श्रवणम्

10.136.4 समानपद
अ॒न्तरि᳚क्षेण पतति॒ विश्वा᳚ रू॒पाव॒चाक᳚शत् ।
मुनि᳚र्दे॒वस्य᳚देवस्य॒ सौकृ᳚त्याय॒ सखा᳚ हि॒तः ॥
▶ पदपाठः (Word-by-word)
अ॒न्तरि᳚क्षेण । प॒त॒ति॒ । विश्वा᳚ । रू॒पा । अ॒व॒॑चाक᳚शत् ।
मुनिः᳚ । दे॒वस्य᳚॑देवस्य । सौकृ᳚त्याय । सखा᳚ । हि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मुनिरस्यर्चो द्रष्टावृषाणक ऋषिर्वातरूपताम् सूर्यात्मतां वा तत्तदुपासनया प्राप्तः सन्नन्तरिक्षेणाकाशेन पतति। गच्छति। किं कुर्वन्। विश्वा विश्वानि सर्वानि रूपाणि रूप्यमाणानि पदार्थजातान्य वचाकशदभिपश्यन् स्वतेजसा दर्शयन्। तथा देवस्य देवस्य। नित्यवीप्सयोरिति द्विर्वचनम्। अनुदात्त चेति परस्याम्रेडितस्यानुदात्तत्वम्। सर्वस्यापि देवस्य सखा सखिभूतः अत एव सौकृत्याय। सुष्ठु देवानुद्दिश्य क्रियमाणं यागात्मकं कर्म सुकृतम्। तस्य भावाय सम्यगनुष्थापनाय हितः। सहितः स्थापितो भवति॥४॥