श्रवणम्

10.38.2
स नः᳚ क्षु॒मन्तं॒ सद᳚ने॒ व्यू᳚र्णुहि॒ गोअ᳚र्णसं र॒यिमि᳚न्द्र श्र॒वाय्य᳚म् ।
स्याम᳚ ते॒ जय᳚तः शक्र मे॒दिनो॒ यथा᳚ व॒यमु॒श्मसि॒ तद्व᳚सो कृधि ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । क्षु॒॑मन्त᳚म् । सद᳚ने । वि । ऊ॒र्णु॒हि॒ । गो॑अ᳚र्णसम् । र॒यिम् । इ॒न्द्र॒ । श्र॒वाय्य᳚म् ।
स्याम᳚ । ते॒ । जय᳚तः । श॒क्र॒ । मे॒दिनः᳚ । यथा᳚ । व॒यम् । उ॒श्मसि᳚ । तत् । व॒सो॒ इति᳚ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ससर्वानुग्रहकत्वेन प्रसिद्धः त्वं नोस्माकं सदने गृहे क्षुमंतं अन्नवंतं शब्दवंतं वा गोअर्णसं गावोर्णउदकमिव प्रवृद्धायस्मिन् तं श्रवाय्यं श्रवणीयंरयिंधनं व्यूर्णुहि विविधमा- च्छादय । किंच हे वसो वासक शक्रेंद्र जयतः शत्रुं ते तव प्रसादात् वयं मेदिनोमेदसा युक्ताः बलवंतः स्याम भवेम । किंबहूक्त्या यथा यत् वयमुश्मसि कामयामहे तत्सर्वं कृधि कुरु ॥ २ ॥