श्रवणम्

10.63.6
को व॒ः स्तोमं᳚ राधति॒ यं जुजो᳚षथ॒ विश्वे᳚ देवासो मनुषो॒ यति॒ ष्ठन᳚ ।
को वो᳚॑ध्व॒रं तु᳚विजाता॒ अरं᳚ कर॒द्यो न॒ः पर्ष॒दत्यंहः᳚ स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
कः । वः॒ । स्तोम᳚म् । रा॒ध॒ति॒ । यम् । जुजो᳚षथ । विश्वे᳚ । दे॒वा॒सः॒ । म॒नु॒षः॒ । यति᳚ । स्थन᳚ ।
कः । वः॒ । अ॒ध्व॒रम् । तु॒वि॒॑जा॒ताः॒ । अर᳚म् । क॒र॒त् । यः । नः॒ । पर्ष᳚त् । अति᳚ । अंहः᳚ । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिर्देवान्प्रति बहुधा वितर्कयति। हे देवाः वो युष्माकं कः स्तोतास्तोमं त्रिवृत्पञ्चदशादिलक्षणं राधति। संसाधयति। न कश्चिदस्तीत्यर्थः। यद्वा। मदन्यः को वो युश्मभ्यं स्तोमं करोति। यूयं यं स्तोतारं जुजोषथ सेवध्वे। जुषी प्रीतिसेवनयोः। लेटि शवः श्लुः। अडागमः। किं च हे मनुषो मन्तारो ज्ञतारो हे विश्वे देवासो देवाः यूयं यति यत्संख्याः स्थन भवथ। यच्छब्दादपि छान्दसो डतिर्द्रष्टव्यः। हे तुविजाता धात्रादिविभागेन बहुजनाना हे देवाः युष्मदर्धं को वा यजमानोऽध्वरं यज्ञमरं करत्। अलङ्करोति स्तुतिभिर्हविर्भिश्च। मदन्यो नास्तीत्यर्थः। यो यज्ञो नोऽस्मान् स्वस्तयेऽविनाशायांहः पापरूपं मार्गमवैदिकमति पर्षत् अतिपारयति तं यज्ञं को वालं करोतीति॥६॥