श्रवणम्

10.7.4
सि॒ध्रा अ᳚ग्ने॒ धियो᳚ अ॒स्मे सनु᳚त्री॒र्यं त्राय᳚से॒ दम॒ आ नित्य᳚होता ।
ऋ॒तावा॒ स रो॒हिद᳚श्वः पुरु॒क्षुर्द्युभि᳚रस्मा॒ अह᳚भिर्वा॒मम᳚स्तु ॥
▶ पदपाठः (Word-by-word)
सि॒ध्राः । अ॒ग्ने॒ । धियः᳚ । अ॒स्मे इति᳚ । सनु᳚त्रीः । यम् । त्राय᳚से । दमे᳚ । आ । नित्य᳚॑होता ।
ऋ॒त॑वा᳚ । सः । रो॒हित्॑अ᳚श्वः । पु॒रु॒॑क्षुः । द्यु॑भिः᳚ । अ॒स्मै॒ । अह᳚॑भिः । वा॒मम् । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सनुत्रीः संभत्र्यः अस्मे अस्माकं संबंधि़न्यः धियः स्तुतयः सिध्राः सिद्धानिष्प- न्नाः त्वदर्थमस्माभिः कृताइत्यर्थः दमआ अस्मद्यज्ञगृहे मर्यादतयावस्थितस्त्वं नित्यहोता सततं होमनिष्पादकोदेवानामाह्वातावासन् यंत्रायसे कर्मवैगुण्यात् रक्षसि सोहं त्वत्प्रसा- दात् त्वत्सायुज्यं गतः सन् ऋतवा यज्ञवान् सत्यवान्वा स्यामितिशेषः । रोहिदश्वः रोहि- त्संज्ञकाश्वः पुरुक्षुः बह्वन्नश्चस्याम् । किंच अस्मै ईदृग्भूताय तुभ्यं द्युभिर्दीप्तेषु अहभिरहःसु दिवसेषु वामं वननीयं हविरस्तु ॥ ४ ॥