदेवं निविद्धानम्। सूत्रितं च। अनश्वो जातः परावतो य इति वैश्वदेवम् । आ. ७-७। इति॥

ये देवाः परावतो दूरदेशादागत्याप्यं ज्ञातेयम् मनुष्यैः सह बन्धुत्वं दधिषन्ते धारयन्ति। यद्वा। हविषां प्रदातृभिर्मनुष्यैः सह सख्यम् कुर्म इति परस्परं शब्दायन्ते। धिष शब्दे। चौहोत्यादिकः। छान्दसो झस्यान्तादेशः। धिष धारण इति कैश्चिदप्युपगम्यते। उक्तार्थमेव विशिनष्टि। दनुप्रीतासो मनुष्यैः प्रीता देवा विवस्वतो विवस्वत्पुत्रस्य मनोर्जनिम जन्मानि मनुष्यान्धारयन्ति। किञ्च ये देवा नहुष्यस्य नहुषपुत्रस्य ययातेरेतन्नामकस्य राजर्षेर्बर्हिषि यज्ञ आसते उपविंशति ते देवा नोऽस्मानधि ब्रुवन्तु। धनादिप्रदानेनास्मानधिकं वदन्तु। पूजयन्त्वित्यर्थः॥१॥

10.63.2
विश्वा॒ हि वो᳚ नम॒स्या᳚नि॒ वन्द्या॒ नामा᳚नि देवा उ॒त य॒ज्ञिया᳚नि वः ।
ये स्थ जा॒ता अदि᳚तेर॒द्भ्यस्परि॒ ये पृ᳚थि॒व्यास्ते म᳚ इ॒ह श्रु᳚ता॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚ । हि । वः॒ । न॒म॒स्या᳚नि । वन्द्या᳚ । नामा᳚नि । दे॒वाः॒ । उ॒त । य॒ज्ञिया᳚नि । वः॒ ।
ये । स्थ । जा॒ताः । अदि᳚तेः । अ॒त्॑भ्यः । परि᳚ । ये । पृ॒थि॒व्याः । ते । मे॒ । इ॒ह । श्रु॒त॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये देवा इन्द्रादयः। हिरवधारणे। वो युश्माकमेव नामानि नमनीयानि विश्वा सर्वाणि शरीराणि नमस्यानि नमस्करार्हाणि भवन्ति वन्द्या वन्द्यानि स्तोतव्यानि च भवन्ति। ये यूयमदितेरदीनाद्द्युलोकादद्भ्यः। अन्तरिक्षनामैतत्। अन्तरिक्षात्। परिः पञ्चम्यर्थद्योतकः। पृथिव्याश्च जाताः प्रादुर्भूताः स्थ भवत ते यूयमिहास्मिन्यज्ञ आगत्य मे मदीयं हवमाह्वानं श्रुत। शृणुत॥२॥

10.63.3
येभ्यो᳚ मा॒ता मधु᳚म॒त्पिन्व᳚ते॒ पयः᳚ पी॒यूषं॒ द्यौरदि᳚ति॒रद्रि᳚बर्हाः ।
उ॒क्थशु᳚ष्मान्वृषभ॒रान्त्स्वप्न᳚स॒स्ता{4} आ᳚दि॒त्या{4} अनु᳚ मदा स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
येभ्यः᳚ । मा॒ता । मधु᳚॑मत् । पिन्व᳚ते । पयः᳚ । पी॒यूष᳚म् । द्यौः । अदि᳚तिः । अद्रि᳚॑बर्हाः ।
उ॒क्थ॑शु᳚ष्मान् । वृ॒ष॒॑भ॒रान् । स्वप्न᳚सः । तान् । आ॒दि॒त्यान् । अनु᳚ । म॒द॒ । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निष्टॊमे वैश्वदेवशस्त्रे येभ्यो मातेत्येषा धाय्या। सूत्रितं च। अयं वेनश्चोदयत्पृश्निगर्भा येभ्यो माता मधुमत्। अ. ५-१८। इति॥

माता सर्वस्य निर्मात्री पृथिवी येभ्यो देवेभ्यो देवार्थं मधुमद्माधुर्योपेतं पयः सारभुतं क्षीरं पिन्वते क्षरति। तथादितिरएदीनाद्रिबर्हा मेघैः परिवृढा प्रवृद्धा परिवृद्धमेघा वा द्यौश्च पीयूशं पिन्वते। द्यावापृथिव्यौ हविरुत्पादयत इत्यर्थः। ऋषिरात्मानं सम्बोध्याह। उक्थशुष्मानतिबलान् वृषभरान्वृष्टेराहर्तॄन्। हृग्रहोर्भ इति भः। स्वप्नसः सुकर्मणस्तनादित्यानदितेः पुत्रान्देवान् स्वस्तयेऽविनाशायानु मद। अनुस्तुहि। माद्यशेर्लोटि व्यत्ययेन शप्। मन्दतेर्वा स्तुत्यर्थस्यानित्यमागमशासनमिति नमभावः॥३॥

10.63.4 समानपद
नृ॒चक्ष᳚सो॒ अनि᳚मिषन्तो अ॒र्हणा᳚ बृ॒हद्दे॒वासो᳚ अमृत॒त्वमा᳚नशुः ।
ज्यो॒तीर᳚था॒ अहि᳚माया॒ अना᳚गसो दि॒वो व॒र्ष्माणं᳚ वसते स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
नृ॒॑चक्ष᳚सः । अनि᳚॑मिषन्तः । अ॒र्हणा᳚ । बृ॒हत् । दे॒वासः᳚ । अ॒मृ॒त॒॑त्वम् । आ॒न॒शुः॒ ।
ज्यो॒तिः॑र᳚थाः । अहि᳚॑मायाः । अना᳚गसः । दि॒वः । व॒र्ष्माण᳚म् । व॒स॒ते॒ । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

न चक्षसः कर्मनेतृणां मनुष्याणां द्रष्टारः अत एवानिमिषन्तो निमेषमकुर्वाणाः सर्वदा जागरूका देवासो देवा अर्हणा लोकस्य परिचरणार्थं स्तोतव्यत्वाय बृहद्बृंहितममृतत्वममरणधर्मनानशुः। प्राप्ताः। देवाः खलु मनुष्यैः पुज्याः। तस्मात्पूजाहेतुं देवत्वमानशिरे। अत एव ज्योतिरथा दीप्यमानरथोपेता अहिमायाः कैश्चिदप्यहन्तव्यप्रज्ञा अनागसः पापरहिता आदित्या दिवो द्युलोकस्य वर्ष्माणम् नभिस्थानं समुच्छ्रितं देशं स्वस्तयेऽविनाशाय लोकस्य क्षेमकरणार्थं वसते। अधिवसन्ति। यद्वा। स्वतेजसाच्छादयन्ति॥४॥

10.63.5 समानपद
स॒म्राजो॒ ये सु॒वृधो᳚ य॒ज्ञमा᳚य॒युरप᳚रिह्वृता दधि॒रे दि॒वि क्षय᳚म् ।
ता{4} आ वि᳚वास॒ नम᳚सा सुवृ॒क्तिभि᳚र्म॒हो आ᳚दि॒त्या{4} अदि᳚तिं स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
स॒म्॑राजः᳚ । ये । सु॒॑वृधः᳚ । य॒ज्ञम् । आ॒॑य॒युः । अप᳚रि॑ह्वृताः । द॒धि॒रे । दि॒वि । क्षय᳚म् ।
तान् । आ । वि॒वा॒स॒ । नम᳚सा । सु॒वृ॒क्ति॑भिः᳚ । म॒हः । आ॒दि॒त्यान् । अदि᳚तिम् । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सम्राजः सर्वेषां राजानः स्वतेजोभिः सम्यग्राजमानाः सुवृधः सुवृद्धा ये देवा यज्ञमाययुः आयान्ति सोमादिहविर्भक्षणार्थम्। ततोऽपरिह्वृताः कैश्चिदप्यहिंसिता ये देवा दिवि द्युलोके क्षयं निवासं दधिरे विदधति कुर्वन्ति। ऋषिरात्मानमाह। महो महतो गुणाधिक्येनादित्यानदितेः पुत्रांस्तान्प्रसिद्धान्देवानदितिं तेषां मातरमेतन्नामिकां च स्वस्तयेऽविनाशाय नमसा हवीरूपेणान्नेन सुवृक्तिभिः शोभनाभिः स्तुतिभिश्चा विवास। आभिमुख्येन परिचर। विवासतिः परिचरणकर्मा॥५॥

10.63.6
को व॒ः स्तोमं᳚ राधति॒ यं जुजो᳚षथ॒ विश्वे᳚ देवासो मनुषो॒ यति॒ ष्ठन᳚ ।
को वो᳚॑ध्व॒रं तु᳚विजाता॒ अरं᳚ कर॒द्यो न॒ः पर्ष॒दत्यंहः᳚ स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
कः । वः॒ । स्तोम᳚म् । रा॒ध॒ति॒ । यम् । जुजो᳚षथ । विश्वे᳚ । दे॒वा॒सः॒ । म॒नु॒षः॒ । यति᳚ । स्थन᳚ ।
कः । वः॒ । अ॒ध्व॒रम् । तु॒वि॒॑जा॒ताः॒ । अर᳚म् । क॒र॒त् । यः । नः॒ । पर्ष᳚त् । अति᳚ । अंहः᳚ । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिर्देवान्प्रति बहुधा वितर्कयति। हे देवाः वो युष्माकं कः स्तोतास्तोमं त्रिवृत्पञ्चदशादिलक्षणं राधति। संसाधयति। न कश्चिदस्तीत्यर्थः। यद्वा। मदन्यः को वो युश्मभ्यं स्तोमं करोति। यूयं यं स्तोतारं जुजोषथ सेवध्वे। जुषी प्रीतिसेवनयोः। लेटि शवः श्लुः। अडागमः। किं च हे मनुषो मन्तारो ज्ञतारो हे विश्वे देवासो देवाः यूयं यति यत्संख्याः स्थन भवथ। यच्छब्दादपि छान्दसो डतिर्द्रष्टव्यः। हे तुविजाता धात्रादिविभागेन बहुजनाना हे देवाः युष्मदर्धं को वा यजमानोऽध्वरं यज्ञमरं करत्। अलङ्करोति स्तुतिभिर्हविर्भिश्च। मदन्यो नास्तीत्यर्थः। यो यज्ञो नोऽस्मान् स्वस्तयेऽविनाशायांहः पापरूपं मार्गमवैदिकमति पर्षत् अतिपारयति तं यज्ञं को वालं करोतीति॥६॥

10.63.7
येभ्यो॒ होत्रां᳚ प्रथ॒मामा᳚ये॒जे मनु॒ः समि᳚द्धाग्नि॒र्मन᳚सा स॒प्त होतृ᳚भिः ।
त आ᳚दित्या॒ अभ᳚यं॒ शर्म᳚ यच्छत सु॒गा नः᳚ कर्त सु॒पथा᳚ स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
येभ्यः᳚ । होत्रा᳚म् । प्र॒थ॒माम् । आ॒॑ये॒जे । मनुः᳚ । समि᳚द्ध॑अग्निः । मन᳚सा । स॒प्त । होतृ᳚॑भिः ।
ते । आ॒दि॒त्याः॒ । अभ᳚यम् । शर्म᳚ । य॒च्छ॒त॒ । सु॒॑गा । नः॒ । क॒र्त॒ । सु॒॑पथा᳚ । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समिद्धाग्निर्हविर्भिः सम्यग्दीप्ताग्निर्मनुर्वैवस्वतो मनुष्यानां प्रथमभावी श्रद्धधानेन मनसा सप्त सप्तसङ्ख्याकैर्होतृभिर्वषट्कर्तृभिरृत्विग्भिश्च सह येभ्यो युष्मभ्यं प्रथमां द्रथमं मुख्यं यद्वा सर्वेषां मनुष्याणामग्रे क्रियमाणत्वादाद्यं होत्राम्। हूयन्ते हवींष्यत्रेति होत्रा यज्ञः । तम् । यद्वा। आहूयन्ते देवाः स्तुतिभिरत्रेति। तं यज्ञमायेजे अभिमुख्येनेष्टवान्। यजेर्लिटिरूपम् । यद्वा। लिटिलोपस्त आत्मने पदेष्विति तलोपः। यजिवप्योरलिट्येत्वं वक्तव्यम् । का. ६-४-१२०-४। इति वचनादेकारः। हे आदित्या अदितेः पुत्रा हे देवाः ते यूयं नोऽस्मभ्यमभयं शर्म च सुखं प्रयच्छत। किञ्च नोऽस्माकं स्वस्तये क्षेमाय सुपथा सुपथानि शोभनान्वैदिकमार्गान् सुगा सुष्ठु गन्तव्यान् कर्त। कुरुत। करोतेर्लोटि बहुलं छन्दसीति विकरणस्य लुक्। तबादेशः॥७॥

10.63.8
य ईशि᳚रे॒ भुव᳚नस्य॒ प्रचे᳚तसो॒ विश्व᳚स्य स्था॒तुर्जग᳚तश्च॒ मन्त᳚वः ।
ते नः᳚ कृ॒तादकृ᳚ता॒देन᳚स॒स्पर्य॒द्या दे᳚वासः पिपृता स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
ये । ईशि᳚रे । भुव᳚नस्य । प्र॑चे᳚तसः । विश्व᳚स्य । स्था॒तुः । जग᳚तः । च॒ । मन्त᳚वः ।
ते । नः॒ । कृ॒तात् । अकृ᳚तात् । एन᳚सः । परि᳚ । अ॒द्य । दे॒वा॒सः॒ । पि॒पृ॒त॒ । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रचेतसः प्रकृष्टज्ञाना मन्तवः सर्वस्य वेदितारो ये देवाः स्थातुः स्थावरस्य जगतो जङ्गमस्य विश्वस्य सर्वस्य भुवनस्य लोकस्येशिरे ईश्वरा भवन्ति। अथ प्रत्यक्षकृतः। हे देवासो देवाः य उक्तगुणास्ते यूयं नोऽस्मान्कृतात्कायिकात्पापात् अकृतात्करचरणादिभिरकृतादेनसः किन्तु मानसात्पापच्चाद्यास्मिन्चिने स्वस्तयेऽविनाशायायुषोऽभिवृद्धये पिपृत। पारयत पापरहितान्कुरुतेत्यर्थः।।८॥

10.63.9 समानपद
भरे॒ष्विन्द्रं᳚ सु॒हवं᳚ हवामहें॑हो॒मुचं᳚ सु॒कृतं॒ दैव्यं॒ जन᳚म् ।
अ॒ग्निं मि॒त्रं वरु᳚णं सा॒तये॒ भगं॒ द्यावा᳚पृथि॒वी म॒रुतः᳚ स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
भरे᳚षु । इन्द्र᳚म् । सु॒॑हव᳚म् । ह॒वा॒म॒हे॒ । अं॒हः॒॑मुच᳚म् । सु॒॑कृत᳚म् । दैव्य᳚म् । जन᳚म् ।
अ॒ग्निम् । मि॒त्रम् । वरु᳚णम् । सा॒तये᳚ । भग᳚म् । द्यावा᳚पृथि॒वी इति᳚ । म॒रुतः᳚ । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंहोमुचमंहसः पापस्य मोचकं सुहवं शोभनाह्वानमिन्द्रं भरेषु। भृणन्ति भर्जयन्ति विनाशयन्ति शत्रूनत्रेति भराः सङ्ग्रामाः। तेषु हवामहे। रक्षणायाह्वयामः। किञ्च सुकृतम् सुकर्माणं दैव्यं देवसम्बन्धिनमन्यं जनं चाह्वयामहे। तं जनमुद्दिशति। अग्निं मित्रं वरुणं भगं भजनीयमेतन्नामनं देवं द्यावापृथिवी द्यावापृथिव्यौ मरुतश्च सातयेऽन्नलाभाय स्वस्तयेऽविनाशाय रक्षणायाह्वयामहे॥९॥

10.63.10
सु॒त्रामा᳚णं पृथि॒वीं द्याम᳚ने॒हसं᳚ सु॒शर्मा᳚ण॒मदि᳚तिं सु॒प्रणी᳚तिम् ।
दैवीं॒ नावं᳚ स्वरि॒त्रामना᳚गस॒मस्र᳚वन्ती॒मा रु᳚हेमा स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒॑त्रामा᳚णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस᳚म् । सु॒॑शर्मा᳚णम् । अदि᳚तिम् । सु॒॑प्रनी᳚तिम् ।
दैवी᳚म् । नाव᳚म् । सु॒॑अ॒रि॒त्राम् । अना᳚गसम् । अस्र᳚वन्तीम् । आ । रु॒हे॒म॒ । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदितिदेवताकस्य पशॊः सुत्रामाणमित्येषा वपायागस्य याज्या। सुत्रितं च। अदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसम् । आ. ३-८। इति। प्रायणीयेष्टावादित्यस्य हविष एषैवानुवाक्या सैवोदयनीयाया याज्या। सूत्रितं च। सुत्रामाणं पृथिवीं द्यामनेहसं महीमू षु मातरं सुव्रतानाम् । आ. ४-३। इति। प्रयाणेऽनयैव नावमारोहेत्। सूत्रितं च। सुत्रामाणं पृथिवीं द्यामनेहसमिति नावम् । आ. गृ. २-६-८। इति॥

द्युलोको नौकरूपकतया स्तूयते। सुत्रामाणं सुष्ठु त्रायन्तीं पृथिवीं विस्तृतामनेहसं पापरहितां सुशर्माणं शोभनसुखयुक्तामदितिमदीनां सुप्रणीतिं सुप्रणयनां सुष्थु प्रणेत्री दैवीं देवसंबन्धिनीं स्वरित्रां शोभनारित्रां जलाहरणशीलदारुयुक्तामनागसस्ं पापरहितामस्रवन्तीमगच्छन्तीमविनश्वरीं नावं नावमिव स्थितां द्यां स्वस्तयेऽविनाशाय देवत्वप्राप्तय आ रुहेम। वयमारोहेम। रोहतेर्लिङि लिङ्याशिष्यङ्गित्यङ् प्रत्ययः॥१०॥

10.63.11
विश्वे᳚ यजत्रा॒ अधि᳚ वोचतो॒तये॒ त्राय᳚ध्वं नो दु॒रेवा᳚या अभि॒ह्रुतः᳚ ।
स॒त्यया᳚ वो दे॒वहू᳚त्या हुवेम शृण्व॒तो दे᳚वा॒ अव᳚से स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । य॒ज॒त्राः॒ । अधि᳚ । वो॒च॒त॒ । ऊ॒तये᳚ । त्राय᳚ध्वम् । नः॒ । दुः॒॑एवा᳚याः । अ॒भि॒॑ह्रुतः᳚ ।
स॒त्यया᳚ । वः॒ । दे॒व॑हू᳚त्या । हु॒वे॒म॒ । शृ॒ण्व॒तः । दे॒वाः॒ । अव᳚से । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यजत्रा यजनीया हे विश्वे सर्वे देवाः यूयमूतये रक्षणार्थमधि वोचत। अस्मानधिब्रूत। आभाष्य चाभिह्रुतोऽभिहिंसित्र्या दुरेवाया दुर्गतेर्नोऽस्मांस्त्रात्रायुध्वम् । यद्येवं कुरुथ तर्हि हे देवाः शृण्वतः स्तोत्राण्यस्माभिरुक्तानि तादृशान्वो युष्मान् सत्यया यथार्थभुतया देवहूत्या। देवाह्यन्तेऽनयेति देवहूतिः स्तुतिः। तया वयं हुवेम। आह्वयेम। किमर्थम् । अवसे रक्षणाय शत्रुभ्यः स्वस्तये क्षेमाय जीवनाभिवृद्धये च॥११॥

10.63.12
अपामी᳚वा॒मप॒ विश्वा॒मना᳚हुति॒मपारा᳚तिं दुर्वि॒दत्रा᳚मघाय॒तः ।
आ॒रे दे᳚वा॒ द्वेषो᳚ अ॒स्मद्यु᳚योतनो॒रु ण॒ः शर्म᳚ यच्छता स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
अप᳚ । अमी᳚वाम् । अप᳚ । विश्वा᳚म् । अना᳚हुतिम् । अप᳚ । अरा᳚तिम् । दुः॒॑वि॒दत्रा᳚म् । अ॒घ॒॑य॒तः ।
आ॒रे । दे॒वाः॒ । द्वेषः᳚ । अ॒स्मत् । यु॒यो॒त॒न॒ । उ॒रु । नः॒ । शर्म᳚ । य॒च्छ॒त॒ । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः अमीवां रोगादिकम् यद्वा रोगवद्भाधकं शत्रुमस्मत्तोदूरेऽप कुरुत। पृथक्कुरुत। तथा विश्वां सर्वामनाहुतिं देवानामनाह्वानबुद्धिं यद्वा देवानां महाशत्रुं पृथक्कुरुत। किञ्चारातिमदानं लोभबुद्धिं यद्वा देवेभ्यो हविषामदातारं शत्रुमप गमयत। अपि जघायतः पापमिच्छतः। शत्रोर्दुर्विदत्रां दुर्विज्ञानं दुष्तां बुद्धिं इत्थं च द्वेशो द्वेश्टॄन् सर्वाञ्छत्रूनस्मदस्मत्त आरे दूरे युयोतन। पृथक्कुरुत। एवं सति यूयं नोऽस्मभ्यमुरु विस्तीर्णम् शर्म सुखं स्वस्तये कल्याणाय प्रयच्छत॥१२॥

10.63.13
अरि᳚ष्ट॒ः स मर्तो॒ विश्व᳚ एधते॒ प्र प्र॒जाभि᳚र्जायते॒ धर्म᳚ण॒स्परि᳚ ।
यमा᳚दित्यासो॒ नय᳚था सुनी॒तिभि॒रति॒ विश्वा᳚नि दुरि॒ता स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
अरि᳚ष्टः । सः । मर्तः᳚ । विश्वः᳚ । ए॒ध॒ते॒ । प्र । प्र॒॑जाभिः᳚ । जा॒य॒ते॒ । धर्म᳚णः । परि᳚ ।
यम् । आ॒दि॒त्या॒सः॒ । नय᳚थ । सु॒नी॒ति॑भिः᳚ । अति᳚ । विश्वा᳚नि । दुः॒॑इ॒ता । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्वे देवाः विश्वः सर्वोमर्तः स मनुष्योऽरिष्टः कैश्चिदप्यहिंसितः सन्नेधते पश्वादिभिर्वर्धते। तथा धर्मणस्परि धारकात्कर्मणॊऽन्नन्तरम् स मनुष्यः प्रजाभिः पुत्रादिभिः प्रजायते। प्रकर्षेणाविर्भूतो भवति। हे आदित्यास आदित्या देवाः यं मनुष्यं सुनीतिभिः सुनयनैर्विश्वानि सर्वाणि दुरिता दुरितानि पापानि तद्रूञ्छत्रून्वा स्वस्तये क्षेमायाति नयथ अतीत्य सन्मार्गं नयथ। स वर्धत इति समन्वयः॥१३॥

10.63.14
यं दे᳚वा॒सो॑व᳚थ॒ वाज᳚सातौ॒ यं शूर᳚साता मरुतो हि॒ते धने᳚ ।
प्रा॒त॒र्यावा᳚णं॒ रथ᳚मिन्द्र सान॒सिमरि᳚ष्यन्त॒मा रु᳚हेमा स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । दे॒वा॒सः॒ । अव᳚थ । वाज᳚॑सातौ । यम् । शूर᳚॑साता । म॒रु॒तः॒ । हि॒ते । धने᳚ ।
प्रा॒तः॒॑यावा᳚नम् । रथ᳚म् । इ॒न्द्र॒ । सा॒न॒सिम् । अरि᳚ष्यन्तम् । आ । रु॒हे॒म॒ । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवासो देवाः वाजसातावन्नभजनेऽन्न लाभे व यं रथमवथ रक्षथ हे मरुतह् शुरसाता। सङ्ग्रामनामैतत् शूराः स्यन्ति खिद्यन्तेऽत्रेति शूराः सीयन्ते विनश्यन्ते यद्धृभिरत्रेति। तस्मिन्युद्धे यं रथं हिते निहिते धने धनमुद्दिश्य। निमित्तात्कर्मसंयोगे। पा. २-३-३६-६। इति सप्तमी। तदुद्दिश्य रक्षथ। सर्वेषां देवानां मुख्यत्वादिन्द्रमेवाभिलक्ष्य वदत्युत्तरार्धेन। हे इन्द्र सर्वेषां मुख्यप्रातयार्वानम् प्रातरेव युद्धं प्रति गन्तारं सानसिं सम्भजनीयमरिष्यन्तं कैश्चिदप्यहिंसितम्। यद्वा। इन्द्रसहायानां मरुतामभाधकम् । तं रथं स्वस्तयेऽस्माकं रक्षनाय वयमारुहेम। आरोहेम॥१४॥

10.63.15 समानपद
स्व॒स्ति नः᳚ प॒थ्या᳚सु॒ धन्व᳚सु स्व॒स्त्य१॒᳚प्सु वृ॒जने॒ स्व᳚र्वति ।
स्व॒स्ति नः᳚ पुत्रकृ॒थेषु॒ योनि᳚षु स्व॒स्ति रा॒ये म᳚रुतो दधातन ॥
▶ पदपाठः (Word-by-word)
स्व॒स्ति । नः॒ । प॒थ्या᳚सु । धन्व᳚॑सु । स्व॒स्ति । अ॒प्॑सु । वृ॒जने᳚ । स्वः᳚॑वति ।
स्व॒स्ति । नः॒ । पु॒त्र॒॑कृ॒थेषु᳚ । योनि᳚षु । स्व॒स्ति । रा॒ये । म॒रु॒तः॒ । द॒धा॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रायणेयेष्टौ पथ्यास्वस्तेर्यागस्य स्वस्ति नः पथ्यास्वित्येषानुवाक्या। उत्तरायाज्या। सूत्रितं च। स्वस्ति नह् पथ्यासु धन्वस्विति द्वे अग्ने नय सुपथा राये अस्मान्। आ. ४-३। इति। उदयनीयायामेत एव विपर्यस्ते याज्यानुवाक्ये। सूत्रितं च। विपरीताश्च यज्यानुवाक्या इति॥

हे मरुतो मितराविणो देवाः नोऽस्माकं पथ्यासु पथियोग्येषु सोदकेषु देशेषु स्वस्ति कल्याणम् कुरुत। तथा धन्वसु निरुदकेशु देशेषु स्वस्ति कल्याणमुदकजननलक्षनम् कुरुत। तथाप्सूदकेषु स्वस्ति। तथा स्वर्वति सर्वैरायुधैर्युक्ते सेनालक्षने वृजने शत्रूणामावर्जके बले च कल्यानम् कुरुत। नोऽस्माकं पुत्रकृथेषु पुत्रानां कर्तृषूत्पादकेशु स्त्रीणाम् योनिषु स्वस्ति कल्यानं यथा गर्भा न पतन्ति तथा क्षेमं कुरुत। किञ्च नोऽस्माकं राये धनाय गवादिलक्षनाय स्वस्ति क्षेमं दधातन। धत्त। कुरुत॥१५॥

10.63.16 समानपद
स्व॒स्तिरिद्धि प्रप᳚थे॒ श्रेष्ठा॒ रेक्ण᳚स्वत्य॒भि या वा॒ममेति᳚ ।
सा नो᳚ अ॒मा सो अर᳚णे॒ नि पा᳚तु स्वावे॒शा भ᳚वतु दे॒वगो᳚पा ॥
▶ पदपाठः (Word-by-word)
स्व॒स्तिः । इत् । हि । प्र॑प᳚थे । श्रेष्ठा᳚ । रेक्ण᳚स्वती । अ॒भि । या । वा॒मम् । एति᳚ ।
सा । नः॒ । अ॒मा । सो इति᳚ । अर᳚णे । नि । पा॒तु॒ । सु॒॑आ॒वे॒शा । भ॒व॒तु॒ । दे॒व॑गो᳚पा ॥
▶ सायणभाष्यम् (Sayana Commentary)

या पृथिवी गन्तुमुद्युक्तानां प्रपथे प्रकृष्टाय मार्गाय स्वस्तिरित् क्षेमकारिण्येव भवति श्रेष्ठा प्रशस्यतमा रेक्णस्वतिधनवती या पृथिवी वामं वननीयं यज्ञमभ्येति उत्तरवेद्यात्मना वाभिप्राप्नोति सा पृथिवी नोऽस्माकममा। गृहनामैतत्। गृहं रक्षतु। तथा सो सा उ सैवाअरणे गन्तव्ये देशेऽरणेऽरमणेऽरण्यादिके देशे वा नोऽस्मान्निपातु। नितरां रक्ष्तु। तथा देवगोपा देवा गोपायितारो यस्याः सन्ति सा पृथिव्यन्स्माकं स्वावेशा शोभननिवासा भवतु॥१६॥

10.63.17
ए॒वा प्ल॒तेः सू॒नुर᳚वीवृधद्वो॒ विश्व᳚ आदित्या अदिते मनी॒षी ।
ई॒शा॒नासो॒ नरो॒ अम᳚र्त्ये॒नास्ता᳚वि॒ जनो᳚ दि॒व्यो गये᳚न ॥
▶ पदपाठः (Word-by-word)
ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे᳚ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी ।
ई॒शा॒नासः᳚ । नरः᳚ । अम᳚र्त्येन । अस्ता᳚वि । जनः᳚ । दि॒व्यः । गये᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्व आदित्याः सर्वे देवा हे अदिते देवानां मातरेन्नामिके देवि वो युश्मान्मनीषी प्राज्ञः स्तोता प्लतेरेतन्नामकस्यर्षेः सूनुः पुत्रोगयो नामैवैवमुक्तरीत्यावीवृधत्। स्तुतिभिरवर्धयत्। वर्धतेर्ण्यन्तस्य लुङि रूपम्। अमर्त्येन मनुश्यधर्मरहितेन स्तुतेन येन देवजनेन नरो मनुष्या ईशानसो धनस्येश्वराः स्वामिनो भवन्ति स दिव्यो दिवि भवो जनो देवगणो गयेनैतन्नामकेन मयास्तावि। अभिष्टुतोऽभुत्। स्तौतेः कर्मणि लुङि चङि रूपम्॥१७॥