श्रवणम्

10.163.1
अ॒क्षीभ्यां᳚ ते॒ नासि᳚काभ्यां॒ कर्णा᳚भ्यां॒ छुबु᳚का॒दधि᳚ ।
यक्ष्मं᳚ शीर्ष॒ण्यं᳚ म॒स्तिष्का᳚ज्जि॒ह्वाया॒ वि वृ᳚हामि ते ॥
▶ पदपाठः (Word-by-word)
अ॒क्षीभ्या᳚म् । ते॒ । नासि᳚काभ्याम् । कर्णा᳚भ्याम् । छुबु᳚कात् । अधि᳚ ।
यक्ष्म᳚म् । शी॒र्ष॒ण्य᳚म् । म॒स्तिष्का᳚त् । जि॒ह्वायाः᳚ । वि । वृ॒हा॒मि॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अक्षीभ्यामिति षडृचम् द्वादशं सूक्तमानुष्टुभम् । कश्यपगोत्रोत्पन्नो विवृहा नामर्षिः। यक्ष्मनाशनप्रतिपाद्यत्वात्तद्देवताकं कृत्स्नं सूक्तम्। अनुक्रान्तं च। अक्षीभ्यां विवृहा काश्यपो यक्ष्मघ्नमिति। लैङ्गिको विनियोगः॥

हे यक्ष्मगृहीत ते तवाक्षीभ्यां चक्षुर्भ्यां यक्ष्मरोगम् वि वृहामि। उद्धरयामि। विश्लेषयामीत्यर्थः। ई च द्विवचन इत्यक्षिशब्दस्येकारान्तादेशः। स चोदात्तः। तथा नासिकाभ्यां घ्राणेन्द्रियाच्च कर्णाभ्यां श्रोत्राभ्यां च छुबुकाच्चुबुकादोष्ठस्याधः प्रदेशाच्च। अधिरनर्थकः। अपि च शीर्षण्यम् । शिरसि भवो रोगः शीर्षण्यः। भवे छन्दसीति यत्। ये च तद्धिते। पा. ६-१-६१। इति शिरसः शीर्षन्नादेशः। ये चाभावकर्मणोरिति प्रकृतिभावः। ईदृशं यक्ष्मं रोगं ते तव मस्तिष्कात्। शिरसोऽन्तरवस्थितो मांसविशेषो मस्तिष्कः। तस्माज्जिह्वाया रसनायाश्च सकाशाद्धि वृहामि। उद्धारयामि। पृथक्करोमीत्यर्थः। वृहू उद्यमन इति धातुः॥१॥