श्रवणम्

10.63.5 समानपद
स॒म्राजो॒ ये सु॒वृधो᳚ य॒ज्ञमा᳚य॒युरप᳚रिह्वृता दधि॒रे दि॒वि क्षय᳚म् ।
ता{4} आ वि᳚वास॒ नम᳚सा सुवृ॒क्तिभि᳚र्म॒हो आ᳚दि॒त्या{4} अदि᳚तिं स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
स॒म्॑राजः᳚ । ये । सु॒॑वृधः᳚ । य॒ज्ञम् । आ॒॑य॒युः । अप᳚रि॑ह्वृताः । द॒धि॒रे । दि॒वि । क्षय᳚म् ।
तान् । आ । वि॒वा॒स॒ । नम᳚सा । सु॒वृ॒क्ति॑भिः᳚ । म॒हः । आ॒दि॒त्यान् । अदि᳚तिम् । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सम्राजः सर्वेषां राजानः स्वतेजोभिः सम्यग्राजमानाः सुवृधः सुवृद्धा ये देवा यज्ञमाययुः आयान्ति सोमादिहविर्भक्षणार्थम्। ततोऽपरिह्वृताः कैश्चिदप्यहिंसिता ये देवा दिवि द्युलोके क्षयं निवासं दधिरे विदधति कुर्वन्ति। ऋषिरात्मानमाह। महो महतो गुणाधिक्येनादित्यानदितेः पुत्रांस्तान्प्रसिद्धान्देवानदितिं तेषां मातरमेतन्नामिकां च स्वस्तयेऽविनाशाय नमसा हवीरूपेणान्नेन सुवृक्तिभिः शोभनाभिः स्तुतिभिश्चा विवास। आभिमुख्येन परिचर। विवासतिः परिचरणकर्मा॥५॥