दशमं मण्डलम् - सूक्तम् 73

11 ऋचः

ऋषिः: गौरवीतिः देवता: इंद्रः (मरुतः) छन्दः: त्रिष्टुप्

सूक्तम् 10.73 - सम्पूर्णम्

1 / 11
ऋक्: 10.73.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.73.1
जनि᳚ष्ठा उ॒ग्रः सह᳚से तु॒राय᳚ म॒न्द्र ओजि᳚ष्ठो बहु॒लाभि᳚मानः ।
अव᳚र्ध॒न्निन्द्रं᳚ म॒रुत᳚श्चि॒दत्र᳚ मा॒ता यद्वी॒रं द॒धन॒द्धनि᳚ष्ठा ॥
▶ पदपाठः (Word-by-word)
जनि᳚ष्ठाः । उ॒ग्रः । सह᳚से । तु॒राय᳚ । म॒न्द्रः । ओजि᳚ष्ठः । ब॒हु॒ल॑अ᳚भिमानः ।
अव᳚र्धन् । इन्द्र᳚म् । म॒रुतः᳚ । चि॒त् । अत्र᳚ । मा॒ता । यत् । वी॒रम् । द॒धन᳚त् । धनि᳚ष्ठा ॥
▶ सायणभाष्यम् (Sayana Commentary)

जनिष्था इत्येकादशर्चं पञ्चमं सूक्तं शक्तिपुत्रस्य गौरिवीतेरार्षम् मारुतं त्रैष्तुभम् । तथा चानुक्रान्तम्। जनिष्था एकादश गौरिवितिरिति। अग्निष्तोमे मरुत्वतीयशस्त्र इदं सूक्तं निविद्धानम्। सूत्रितं च। जनिष्था उग्र इत्येकभूयसीः शस्त्वा मरुत्वतीयां निविदं दध्यात्। आ. ५-१४। इति। स्ॐइकचारुत्मास्येशु वैश्वेदेवेऽष्येतन्मरुत्वतीयम् निविद्धानम् । सूत्रितं च। जनिष्था उग्रो जज्ञ इति माध्यन्दिनः। आ. ९-२। इति । महाव्रतेऽपि निष्केवल्य एतत्सूक्तम्। तथैव पञ्चमारण्यके सूत्रितम्। जनिष्था उग्रः सहसे तुरायेति निविद्धानम्। ऐ. आ. ५-१-१-। इति॥

हे इन्द्र सहसे बलाय तुराय शत्रूणाम् हिम्सनाय त्वमुग्र उद्गूर्ण बलो जनिष्थाः। अजायथाः। कीदृशस्त्वम्। मन्द्रः स्तुत्य ओजिष्ठः। ल्जः शरीरबलं अतिशयेन तद्वान् बहुलाभिमानो भूयिष्ठाभिमानी। ईदृशं महानुभावमिन्द्र मत्र वृत्रवधे मरुतश्चिन्मरुतोऽप्यवर्धन्। स्तुत्या साहाय्येन वा वर्धितवन्तः। यद्यदा धनिष्ठा धारयित्रीन्द्रमाता वीरं दधनत् अधारयत्॥१॥

10.73.2
द्रु॒हो निष᳚त्ता पृश॒नी चि॒देवै᳚ः पु॒रू शंसे᳚न वावृधु॒ष्ट इन्द्र᳚म् ।
अ॒भीवृ᳚तेव॒ ता म᳚हाप॒देन᳚ ध्वा॒न्तात्प्र᳚पि॒त्वादुद᳚रन्त॒ गर्भा᳚ः ॥
▶ पदपाठः (Word-by-word)
द्रु॒हः । नि॑स᳚त्ता । पृ॒श॒नी । चि॒त् । एवैः᳚ । पु॒रु । शंसे᳚न । व॒वृ॒धुः॒ । ते । इन्द्र᳚म् ।
अ॒भिवृ᳚ता॑इव । ता । म॒हा॒॑प॒देन᳚ । ध्वा॒न्तात् । प्र॒॑पि॒त्वात् । उत् । अ॒र॒न्त॒ । गर्भाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्रुहो द्रोग्धुरिन्द्रस्य पृशनी चित् सेनापि निषत्ता। तत्सन्निधौ निषण्णाभूत्। एवैर्गन्तृभिर्मरुद्भिः सहितमिन्द्रं निषण्णेति सम्बन्धः। तेऽपि मरुतः पुरु प्रभूतेन शंसेन स्तोत्रेणेन्द्रं ववृधुः। आवर्धन्त व्रुत्रं जिघांसन्तम्। अथ महापदेन महता व्रजेनाभीवृतेव परिवृतानीव गवादीनि तानि यथावरनापगमे निर्गच्छन्ति तद्वत्तान्युदकानि ध्व्बान्तादन्धकाररूपात्प्रपित्वादासन्नात्प्राप्ताद्वृत्राद्गर्भा गर्ग्भभूतान्युदकान्युदरन्त। उदगच्छन्॥२॥

10.73.3
ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव᳚र्ध॒न्वाजा᳚ उ॒त ये चि॒दत्र᳚ ।
त्वमि᳚न्द्र सालावृ॒कान्त्स॒हस्र᳚मा॒सन्द᳚धिषे अ॒श्विना व᳚वृत्याः ॥
▶ पदपाठः (Word-by-word)
ऋ॒ष्वा । ते॒ । पादा᳚ । प्र । यत् । जिगा᳚सि । अव᳚र्धन् । वाजाः᳚ । उ॒त । ये । चि॒त् । अत्र᳚ ।
त्वम् । इ॒न्द्र॒ । सा॒ला॒वृ॒कान् । स॒हस्र᳚म् । आ॒सन् । द॒धि॒षे॒ । अ॒श्विना᳚ । आ । व॒वृ॒त्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते पादावृष्वा महान्तौ। तादृशस्त्वं यद्यदा जिगासि गच्छसि तदानीं वाजा ऋभवोऽवर्धन्। अवर्धयन्। उतपि च ये चिद्ये केचिद्देवाः सन्ति तेऽप्यवर्धयन्। हे इन्द्र त्वं सहस्रं सालावृकानासन्नास्ये दधिषे। धारयसि। तदानीमश्विनाश्विनावप्या ववृत्याः। आवर्तयेः॥३॥

10.73.4
स॒म॒ना तूर्णि॒रुप᳚ यासि य॒ज्ञमा नास᳚त्या स॒ख्याय᳚ वक्षि ।
व॒साव्या᳚मिन्द्र धारयः स॒हस्रा॒श्विना᳚ शूर ददतुर्म॒घानि᳚ ॥
▶ पदपाठः (Word-by-word)
स॒म॒ना । तूर्णिः᳚ । उप᳚ । या॒सि॒ । य॒ज्ञम् । आ । नास᳚त्या । स॒ख्याय᳚ । व॒क्षि॒ ।
व॒साव्या᳚म् । इ॒न्द्र॒ । धा॒र॒यः॒ । स॒हस्रा᳚ । अ॒श्विना᳚ । शू॒र॒ । द॒द॒तुः॒ । म॒घानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रा समना सङ्ग्रामे तूर्णिस्त्वरमाणोऽपि यज्ञमुप यासि। उपगच्छसि। तदानीं नासत्याश्विनौ सख्याय वक्षि। वहसि। हे इन्द्र वसाव्यां वसुसमुहं सहस्रा सहस्रां बहुसङ्ख्यां धारयः। धारयस्यस्माकमर्थाय। हे शूर अश्विनाश्विनावपि तवानुचरौ मघानि धनानि ददतुः। अस्मभ्यं प्रयच्छतः॥४॥

10.73.5
मन्द᳚मान ऋ॒तादधि᳚ प्र॒जायै॒ सखि᳚भि॒रिन्द्र᳚ इषि॒रेभि॒रर्थ᳚म् ।
आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिह॒ः प्र त॒म्रा अ᳚वप॒त्तमां᳚सि ॥
▶ पदपाठः (Word-by-word)
मन्द᳚मानः । ऋ॒तात् । अधि᳚ । प्र॒॑जायै᳚ । सखि᳚॑भिः । इन्द्रः᳚ । इ॒षि॒रेभिः᳚ । अर्थ᳚म् ।
आ । आ॒भिः॒ । हि । मा॒याः । उप᳚ । दस्यु᳚म् । आ । अगा᳚त् । मिहः᳚ । प्र । त॒म्राः । अ॒व॒प॒त् । तमां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्र ऋताद्यज्ञादधीशिरेभिर्गमनशीलैः सखिभिर्मरुद्भिः सह मन्दसानो माद्यन्प्रजायै यजमानायार्थं धनं प्रयच्छति। स चेन्द्र आभिः प्रजाभिर्निमित्तभूताभिर्माया दस्युसम्बन्धिनीर्विनाशयितुं दस्युमुपागात्। स दस्युस्तम्रा अवर्षनेन ग्लापयित्रीर्मिहो वृष्टीः प्रावपत्। व्यनाशयदित्यर्थः। तमांसि॥५॥

10.73.6
सना᳚माना चिद्ध्वसयो॒ न्य᳚स्मा॒ अवा᳚ह॒न्निन्द्र᳚ उ॒षसो॒ यथानः᳚ ।
ऋ॒ष्वैर᳚गच्छ॒ः सखि᳚भि॒र्निका᳚मैः सा॒कं प्र᳚ति॒ष्ठा हृद्या᳚ जघन्थ ॥
▶ पदपाठः (Word-by-word)
स॑ना᳚माना । चि॒त् । ध्व॒स॒यः॒ । नि । अ॒स्मै॒ । अव᳚ । अ॒ह॒न् । इन्द्रः᳚ । उ॒षसः᳚ । यथा᳚ । अनः᳚ ।
ऋ॒ष्वैः । अ॒ग॒च्छः॒ । सखि᳚॑भिः । नि॑का᳚मैः । सा॒कम् । प्र॒ति॒॑स्था । हृद्या᳚ । ज॒घ॒न्थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रो वृत्रं हन्तुं सनामाना चित् समाननामानौ नि ध्व सयः। न्यगमयत्। अथेन्द्रस्तं वृत्रमवाहन्। अवहतवान्। यथोषसोऽनः शकटमवनाशितवान् तद्वत्। अथ प्रत्यक्षॆणोच्यते। हे इन्द्र त्वमृष्वैर्दीप्तैर्महद्भिर्वा निकामैर्नितरां वृत्रवधं कामयमानैः सछिभिर्मरुद्भिः साकं वृत्रं हन्तुमगच्छः। आगत्य च प्रतिष्ठा प्रतिष्ठानानि शरीराणि हृद्या हृद्यानि रमणीयानि जघन्थ। हतवानसि। हन्तेस्थल्युपदेशेऽत्वत इतीट् प्रतिषेधः॥६॥

10.73.7 समानपद
त्वं ज᳚घन्थ॒ नमु᳚चिं मख॒स्युं दासं᳚ कृण्वा॒न ऋष᳚ये॒ विमा᳚यम् ।
त्वं च᳚कर्थ॒ मन᳚वे स्यो॒नान्प॒थो दे᳚व॒त्राञ्ज᳚सेव॒ याना᳚न् ॥
▶ पदपाठः (Word-by-word)
त्वम् । ज॒घ॒न्थ॒ । नमु᳚चिम् । म॒ख॒स्युम् । दास᳚म् । कृ॒ण्वा॒नः । ऋष᳚ये । वि॑मा᳚यम् ।
त्वम् । च॒क॒र्थ॒ । मन᳚वे । स्यो॒नान् । प॒थः । दे॒व॒॑त्रा । अञ्ज᳚सा॑इव । याना᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं नमुचिमेतत्संज्ञकमसुरं जघन्थ। हतवानसि। कीदृशम् । मखस्युमृषेर्यज्ञं विधातुमिच्छन्तं यद्वा त्वदीयम् धनमिच्छन्तम् । किं कुर्वन्। दासमुपक्षपयितारं नमुचिमसुरमृषये मनवे विमायं विगतमायं कृण्वानः कुर्वन्। किञ्च देवत्रा देवेषु मध्ये मनव ऋषये समान्येन मनुष्याय वा पथो मार्गान्स्योनांश्च कर्थ। कृतवानसि। अथव देवत्रा देवेषु मध्ये गन्तव्यान्मार्गानिति वा सम्बन्धः। स्योनांश्च कर्थेयुक्तमेव विवृणोति। अञ्ज्सेवयानानिति। इवेत्येवकारार्थे। अञ्जसैवाकुटिलेनैव यानान्गन्तॄन्मार्गानकरोः। अथवा मार्गेणाकुटिलेनैव गन्तॄंश्च कर्थ। यथा लोके शीघ्रं गतो मार्गः क्यान्त्या गतो मार्ग इति मार्गस्य गन्तृत्वोपचारः तद्वदत्रापि यातृत्वं द्रष्टव्यम्।।७॥

10.73.8
त्वमे॒तानि᳚ पप्रिषे॒ वि नामेशा᳚न इन्द्र दधिषे॒ गभ᳚स्तौ ।
अनु᳚ त्वा दे॒वाः शव᳚सा मदन्त्यु॒परि᳚बुध्नान्व॒निन᳚श्चकर्थ ॥
▶ पदपाठः (Word-by-word)
त्वम् । ए॒तानि᳚ । प॒प्रि॒षे॒ । वि । नाम᳚ । ईशा᳚नः । इ॒न्द्र॒ । द॒धि॒षे॒ । गभ᳚स्तौ ।
अनु᳚ । त्वा॒ । दे॒वाः । शव᳚सा । म॒द॒न्ति॒ । उ॒परि᳚॑बुध्नान् । व॒निनः᳚ । च॒क॒र्थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वमेतानि नाम नामानि नामकान्युदकानि वि पप्रिषे। विपूरयसि हे इन्द्र ईशानः सर्वस्येश्वरस्त्वं गभस्तौ हस्ते दधिषे धारयसि वज्रं धनं वा। किञ्च त्वा त्वां शवसा बलेनोपेतं देवाः सर्वेऽनु मदन्ति। अनुष्टुवन्ति। स त्वं वनिन उदकवतो मेघान्रश्मीन्वोपरिबुध्नानुपरिमूलानधोमुखांश्च कर्थ। कृतवानसि॥।८॥

10.73.9
च॒क्रं यद᳚स्या॒प्स्वा निष᳚त्तमु॒तो तद᳚स्मै॒ मध्विच्च᳚च्छद्यात् ।
पृ॒थि॒व्यामति᳚षितं॒ यदूध॒ः पयो॒ गोष्वद᳚धा॒ ओष᳚धीषु ॥
▶ पदपाठः (Word-by-word)
च॒क्रम् । यत् । अ॒स्य॒ । अ॒प्॑सु । आ । नि॑स᳚त्तम् । उ॒तो इति᳚ । तत् । अ॒स्मै॒ । मधु᳚ । इत् । च॒च्छ॒द्या॒त् ।
पृ॒थि॒व्याम् । अति᳚॑सितम् । यत् । ऊधः᳚ । पयः᳚ । गोषु᳚ । अद᳚धाः । ओष᳚धीषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्येन्द्रस्य चक्रमायुधं यदप्सु अन्तरिक्षे निषण्णं उतो अपि च तदायुध मस्मा इन्द्राय मधु च्च्छद्यात् वशं नयति। यत्पृथिव्यामतिषितं निमित्तं ऊधः ऊधसो मेघात् तदुदकं पयः गोष्वोषधीशु चादधा इति॥९॥

10.73.10
अश्वा᳚दिया॒येति॒ यद्वद॒न्त्योज᳚सो जा॒तमु॒त म᳚न्य एनम् ।
म॒न्योरि᳚याय ह॒र्म्येषु᳚ तस्थौ॒ यतः᳚ प्रज॒ज्ञ इन्द्रो᳚ अस्य वेद ॥
▶ पदपाठः (Word-by-word)
अश्वा᳚त् । इ॒या॒य॒ । इति᳚ । यत् । वद᳚न्ति । ओज᳚सः । जा॒तम् । उ॒त । म॒न्ये॒ । ए॒न॒म् ।
म॒न्योः । इ॒या॒य॒ । ह॒र्म्येषु᳚ । त॒स्थौ॒ । यतः᳚ । प्र॒॑ज॒ज्ञे । इन्द्रः᳚ । अ॒स्य॒ । वे॒द॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रसामर्थ्यं दृष्ट्वा किचिदेनमश्वादादित्यादियायोदितवानिति वदन्ति यद्यद्यपि उत तथाप्यहमेनमोजसो बलाज्जातं मन्ये। जानामि। अस्य तेजसास्वत्वं दृष्ट्वा सुर्यादुत्पन्न इति तेषां मतिः। अहं त्वोजः पदार्थाज्जात इति मन्ये यतोऽयं व्रुत्रादीन्हतवानिति। अथवायं मन्योः क्रोधादियाय। उदितवान्। अतो हर्म्येषु शत्रुसम्बन्धिषु युद्धेषु हर्म्येष्वेव वा तस्थौ। तिष्थति। यतोऽयं प्रजज्ञ उत्पन्न इतीन्द्रं एवास्य। स्वस्येत्यर्थः। सामर्थ्यं वेद । जानाति। न ह्यन्यो ज्ञातुमीष्टे॥१०॥

10.73.11
वयः᳚ सुप॒र्णा उप᳚ सेदु॒रिन्द्रं᳚ प्रि॒यमे᳚धा॒ ऋष᳚यो॒ नाध᳚मानाः ।
अप᳚ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षु᳚र्मुमु॒ग्ध्य१॒᳚स्मान्नि॒धये᳚व ब॒द्धान् ॥
▶ पदपाठः (Word-by-word)
वयः᳚ । सु॒॑प॒र्णाः । उप᳚ । से॒दुः॒ । इन्द्र᳚म् । प्रि॒य॑मे᳚धाः । ऋष᳚यः । नाध᳚मानाः ।
अप᳚ । ध्वा॒न्तम् । ऊ॒र्णु॒हि । पू॒र्धि । चक्षुः᳚ । मु॒मु॒ग्धि । अ॒स्मान् । नि॒धया᳚॑इव । ब॒द्धान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयो गन्तारः सुपर्णाः सुपतना आदित्यरश्मय इन्द्रमुपसेदुः। उपसन्ना अभवन्। कीदृशाः। प्रियमेधाः प्रिययज्ञा ऋषयो द्रष्टारो नाधमानाः प्रज्ञां याचमानाः। याचनप्रकार उच्यते। हे इन्द्र ध्वान्तमन्धकारमपोर्णुहि। परिहत। पूर्धि पूरय च चक्षुस्तेजः। मुमुग्धि मोचय चास्मान् निधयेव बद्धान्। निधा पाश्या भवति। पाश्या पाशसमूहः। पाशसमूहेन बद्धान्यथा मुञ्चन्ति तद्वत्। अत्र वयो वेर्बहुवचनमित्यादि निरुक्तं द्रष्टव्यम्। नि. ४-३॥११॥