श्रवणम्

10.7.7
भवा᳚ नो अग्ने॑वि॒तोत गो॒पा भवा᳚ वय॒स्कृदु॒त नो᳚ वयो॒धाः ।
रास्वा᳚ च नः सुमहो ह॒व्यदा᳚तिं॒ त्रास्वो॒त न᳚स्त॒न्वो॒३॒᳚ अप्र᳚युच्छन् ॥
▶ पदपाठः (Word-by-word)
भव᳚ । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । उ॒त । गो॒पाः । भव᳚ । व॒यः॒॑कृत् । उ॒त । नः॒ । व॒यः॒॑धाः ।
रास्व᳚ । च॒ । नः॒ । सु॒॑म॒हः । ह॒व्य॑दा᳚तिम् । त्रास्व᳚ । उ॒त । नः॒ । त॒न्वः᳚ । अप्र᳚॑युच्छन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं नोस्माकं अवितादृष्टभयेभ्यो रक्षको भव भूयाः । उतापिच गोपा अदृष्ट- भयेभ्योगोप्ता रक्षकोभव । उतापिच वयस्कृत् अन्नस्य कर्ता भव वयोधाः अन्नस्य दाता भव । हेसुमहः सुष्ठु पूजनीयाग्ने त्वं स्वभूतां हव्यदातिम् हविषोदातिं नोस्मभ्यं रास्वच प्रयच्छ । उतापिच नोस्माकं स्वभूतास्तन्वः शरीराणि अप्रयुच्छन् अप्रमाद्यन् त्रास्व पालय ॥ ७ ॥

प्रकेतुनेतिनवर्चं अष्टमं सूक्तं त्रैष्टुभं त्वष्टृपुत्रस्त्रिशिरानामऋषिः आदितः षडाग्नेय्यः तत- स्तिस्रः ऎन्द्भ्यः । तथाचानुक्रान्तं—प्रकेतुनानवत्रिशिरास्त्वाष्ट्रस्तृचोन्त्यवोद्रइति । आदितः ष्णां प्रातरनुवाकाश्विनशस्त्रयोराग्नेयक्रतावुक्तोविनियोगः ।