यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि᳚भि॒र्यो अ॒भीके᳚ वरिवो॒विन्नृ॒षाह्ये᳚ ।
तं वि᳚खा॒दे सस्नि᳚म॒द्य श्रु॒तं नर᳚म॒र्वाञ्च॒मिन्द्र॒मव᳚से करामहे ॥
तं वि᳚खा॒दे सस्नि᳚म॒द्य श्रु॒तं नर᳚म॒र्वाञ्च॒मिन्द्र॒मव᳚से करामहे ॥
पदपाठः (Word-by-word)
यः । द॒भ्रेभिः᳚ । हव्यः᳚ । यः । च॒ । भूरि᳚॑भिः । यः । अ॒भीके᳚ । व॒रि॒वः॒॑वित् । नृ॒॑सह्ये᳚ ।
तम् । वि॒॑खा॒दे । सस्नि᳚म् । अ॒द्य । श्रु॒तम् । नर᳚म् । अ॒र्वाञ्च᳚म् । इन्द्र᳚म् । अव᳚से । क॒रा॒म॒हे॒ ॥
तम् । वि॒॑खा॒दे । सस्नि᳚म् । अ॒द्य । श्रु॒तम् । नर᳚म् । अ॒र्वाञ्च᳚म् । इन्द्र᳚म् । अव᳚से । क॒रा॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
नृसह्ये नॄणामभिभावुके विखादे विशेषण भक्षके अभीके संग्रामे वरिवोवित् धनस्य लंभकोयइंद्रोदभ्रेभिः स्वल्पैव्योह्वातव्योयश्च भूरिभिः बहुभिः हव्यः तं सस्निं शुचिं श्रुतं सर्वत्र विख्यातं नरंनेतारमिंद्रं अद्यास्मिन्नहनि अवसेस्मद्रक्षणाय अर्वांचमस्मदभिमुखं क- रामहे कुर्मः ॥ ४ ॥