सचे᳚महि॒ तव᳚ दस्म प्रके॒तैरु᳚रु॒ष्या ण᳚ उ॒रुभि᳚र्देव॒ शंसै᳚ः ॥
पदपाठः (Word-by-word)
सचे᳚महि । तव᳚ । द॒स्म॒ । प्र॒॑के॒तैः । उ॒रु॒ष्य । नः॒ । उ॒रु॑भिः᳚ । दे॒व॒ । शंसैः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे देव दानादिगुणविशिष्टाग्ने त्वं दिवः पृथिव्याः द्यावा पृथिव्योः सकाशात् नोस्मभ्यं विश्वायुः सर्वान्नं स्वस्ति पुत्रादि यजथाय देवयागार्थं धेहि प्रयच्छ सर्वोपद्रवरहिताः सर्वा न्नं स्वस्ति पुत्रादि यजथाय देवयागार्थं धेहि प्रयच्छ सर्वोपद्रवरहिताः सर्वान्न पुत्रयुक्ताश्च सन्तोवयं यथा यज्वानोभवेम तथास्मान् कुर्विति वाक्यशेषः । अपिच वयं सचेमहि हे दस्म दर्शनीय देवाग्ने उरुभिर्बहुभिः शंसैः शंसनीयैस्तवसंबन्धिभिः प्रकेतैः पालनोपायप्र- ज्ञानैः नोस्मानुरुष्य रक्ष ॥ १ ॥