दशमं मण्डलम् - सूक्तम् 136

7 ऋचः

ऋषिः: जूतिः देवता: केशिनः छन्दः: अनुष्टुप्

सूक्तम् 10.136 - सम्पूर्णम्

1 / 7
ऋक्: 10.136.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.136.1
के॒श्य१॒᳚ग्निं के॒शी वि॒षं के॒शी बि᳚भर्ति॒ रोद᳚सी ।
के॒शी विश्वं॒ स्व᳚र्दृ॒शे के॒शीदं ज्योति᳚रुच्यते ॥
▶ पदपाठः (Word-by-word)
के॒शी । अ॒ग्निम् । के॒शी । वि॒षम् । के॒शी । बि॒भ॒र्ति॒ । रोद᳚सी॒ इति᳚ ।
के॒शी । विश्व᳚म् । स्वः᳚ । दृ॒शे । के॒शी । इ॒दम् । ज्योतिः᳚ । उ॒च्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

केशीति सप्तर्चमष्टमं सूक्तमग्निसूर्यवायुदेवताकम्। वातरशनपुताजूतिवातजूतिप्रभृतयः प्रत्युचं क्रमेणर्षयः। तथा चानुक्रान्तम्। केशी मुनयो वातरशना जूतिर्वातजूतिर्विप्रजूतिर्वृषाणकः करिक्रत एतश ऋष्यशृङ्गश्चैकर्चाह् कैशिनमिति। गतो विनियोगः॥

केशाः केशस्थानीया रश्मयः। तद्वन्तः केशिनोऽग्निर्वायुः सूर्यश्च। एते त्रयः स्तूयन्ते। केशी रश्मिभिर्युक्तः प्रकाशमानो वा सूर्योऽग्निं बिभर्ति। हविर्भिः पोषयति। धारयति वा। कालविशेषे ह्यग्नेः पोषणाय होमः। स च कालविशेशः सूर्यगत्यधिन इति सूर्य एव बिभर्तीत्युच्यते। तथा विषम्। उदकानामैतत्। उदकं रश्मिभिर्घर्मसमय आहृतमयमेव केशी बिभर्ति विस्रष्टुम्। तथा रोदसी द्यावापृथिव्यावप्ययमेव बिभर्ति। अपि च विश्वं व्याप्तम् स्वः सर्वं जगद्दृशे दर्शनायायमेव केशी करोति। प्रकाशयतीत्यर्थः। इत्थं महानुभावः केशी को नामेत्यत आह। इदं दृश्यमानं मण्डलस्थं यज्ज्योतिरिदमेव केशीत्युच्यते। नान्य इत्यर्थः॥१॥

10.136.2
मुन᳚यो॒ वात᳚रशनाः पि॒शङ्गा᳚ वसते॒ मला᳚ ।
वात॒स्यानु॒ ध्राजिं᳚ यन्ति॒ यद्दे॒वासो॒ अवि᳚क्षत ॥
▶ पदपाठः (Word-by-word)
मुन᳚यः । वात᳚॑रशनाः । पि॒शङ्गा᳚ । व॒स॒ते॒ । मला᳚ ।
वात᳚स्य । अनु᳚ । ध्राजि᳚म् । य॒न्ति॒ । यत् । दे॒वासः᳚ । अवि᳚क्षत ॥
▶ सायणभाष्यम् (Sayana Commentary)

वातरशना वातरशनस्य पुत्रा मुनयोऽतीन्द्रियार्थदर्शिनो जूतिवातजूतिप्रभृतयः पिशङ्गा पिशङ्गानि कपिलवर्नानि मला मलिनानि वल्कलरूपाणि वासांसि वसते। आच्छादयन्ति। वस आच्छादने आदादिकः। ईदृशास्ते यद्यदा देवासो देवास्तपसो महिम्ना दीप्यमानाः सन्तोऽविक्षत देवतास्वरूपं प्राविशन्। विशेर्लुङि शल इगुपधादनिटः क्सः। व्यत्ययेनात्मनेपदम्। तदा ते वातस्य वायोर्ध्राजिं गतिमनुयन्ति। अनुगच्छन्ति। प्राणोपासनया प्रानरूपिणो वायुभावं प्रपन्ना इत्यर्थः॥२॥

10.136.3
उन्म᳚दिता॒ मौने᳚येन॒ वाता{4}॒ आ त᳚स्थिमा व॒यम् ।
शरी॒रेद॒स्माकं᳚ यू॒यं मर्ता᳚सो अ॒भि प᳚श्यथ ॥
▶ पदपाठः (Word-by-word)
उत्॑म᳚दिताः । मौने᳚येन । वाता᳚न् । आ । त॒स्थि॒म॒ । व॒यम् ।
शरी᳚रा । इत् । अ॒स्माक᳚म् । यू॒यम् । मर्ता᳚सः । अ॒भि । प॒श्य॒थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मौनेयेन मुनिभावेन लौकिकसर्वव्यवहारविसर्जनेनोन्मदिता उन्मत्ता उन्मत्तवदाचरन्तः। यद्वा। उत्कृष्टं मदं हर्षं प्राप्ताः। वयं वातन्वायूनस्माभिरुपास्यमानाना तस्थिम। आस्थितवन्तः। हे मर्तासो मनुष्याः अस्माकं शरीरेच्छरीराण्येव यूयं केवलमभि पश्यथ। नास्मान्। यतो वयं नीरूपेण वायुना सायुज्यं प्राप्ताः॥३॥

10.136.4 समानपद
अ॒न्तरि᳚क्षेण पतति॒ विश्वा᳚ रू॒पाव॒चाक᳚शत् ।
मुनि᳚र्दे॒वस्य᳚देवस्य॒ सौकृ᳚त्याय॒ सखा᳚ हि॒तः ॥
▶ पदपाठः (Word-by-word)
अ॒न्तरि᳚क्षेण । प॒त॒ति॒ । विश्वा᳚ । रू॒पा । अ॒व॒॑चाक᳚शत् ।
मुनिः᳚ । दे॒वस्य᳚॑देवस्य । सौकृ᳚त्याय । सखा᳚ । हि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मुनिरस्यर्चो द्रष्टावृषाणक ऋषिर्वातरूपताम् सूर्यात्मतां वा तत्तदुपासनया प्राप्तः सन्नन्तरिक्षेणाकाशेन पतति। गच्छति। किं कुर्वन्। विश्वा विश्वानि सर्वानि रूपाणि रूप्यमाणानि पदार्थजातान्य वचाकशदभिपश्यन् स्वतेजसा दर्शयन्। तथा देवस्य देवस्य। नित्यवीप्सयोरिति द्विर्वचनम्। अनुदात्त चेति परस्याम्रेडितस्यानुदात्तत्वम्। सर्वस्यापि देवस्य सखा सखिभूतः अत एव सौकृत्याय। सुष्ठु देवानुद्दिश्य क्रियमाणं यागात्मकं कर्म सुकृतम्। तस्य भावाय सम्यगनुष्थापनाय हितः। सहितः स्थापितो भवति॥४॥

10.136.5
वात॒स्याश्वो᳚ वा॒योः सखाथो᳚ दे॒वेषि᳚तो॒ मुनि᳚ः ।
उ॒भौ स᳚मु॒द्रावा क्षे᳚ति॒ यश्च॒ पूर्व᳚ उ॒ताप᳚रः ॥
▶ पदपाठः (Word-by-word)
वात᳚स्य । अश्वः᳚ । वा॒योः । सखा᳚ । अथो॒ इति᳚ । दे॒व॑इ᳚षितः । मुनिः᳚ ।
उ॒भौ । स॒मु॒द्रौ । आ । क्षे॒ति॒ । यः । च॒ । पूर्वः᳚ । उ॒त । अप᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वातस्य वयोर्गतिरिवाश्वो व्याप्तः। यद्वा। वायोरशिता भोक्ता। वायुरेव तस्याहार इत्यर्थः। अत एव वायोः सखा मित्रभूतः अथो अपि च देवेषितो देवेन द्योतमानेन वायुना सूर्येण वेशितः प्राप्तः। तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम्। ईदृशो मुनिः करिक्रताख्य ऋषिरुक्तप्रकारेण वायुरूपः सूर्यरूपो वा सन्नुभौ समुद्रावुदधी आ क्षेति। अभिगच्छति। क्षि निवासगत्योः। छान्दसो विकरनस्य लुक्। कौ तौ समुद्रा। यश्च पुर्वः समुद्रः। उतशब्दश्चार्थे। यश्चापरः समुद्रः॥५॥

10.136.6
अ॒प्स॒रसां᳚ गन्ध॒र्वाणां᳚ मृ॒गाणां॒ चर᳚णे॒ चर᳚न् ।
के॒शी केत᳚स्य वि॒द्वान्त्सखा᳚ स्वा॒दुर्म॒दिन्त᳚मः ॥
▶ पदपाठः (Word-by-word)
अ॒प्स॒रसा᳚म् । ग॒न्ध॒र्वाणा᳚म् । मृ॒गाणा᳚म् । चर᳚णे । चर᳚न् ।
के॒शी । केत᳚स्य । वि॒द्वान् । सखा᳚ । स्वा॒दुः । म॒दिन्॑त᳚मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्सरसाम् देवस्त्रीणां गन्धर्वाणाम् चरने सञ्चारभुते दिव्यन्तरिक्षे च तथा मृगानाम् सिंहादीनां सञ्चारस्थले पृथिव्यां चरन् व्याप्य सञ्चरन्केश्यग्निर्वायुह् सूर्यो वा केतस्य ज्ञातव्यस्य सर्वस्यार्थजातस्य विद्वान् यद्वा ज्ञातव्यस्यास्यर्षेरेतशस्य सखा विद्वानविशेषात्सर्वम् जानन् स्वादुः स्वादयिता रसयिता सर्वस्य रसस्योत्पादकः अत एव मदिन्तमो मादयितृतमो भवति। नाद्घस्येति नुडागमः॥६॥

10.136.7 समानपद
वा॒युर᳚स्मा॒ उपा᳚मन्थत्पि॒नष्टि᳚ स्मा कुनन्न॒मा ।
के॒शी वि॒षस्य॒ पात्रे᳚ण॒ यद्रु॒द्रेणापि᳚बत्स॒ह ॥
▶ पदपाठः (Word-by-word)
वा॒युः । अ॒स्मै॒ । उप᳚ । अ॒म॒न्थ॒त् । पि॒नष्टि᳚ । स्म॒ । कु॒न॒न्न॒मा ।
के॒शी । वि॒षस्य᳚ । पात्रे᳚ण । यत् । रु॒द्रेण᳚ । अपि᳚बत् । स॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

केशी रश्मिभिर्युक्तः सुर्यो रुद्रेण रुद्रपुत्रेण मरुद्गनेन। यद्वा। रुद्रो वा एष यदग्निः। तै. सं. ५-४-३-१। इति श्रवनाद्रुद्रो वैद्युताग्निः। तेन सह वर्तमानो विषस्य। उदकनामैतत्। क्रियाग्रहनं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थ्यर्थ्ये षष्थी। विषमुदकं पात्रेण पानसाधनेन रश्मिजालेन यद्यदापिबत् पिबति तदास्मै केशिने वायुरूपामन्थत्। भूतगं सर्वं रसमुपमथ्नाति। यद्वा। यदापिबत् पितवान्भवति तदा सूर्यमण्डले घनीभूतमस्य तदुदकं वायुरुपमथ्नाति। मन्थनेन वैद्युताग्निनालोडयति। तथा कुनन्नमा कुत्सितमपि भृशं नमयित्री स्वयं नमयितुमशक्या स्वतन्त्रा माध्यमिका वाक् पिनष्ति स्म। यथाधस्तात्स्रवति तथा चूर्णीकरोति। स्मेति प्रसिद्धौ। कुपुर्वान्नमयतेः। पचाद्यचि यङोऽचि चेति यङो लुक्। थाथादिनोत्तरपदान्तोदात्तत्वम्॥७॥