स्व॒यं य᳚जस्व दि॒वि दे᳚व दे॒वान्किं ते॒ पाकः᳚ कृणव॒दप्र᳚चेताः ।
यथाय᳚ज ऋ॒तुभि᳚र्देव दे॒वाने॒वा य᳚जस्व त॒न्वं᳚ सुजात ॥
यथाय᳚ज ऋ॒तुभि᳚र्देव दे॒वाने॒वा य᳚जस्व त॒न्वं᳚ सुजात ॥
पदपाठः (Word-by-word)
स्व॒यम् । य॒ज॒स्व॒ । दि॒वि । दे॒व॒ । दे॒वान् । किम् । ते॒ । पाकः᳚ । कृ॒ण॒व॒त् । अप्र᳚॑चेताः ।
यथा᳚ । अय᳚जः । ऋ॒तु॑भिः᳚ । दे॒व॒ । दे॒वान् । ए॒व । य॒ज॒स्व॒ । त॒न्व᳚म् । सु॒॑जा॒त॒ ॥
यथा᳚ । अय᳚जः । ऋ॒तु॑भिः᳚ । दे॒व॒ । दे॒वान् । ए॒व । य॒ज॒स्व॒ । त॒न्व᳚म् । सु॒॑जा॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे देव द्योतमानाग्ने त्वं दिवि द्युलोके स्थितान् देवानिन्द्रादीन् स्वयमात्मनैव यजस्व पाकः पक्तव्यप्रज्ञः अप्रचेताः अप्रकृष्टज्ञानोमनुष्यः ते तव किंकृणवत् किंकरोति त्वयान- धिष्ठितः किंचिदपि नजानातीत्यर्थः । किंच हेदेव त्वं ऋतुभिः कालविशेषैः देवान् यथा अयजः इष्टवानसि एव एवं हेसुजात शोभनजन्मन्नग्ने तन्वं आत्मानमपि यजस्व ॥ ६ ॥