यत्र॒ गोषा᳚ता धृषि॒तेषु᳚ खा॒दिषु॒ विष्व॒क्पत᳚न्ति दि॒द्यवो᳚ नृ॒षाह्ये᳚ ॥
पदपाठः (Word-by-word)
यत्र᳚ । गो॑सा᳚ता । धृ॒षि॒तेषु᳚ । खा॒दिषु᳚ । विष्व᳚क् । पत᳚न्ति । दि॒द्यवः᳚ । नृ॒॑सह्ये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र त्वं यशस्वति कीर्तिमति शिमीवति परस्परप्रहारलक्षणकर्मवति अस्मिन्नुपस्थि- ते पृत्सुतौ संग्रामे क्रंदसि सिंहनादं करोषि । सातये धनलाभाय प्राव नः अस्मान् प्ररक्ष- सि च । कस्मिन्नित्यत्राह यत्र यस्मिन् गोषाता गोसातौ लब्धपशुके भृषाह्ये नृणामभिभा- वुके च संग्रामे खादिषु परस्परखादकेषु च योद्दृषु धृषितेषु धृष्टेषु सत्सु दिद्यवः आयु धानि विष्वक् सर्वतः पतंति ॥ १ ॥