श्रवणम्

10.73.8
त्वमे॒तानि᳚ पप्रिषे॒ वि नामेशा᳚न इन्द्र दधिषे॒ गभ᳚स्तौ ।
अनु᳚ त्वा दे॒वाः शव᳚सा मदन्त्यु॒परि᳚बुध्नान्व॒निन᳚श्चकर्थ ॥
▶ पदपाठः (Word-by-word)
त्वम् । ए॒तानि᳚ । प॒प्रि॒षे॒ । वि । नाम᳚ । ईशा᳚नः । इ॒न्द्र॒ । द॒धि॒षे॒ । गभ᳚स्तौ ।
अनु᳚ । त्वा॒ । दे॒वाः । शव᳚सा । म॒द॒न्ति॒ । उ॒परि᳚॑बुध्नान् । व॒निनः᳚ । च॒क॒र्थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वमेतानि नाम नामानि नामकान्युदकानि वि पप्रिषे। विपूरयसि हे इन्द्र ईशानः सर्वस्येश्वरस्त्वं गभस्तौ हस्ते दधिषे धारयसि वज्रं धनं वा। किञ्च त्वा त्वां शवसा बलेनोपेतं देवाः सर्वेऽनु मदन्ति। अनुष्टुवन्ति। स त्वं वनिन उदकवतो मेघान्रश्मीन्वोपरिबुध्नानुपरिमूलानधोमुखांश्च कर्थ। कृतवानसि॥।८॥