ग्री॒वाभ्य᳚स्त उ॒ष्णिहा᳚भ्य॒ः कीक᳚साभ्यो अनू॒क्या᳚त् ।
यक्ष्मं᳚ दोष॒ण्य१॒᳚मंसा᳚भ्यां बा॒हुभ्यां॒ वि वृ᳚हामि ते ॥
यक्ष्मं᳚ दोष॒ण्य१॒᳚मंसा᳚भ्यां बा॒हुभ्यां॒ वि वृ᳚हामि ते ॥
पदपाठः (Word-by-word)
ग्री॒वाभ्यः᳚ । ते॒ । उ॒ष्णिहा᳚भ्यः । कीक᳚साभ्यः । अ॒नू॒क्या᳚त् ।
यक्ष्म᳚म् । दो॒ष॒ण्य᳚म् । अंसा᳚भ्याम् । बा॒हु॑भ्या᳚म् । वि । वृ॒हा॒मि॒ । ते॒ ॥
यक्ष्म᳚म् । दो॒ष॒ण्य᳚म् । अंसा᳚भ्याम् । बा॒हु॑भ्या᳚म् । वि । वृ॒हा॒मि॒ । ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
यो व्यादिगृहीत उष्णिहाभ्य ऊर्ध्वाभिमुखं स्निग्धाभ्य उत्स्नाताभ्यो वा स्नायुभ्यो ग्रीवाभ्यो गलगताभ्यो धमतीभ्यस्ते तव यक्ष्मं वि वृहामि। तथा कीकसाभ्योऽस्थिभ्योऽनूक्यादस्थिसन्धेश्च यक्ष्मं वि वृहामि। उच समवाये। अनूच्यते समवेयत इत्यस्थ्नः सन्धिरनूक्यः। ऋहलोर्ण्यत्। चजोः कु घिण्यतोरिति कुत्वम्। तित्स्वरितः। अपि च दोष्णोर्भवं दोषण्यम्। पूर्ववद्यति पद्दन्नित्यादिना दोःशब्दस्य दोषन्नादेशः। पूर्ववत्प्रकृतिभावः। तमपि यक्ष्मं रोगम् ते तवांसाभ्यां बाहुभ्यां च वि वृहामि। हस्तयोरूर्ध्वभागावंसावधोभागौ बाहू॥२॥