दशमं मण्डलम् - सूक्तम् 163

6 ऋचः

ऋषिः: विवृहा काश्यपः देवता: यक्ष्मघ्नं छन्दः: अनुष्टुप्

सूक्तम् 10.163 - सम्पूर्णम्

1 / 6
ऋक्: 10.163.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.163.1
अ॒क्षीभ्यां᳚ ते॒ नासि᳚काभ्यां॒ कर्णा᳚भ्यां॒ छुबु᳚का॒दधि᳚ ।
यक्ष्मं᳚ शीर्ष॒ण्यं᳚ म॒स्तिष्का᳚ज्जि॒ह्वाया॒ वि वृ᳚हामि ते ॥
▶ पदपाठः (Word-by-word)
अ॒क्षीभ्या᳚म् । ते॒ । नासि᳚काभ्याम् । कर्णा᳚भ्याम् । छुबु᳚कात् । अधि᳚ ।
यक्ष्म᳚म् । शी॒र्ष॒ण्य᳚म् । म॒स्तिष्का᳚त् । जि॒ह्वायाः᳚ । वि । वृ॒हा॒मि॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अक्षीभ्यामिति षडृचम् द्वादशं सूक्तमानुष्टुभम् । कश्यपगोत्रोत्पन्नो विवृहा नामर्षिः। यक्ष्मनाशनप्रतिपाद्यत्वात्तद्देवताकं कृत्स्नं सूक्तम्। अनुक्रान्तं च। अक्षीभ्यां विवृहा काश्यपो यक्ष्मघ्नमिति। लैङ्गिको विनियोगः॥

हे यक्ष्मगृहीत ते तवाक्षीभ्यां चक्षुर्भ्यां यक्ष्मरोगम् वि वृहामि। उद्धरयामि। विश्लेषयामीत्यर्थः। ई च द्विवचन इत्यक्षिशब्दस्येकारान्तादेशः। स चोदात्तः। तथा नासिकाभ्यां घ्राणेन्द्रियाच्च कर्णाभ्यां श्रोत्राभ्यां च छुबुकाच्चुबुकादोष्ठस्याधः प्रदेशाच्च। अधिरनर्थकः। अपि च शीर्षण्यम् । शिरसि भवो रोगः शीर्षण्यः। भवे छन्दसीति यत्। ये च तद्धिते। पा. ६-१-६१। इति शिरसः शीर्षन्नादेशः। ये चाभावकर्मणोरिति प्रकृतिभावः। ईदृशं यक्ष्मं रोगं ते तव मस्तिष्कात्। शिरसोऽन्तरवस्थितो मांसविशेषो मस्तिष्कः। तस्माज्जिह्वाया रसनायाश्च सकाशाद्धि वृहामि। उद्धारयामि। पृथक्करोमीत्यर्थः। वृहू उद्यमन इति धातुः॥१॥

10.163.2
ग्री॒वाभ्य᳚स्त उ॒ष्णिहा᳚भ्य॒ः कीक᳚साभ्यो अनू॒क्या᳚त् ।
यक्ष्मं᳚ दोष॒ण्य१॒᳚मंसा᳚भ्यां बा॒हुभ्यां॒ वि वृ᳚हामि ते ॥
▶ पदपाठः (Word-by-word)
ग्री॒वाभ्यः᳚ । ते॒ । उ॒ष्णिहा᳚भ्यः । कीक᳚साभ्यः । अ॒नू॒क्या᳚त् ।
यक्ष्म᳚म् । दो॒ष॒ण्य᳚म् । अंसा᳚भ्याम् । बा॒हु॑भ्या᳚म् । वि । वृ॒हा॒मि॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो व्यादिगृहीत उष्णिहाभ्य ऊर्ध्वाभिमुखं स्निग्धाभ्य उत्स्नाताभ्यो वा स्नायुभ्यो ग्रीवाभ्यो गलगताभ्यो धमतीभ्यस्ते तव यक्ष्मं वि वृहामि। तथा कीकसाभ्योऽस्थिभ्योऽनूक्यादस्थिसन्धेश्च यक्ष्मं वि वृहामि। उच समवाये। अनूच्यते समवेयत इत्यस्थ्नः सन्धिरनूक्यः। ऋहलोर्ण्यत्। चजोः कु घिण्यतोरिति कुत्वम्। तित्स्वरितः। अपि च दोष्णोर्भवं दोषण्यम्। पूर्ववद्यति पद्दन्नित्यादिना दोःशब्दस्य दोषन्नादेशः। पूर्ववत्प्रकृतिभावः। तमपि यक्ष्मं रोगम् ते तवांसाभ्यां बाहुभ्यां च वि वृहामि। हस्तयोरूर्ध्वभागावंसावधोभागौ बाहू॥२॥

10.163.3
आ॒न्त्रेभ्य᳚स्ते॒ गुदा᳚भ्यो वनि॒ष्ठोर्हृद᳚या॒दधि᳚ ।
यक्ष्मं॒ मत᳚स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ᳚हामि ते ॥
▶ पदपाठः (Word-by-word)
आ॒न्त्रेभ्यः᳚ । ते॒ । गुदा᳚भ्यः । व॒नि॒ष्ठोः । हृद᳚यात् । अधि᳚ ।
यक्ष्म᳚म् । मत᳚स्नाभ्याम् । य॒क्नः । प्ला॒शि॑भ्यः᳚ । वि । वृ॒हा॒मि॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यक्ष्माभिभूत ते तवांत्रेभ्यः। आन्त्रं पुरीतदन्नपानयोराधानभूतम्। तत्संबन्धिभ्यः स्नायुभ्यो गुदाभ्यः याभिर्नाडिभिरन्नरसः समानवायुना धातुषुनीयते ताब्यो नाडीभ्यश्च सकाशाद्यक्ष्म वि वृहामि। तथा वनिष्थोः स्थविरान्त्राद्धृदयादधि हृत्पुण्डरीकाच्च यक्श्मं वि वृहामि। अपि च ते तव मतस्नाभ्याम्। मतस्नौ पार्श्वयोर्वर्तमानावाम्रफलाकृती वृक्कौ। ताभ्यां यक्नः। हृदयसमीपे वर्तमानह् कालमांसविशेशो यकृत्। तस्माच्च। पद्दन्नित्यादिना यकृच्छब्दस्य यकन्नादेशः। प्लाशिभ्योऽन्येभ्योऽपि क्लोमप्लीहादिसम्ज्ञेभ्यश्च मांसेभ्यश्च यक्श्मं रोगं वि वृहामि। उत् क्षिपामि॥३॥

10.163.4
ऊ॒रुभ्यां᳚ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि᳚भ्यां॒ प्रप᳚दाभ्याम् ।
यक्ष्मं॒ श्रोणि᳚भ्यां॒ भास᳚दा॒द्भंस᳚सो॒ वि वृ᳚हामि ते ॥
▶ पदपाठः (Word-by-word)
ऊ॒रु॑भ्या᳚म् । ते॒ । अ॒ष्ठी॒वत्॑भ्या᳚म् । पार्ष्णि᳚॑भ्याम् । प्र॑प᳚दाभ्याम् ।
यक्ष्म᳚म् । श्रोणि᳚॑भ्याम् । भास᳚दात् । भंस᳚सः । वि । वृ॒हा॒मि॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रुग्ण ते तवोरुभ्यामष्ठीवद्भ्यां जानुभ्यां च यक्ष्मं वि व्रुहामि। तथा पार्ष्णिभ्यां पादस्यापरभागाभ्यां प्रपदाभ्यां पादाग्राभ्यां च यक्ष्मं वि वृहामि। अपि च श्रोणिभ्यां जङ्घनाभ्यां च यक्ष्मं वि वृहामि। तथा भासदात्। भसत्कटिप्रदेशः। तत्संबन्धाद्भसंसो भासमानात्पादयोस्ते तव यक्ष्मं वि व्रुहामि॥४॥

10.163.5
मेह᳚नाद्वनं॒कर᳚णा॒ल्लोम᳚भ्यस्ते न॒खेभ्य᳚ः ।
यक्ष्मं॒ सर्व᳚स्मादा॒त्मन॒स्तमि॒दं वि वृ᳚हामि ते ॥
▶ पदपाठः (Word-by-word)
मेह᳚नात् । व॒न॒म्॑कर᳚णात् । लोम᳚॑भ्यः । ते॒ । न॒खेभ्यः᳚ ।
यक्ष्म᳚म् । सर्व᳚स्मात् । आ॒त्मनः᳚ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनङ्करणात्। वनमुदकं शारीरम् । तत्क्रियते विसृज्यते येन तद्वनङ्करणम्। तस्मान्मेहनान्मेढ्रात्ते तव लोमभ्यो नखेभ्यश्च यक्ष्मं वि वृहामि। किं बहुना। इदमिदानीं तं यक्श्मम् सर्वस्मादात्मनः कृत्स्नादेव ते तव शरीराद्वि वृहामि॥५॥

10.163.6
अङ्गा᳚दङ्गा॒ल्लोम्नो᳚लोम्नो जा॒तं पर्व᳚णिपर्वणि ।
यक्ष्मं॒ सर्व᳚स्मादा॒त्मन॒स्तमि॒दं वि वृ᳚हामि ते ॥
▶ पदपाठः (Word-by-word)
अङ्गा᳚त्॑अङ्गात् । लोम्नः᳚॑लोम्नः । जा॒तम् । पर्व᳚णि॑पर्वणि ।
यक्ष्म᳚म् । सर्व᳚स्मात् । आ॒त्मनः᳚ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्गादङ्गात् सर्वेभ्योऽङ्गेभ्यो लोम्नो लोम्नः सर्वेभ्यो लोमभ्यश्च पर्वणि पर्वण्यवयवानां सन्धौ जातमुत्पन्नं यक्ष्मं वि वृहामि। अन्यद्गतम्॥६॥