यो नो॒ दास॒ आर्यो᳚ वा पुरुष्टु॒तादे᳚व इन्द्र यु॒धये॒ चिके᳚तति ।
अ॒स्माभि᳚ष्टे सु॒षहा᳚ः सन्तु॒ शत्र᳚व॒स्त्वया᳚ व॒यं तान्व᳚नुयाम संग॒मे ॥
अ॒स्माभि᳚ष्टे सु॒षहा᳚ः सन्तु॒ शत्र᳚व॒स्त्वया᳚ व॒यं तान्व᳚नुयाम संग॒मे ॥
पदपाठः (Word-by-word)
यः । नः॒ । दासः᳚ । आर्यः᳚ । वा॒ । पु॒रु॒॑स्तु॒त॒ । अदे᳚वः । इ॒न्द्र॒ । यु॒धये᳚ । चिके᳚तति ।
अ॒स्माभिः᳚ । ते॒ । सु॒॑सहाः᳚ । स॒न्तु॒ । शत्र᳚वः । त्वया᳚ । व॒यम् । तान् । व॒नु॒या॒म॒ । स॒म्॑ग॒मे ॥
अ॒स्माभिः᳚ । ते॒ । सु॒॑सहाः᳚ । स॒न्तु॒ । शत्र᳚वः । त्वया᳚ । व॒यम् । तान् । व॒नु॒या॒म॒ । स॒म्॑ग॒मे ॥
सायणभाष्यम् (Sayana Commentary)
हे पुरुष्टुत बहुस्तुतेद्र योदासः कर्मकरः शूद्रः आर्यस्त्रैवर्णिकोवा देवश्चान्योसुरोवा नो- स्मान् युधये युद्धाय चिकेतति जानाति ते सर्वे शत्रवोस्मदरयस्ते तव प्रसादादस्माभिः सुसहाः स्वभिभवाः संतु भवंतु । किंच वयं त्वया सहायेन तान् शत्रून् संगमे संग्रामे वनुयाम हन्याम ॥ ३ ॥