श्रवणम्

10.7.3
अ॒ग्निं म᳚न्ये पि॒तर᳚म॒ग्निमा॒पिम॒ग्निं भ्रात᳚रं॒ सद॒मित्सखा᳚यम् ।
अ॒ग्नेरनी᳚कं बृह॒तः स᳚पर्यं दि॒वि शु॒क्रं य᳚ज॒तं सूर्य᳚स्य ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । म॒न्ये॒ । पि॒तर᳚म् । अ॒ग्निम् । आ॒पिम् । अ॒ग्निम् । भ्रात᳚रम् । सद᳚म् । इत् । सखा᳚यम् ।
अ॒ग्नेः । अनी᳚कम् । बृ॒ह॒तः । स॒प॒र्य॒म् । दि॒वि । शु॒क्रम् । य॒ज॒तम् । सूर्य᳚स्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं स्तोता पितरं अग्निमेव मन्ये जाने आपिं बम्धुं अग्निमेव मन्ये भ्रातरमग्निमेव मन्ये सदमित् सदैव आवसंवादिनं सखायं अग्निमेव जानामि बृहतोमहतोग्नेः अनीकं आहवनीयाख्यं मुखं सपर्यं परिचरामि । तत्र लुप्तोपममेतत् दिवि द्युलोके स्थितं यजतं यष्टव्यं पूजनीयं सुर्यस्य संबन्धि शुक्रं दीफ्तिमन्मंडलं यथा कश्चिदभिप्रेतार्थसिद्धये आराधयतयि तद्वत् ॥ ३ ॥