दशमं मण्डलम् - सूक्तम् 121

10 ऋचः

ऋषिः: हिरण्यगर्भः प्राजापत्यः देवता: कः छन्दः: त्रिष्टुप्

सूक्तम् 10.121 - सम्पूर्णम्

1 / 10
ऋक्: 10.121.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
10.121.1
हि॒र॒ण्य॒ग॒र्भः सम᳚वर्त॒ताग्रे᳚ भू॒तस्य᳚ जा॒तः पति॒रेक᳚ आसीत् ।
स दा᳚धार पृथि॒वीं द्यामु॒तेमां कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
हि॒र॒ण्य॒॑ग॒र्भः । सम् । अ॒व॒र्त॒त॒ । अग्रे᳚ । भू॒तस्य᳚ । जा॒तः । पतिः᳚ । एकः᳚ । आ॒सी॒त् ।
सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिरण्यगर्भ इति दशर्चं नवमं सूक्तं प्रजापतिपुत्रस्य हिरण्यगर्भाख्यस्यार्षं त्रैष्टुभम्। कशब्दभिधेयः प्रजापतिर्देवता। तथा चानुक्रान्तम्। हिरण्यगर्भो दश हिरण्यगर्भः प्राजापत्यः कायमिति। गतः सूक्तविनियोगः। प्राजापत्यस्य पशोर्वपापुरोडाशहविषां क्रमेणादितस्तिस्रोऽनुवाक्यास्ततस्तिस्रो याज्याः। सूत्रितं च। हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्याः। आ. ३-८। इति। वरुणप्रघासेषु कायस्य हविषो हिरण्यगर्भ इत्येषा याज्या। सूत्रितं च। कयानश्चित्र आ भुवद्धिरण्यगर्भह् समवर्तताग्र इति प्रतिप्रस्थाता वाजिने तृतीयः। आ. २-१७। इति॥

हिरण्यगर्भो हिरण्यमयस्याण्डस्य गर्भभूतः प्रजापतिर्हिरण्यगर्भः। तथा च तैत्तिरीयकम्। प्रजापतिर्वै हिरण्यगर्भः प्रजापतेरनुरूपत्वाय। तै. स. ५-५-१-२। इति यद्वा। हिरण्मयोऽण्डो बर्घवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते। अग्रे प्रपञ्चोत्पत्तेः प्राक् समवर्तत। मायाध्यक्षात्सिसृक्षोः परमात्मनः सकाशात्समजायत। यद्यपि परमात्मैव हिरण्यगर्भः तथापि तदुपाधिभूतानां वियदादीनां सूक्ष्मभूतानां ब्रह्मण उत्पत्तेस्तदुपाहितोऽप्युत्पन्न इत्युच्यते। स च जातो जातमात्र एवैकोऽद्वितीयः सन् भूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः पतिरीश्वर आसीत्। न केवलं पतिरासीदेव अपि तर्हि स हिरण्यगर्भः पृथिवीं विस्तीर्णां द्यां दिवमितापि चेमामस्माभिर्दृश्यमानां पुरोवर्तिनीमिमां भूमिम्। यद्वा। पृथिवीत्यन्तरिक्षनाम। अन्तरिक्षं दिवं भूमिं च दाधार। धारयति। छन्दसि लुङ् लङ् लिट इति सार्वकालिको लिट्। तुजादित्वादभ्यास दीर्घः। कस्मै। अत्र किंशब्दोऽनिर्ज्ञातस्वरूपत्वात्प्रजापतौ वर्तते। यद्वा। सृष्ट्यर्थं कामयत इति कः। कमेर्डप्रत्ययः। यद्वा। कं सुखम् । तद्रूपत्वात्क इत्युच्यते। अथवेन्द्रेण पृष्टः प्रजापतिर्मदीयं महत्त्वं तुभ्यं प्रदायाहं कः कीद्रुशः स्यामित्युक्तवान्। स इन्द्रः प्रत्यूचे। यदीदं ब्रवीष्यहं कः स्यामिति तदेव त्वं भवेति। अतः कारणात्क इति प्रजापतिराख्यायते। इन्द्रो वै व्रुत्रं हत्वा सर्वा विजितीर्विजित्याब्रवीदित्यादिकं ब्राह्मणमत्रानुसन्धेयम्। ऐ. ब्रा. ३-२१। यदासौ किंशब्दस्तदा सर्वनामत्वात्स्मैभावः सिद्धः। यदा तु यौगिकस्तदा व्यत्ययेनेति द्रष्टव्यम्। सावेकाच इति प्राप्तस्य न गोश्वन्साववर्णेति प्रतिषेधः। क्रियाग्रहणं कर्तव्यमिति कर्मनः सम्प्रदानत्वाच्चतुर्थी। कं प्रजापतिं देवाय देवं दानादिगुनयुक्तं हविषा प्राजापत्यस्य पशोर्वपारूपेणैककपालात्मकेन पुरॊडाशेन वा विधेम। वयम्रुत्विजः परिचरेम। विधतिः परिचरनकर्मा॥१॥

10.121.2
य आ᳚त्म॒दा ब᳚ल॒दा यस्य॒ विश्व᳚ उ॒पास᳚ते प्र॒शिषं॒ यस्य᳚ दे॒वाः ।
यस्य᳚ छा॒यामृतं॒ यस्य᳚ मृ॒त्युः कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
यः । आ॒त्म॒॑दाः । ब॒ल॒॑दाः । यस्य᳚ । विश्वे᳚ । उ॒प॒॑आस᳚ते । प्र॒॑शिष᳚म् । यस्य᳚ । दे॒वाः ।
यस्य᳚ । छा॒या । अ॒मृत᳚म् । यस्य᳚ । मृ॒त्युः । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः प्रजापतिरात्मदा आत्मनां दाता। आत्मानो हि सर्वे तस्मात्परमात्मन उत्पद्यन्ते। यथाग्नेः सकाशाद्विस्फुलिङ्गा जायन्ते तद्वत्। यद्वा। आत्मनां शोधयिता। दैप् शोधने। आतो मनिन्निति विच्। बलदा बलस्य च दाता शोधयिता वा। यस्य च प्रशिषं प्रकृष्टं शासन्स्माज्ञां विश्वे सर्वे प्राणिन उपासते प्रार्थयन्ते सेवन्ते वा। शासु अनुशिष्टौ। शास इत्। पा. ६-४-३४। इत्युपधया इत्वम् । शासिवसिघसीनां चेति शत्वम्। क्रुदुत्तरपदप्रकृतिस्वरत्वम्। आसेरनुदात्तेत्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः। तिङि चोदात्तवतिति गतिरनुदात्ता। तथा देवा अपि यस्य प्रशासनमुपासते। अपि चामृतममृतत्वम्। भावप्रधानो निर्देशः। यद्वा। अमृतम्। मरनं नास्त्यस्मिन्नित्यमृतं सुधा। बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम्। तदपि यस्य प्रजापतेश्छाया छायेव वर्ति भवति। मृत्युर्यमश्च प्राणापहारी छायेव भवति। तस्मै कस्मै देवायेत्यादि समानं पूर्वेण हविषा पुरोडाशात्मनेति तु विशेषः॥२॥

10.121.3
यः प्रा᳚ण॒तो नि᳚मिष॒तो म᳚हि॒त्वैक॒ इद्राजा॒ जग᳚तो ब॒भूव᳚ ।
य ईशे᳚ अ॒स्य द्वि॒पद॒श्चतु᳚ष्पद॒ः कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
यः । प्रा॒ण॒तः । नि॒॑मि॒ष॒तः । म॒हि॒॑त्वा । एकः᳚ । इत् । राजा᳚ । जग᳚तः । ब॒भूव᳚ ।
यः । ईशे᳚ । अ॒स्य । द्वि॒॑पदः᳚ । चतुः᳚॑पदः । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो हिरण्यगर्भः प्राणतः प्रश्वसतः। अन प्राणने आदादिकः। शतुरनुम इति विभक्तेरुदात्तत्वम्। निमिषतोऽक्शिपक्ष्मचलनं कुर्वतः। अत्रापि पूर्ववद्विभक्तिरुदात्ता। जगतो जङ्गमस्य प्राणिजातस्य महित्वा महत्त्वेन । सुपां सुलुगिति तृतीयाया आकारः। माहात्म्येनैक इदद्वितीय एव सन्राजा बभूव ईश्वरो भवति। भवतेर्णलि लितीति प्रत्ययात्पूर्वस्योदात्तत्वम्। अस्य परिदृश्यमानस्य द्विपदो पादद्वययुक्तस्य मनुष्यादेश्चतुष्पदो गवाश्वादेश्च यः प्रजापतिरीशे ईष्टे। ईश ऐश्वर्ये आदादिकोऽनुदात्तेत्। लोपस्त आत्मनेपदेष्विति तलोपः। अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः। अस्य । ऊडिदमितिदमो विभक्तिरुदात्ता। द्वौ पादौ यस्य स द्विपात्। सङ्ख्यासुपूर्वस्येति पादशब्दस्यान्त्यलोपः समासान्तः। भसंज्ञायां पादः पदिति पद्भावः। द्वित्रिभ्यां पाद्दन्नित्येकादेशविकृतस्यानन्यत्वादुत्तरपदान्तोदात्तत्वम्। स्वरवर्जमेषैव चतुष्पद इत्यत्रापि प्रक्रिया। बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरः। पूर्वपदं न्रः सङ्ख्यायाः। फि. २-५। इत्याद्युदात्तत्वम्। इदुदुपधस्य चाप्रत्ययस्येति वसर्जनीयस्य षत्वम्। ईदृशो यः प्रजापतिस्तस्मै कस्मा इत्यादि सुबोभं हविषा हृदयाद्यात्मनेत्ययमत्र विशेषः॥३॥

10.121.4
यस्ये॒मे हि॒मव᳚न्तो महि॒त्वा यस्य᳚ समु॒द्रं र॒सया᳚ स॒हाहुः ।
यस्ये॒माः प्र॒दिशो॒ यस्य᳚ बा॒हू कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । इ॒मे । हि॒म॑व᳚न्तः । म॒हि॒॑त्वा । यस्य᳚ । स॒मु॒द्रम् । र॒सया᳚ । स॒ह । आ॒हुः ।
यस्य᳚ । इ॒माः । प्र॒॑दिशः᳚ । यस्य᳚ । बा॒हू इति᳚ । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिमा अस्मिन्सन्तीति हिमवान्। तेन बहुवचनान्तेन सर्वे पर्वता लक्ष्यन्ते। यथा छत्रिणो गच्छन्तिति। हिमवन्तो हिमवदुपलक्षिता इमे दृश्यमानाः सर्वे पर्वता यस्य प्रजापतेर्महित्वा महत्त्वं माहात्म्यमैश्वर्यमित्याहुः। तेन सृष्टत्वात्तद्रूपेणावस्थानाद्वा। तथा रसया। रसो जलम्। तद्वती रसा नदी। अर्शादित्वादच्। जातावेकवचनम्। रसाभिर्नदीभिः सह समुद्रम्। पूर्ववदेकवचनम्। सर्वान्समुद्रान्यस्य महाभाग्यमित्याहुः कथयन्ति सृष्त्यभिज्ञाः। यस्य चेमाः प्रदिशः प्राच्यारम्भा आग्नेय्याद्याः कोणदिश ईशानान्ता वा। तथा बाहू। वचनव्यत्ययः। बाहवो भुजाः। भुजवत्प्राधान्ययुक्ताः प्रदिशश्च यस्य स्वभुताः। तस्मै कस्मा इत्यादि समानं पूर्वेण॥४॥

10.121.5
येन॒ द्यौरु॒ग्रा पृ᳚थि॒वी च᳚ दृ॒ळ्हा येन॒ स्व᳚ः स्तभि॒तं येन॒ नाकः᳚ ।
यो अ॒न्तरि᳚क्षे॒ रज᳚सो वि॒मान॒ः कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
येन᳚ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन᳚ । स्व१॒᳚रिति᳚ स्वः᳚ । स्त॒भि॒तम् । येन᳚ । नाकः᳚ ।
यः । अ॒न्तरि᳚क्षे । रज᳚सः । वि॒॑मानः᳚ । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येन प्रजापतिना द्यौरन्तरिक्षमुग्रोद्गूर्णं विशेषागहनरूपं वा। पृथिवी भूमिश्च दृळ्हा येन स्थिरीकृता। स्वः स्वर्गश्च येन स्तभितं स्तब्धं कृतम्। यथाधो न पतति तथोपर्यवस्थापितमित्यर्थः। ग्रसितस्कभितस्तभितेति निपात्यते। तथा नाक आदित्यश्च येनान्तरिक्षे स्तभितः। यश्चान्तरिक्षे रजस उदकस्य विमानो निर्माता। तस्मै कस्मा इत्यादि गतम्॥५॥

10.121.6
यं क्रन्द᳚सी॒ अव᳚सा तस्तभा॒ने अ॒भ्यैक्षे᳚तां॒ मन᳚सा॒ रेज᳚माने ।
यत्राधि॒ सूर॒ उदि᳚तो वि॒भाति॒ कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
यम् । क्रन्द᳚सी॒ इति᳚ । अव᳚सा । त॒स्त॒भा॒ने इति᳚ । अ॒भि । ऐक्षे᳚ताम् । मन᳚सा । रेज᳚माने॒ इति᳚ ।
यत्र᳚ । अधि᳚ । सूरः᳚ । उत्॑इ᳚तः । वि॒॑भाति᳚ । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्रन्दितवान्रोदितवाननयोः प्रजापतिरिति क्रन्दसी द्यवापृथिव्यौ। श्रूयते हि। यदरोदीत्तदनयो रोदस्त्वम्। तै. ब्रा. २-२-९-४। इति ते अवसा रक्षनेन हेतुना लोकस्य रक्षणार्थं तस्तभाने प्रजापतिना सृष्टे लब्धस्थैर्ये सत्यौ यं प्रजापतिं मनसा बुद्ध्याभ्यैक्षेतां आवयोर्महत्त्वमनेनेत्यभ्यपश्येताम्। ईक्ष दर्शने। लङ्यडादित्वादाद्युदात्तत्वम्। कीद्रुष्यौ द्यावापृथिव्यौ। रेजमाने राजमाने दीप्यमाने। आकारस्य व्यत्ययेनैत्वम्। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुकस्वरः। यद्वा। लिटः कानच्। फणाम् च सप्तानाम् । पा. ६-४-१२५। इत्येश्वाब्ह्यासलोपौ। छन्दस्युभयथेति सार्वधातुकत्वाच्छप्। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। यत्राधियस्मिन्नाधारभूते प्रजापतौ सूरः सूर्य उदित उदयं प्राप्तः सन् विभाति प्रकाशते। उत्पूर्वादेतेः कर्मणि निष्था। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। तस्मैकस्मा इत्यादि सुज्ञानम्॥६॥

10.121.7
आपो᳚ ह॒ यद्बृ᳚ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा᳚ना ज॒नय᳚न्तीर॒ग्निम् ।
ततो᳚ दे॒वानां॒ सम᳚वर्त॒तासु॒रेक॒ः कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । ह॒ । यत् । बृ॒ह॒तीः । विश्व᳚म् । आय᳚न् । गर्भ᳚म् । दधा᳚नाः । ज॒नय᳚न्तीः । अ॒ग्निम् ।
ततः᳚ । दे॒वाना᳚म् । सम् । अ॒व॒र्त॒त॒ । असुः᳚ । एकः᳚ । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहतीर्बृहत्यो महत्यः। जसि वा छन्दसीति पूर्वसवर्णदीर्घः। बृहन्महतोरुपसङ्ख्यानमिति ङीप उदात्तत्वम्। अग्निम्। उपलक्षणमेतत्। अग्न्युपलक्षितं सर्वं वियदादिभूतजातम्। जनयन्तीर्जनयन्त्यः तदर्थं बर्घं हिरण्मयाण्डस्य बर्भभूतं प्रजापतिं दधाना धारयन्त्य आपो हाप एव। विश्वमायन् सर्वं जगद्व्याप्न्य्वन् यद्यस्मात् ततस्तस्माद्धेतोर्देवानां देवादीनां सर्वेषां प्राणिनामसुः प्राणभूत एकः प्रजापतिः समवर्तत। समजायत। यद्वा। यद्यम् गर्भं दधाना आपो विश्वात्मनावस्थिताः ततो बर्भभूतात्प्रजापतेर्देवादीनां प्राणत्मको वायुरजायत। अथवा यत्। लिङ्गवचनयोर्व्यत्ययः। उक्तलक्षणाया आपो विश्वमावृत्य स्थिताः ततस्ताभ्योऽद्भ्यः सकाशादेकोऽद्वितीयोऽसुः प्रानात्मकः प्रजापतिः समवर्तत। निश्चक्राम। तस्मै कस्मा इत्यादि गतम्॥७॥

10.121.8
यश्चि॒दापो᳚ महि॒ना प॒र्यप᳚श्य॒द्दक्षं॒ दधा᳚ना ज॒नय᳚न्तीर्य॒ज्ञम् ।
यो दे॒वेष्वधि᳚ दे॒व एक॒ आसी॒त्कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
यः । चि॒त् । आपः᳚ । म॒हि॒ना । प॒रि॒॑अप᳚श्यत् । दक्ष᳚म् । दधा᳚नाः । ज॒नय᳚न्तीः । य॒ज्ञम् ।
यः । दे॒वेषु᳚ । अधि᳚ । दे॒वः । एकः᳚ । आसी᳚त् । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञं यज्ञोपलक्षितं विकारजातं जनयन्तीरुत्पादयन्तीः तदर्थं दक्षं प्रपञ्चात्मना वर्धिष्णुं प्रजापतिमात्मनि दधाना धारयित्रीः। दधातेर्हेतौ शानच्। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। ईदृशीरापः व्यत्ययेन प्रथमा। आपः प्रलयकालीना महिना महिम्ना। छान्दसो मलोपः। स्वमाहात्म्येन यश्च प्रजापतिः पर्यपश्यत् परितो दृष्टवान् यश्च देवेष्वधि देवेषु मध्ये देवस्तेषामपीश्वरः सन्नेकोऽद्वितीय आसीत् भवति। अस्तेश्छान्दसो लङ्। अस्तिसिचोऽपैक्ते। पा. ७-३-९६। इतीडागमः। तस्मै कस्मा इत्यादि गतम्॥८॥

10.121.9
मा नो᳚ हिंसीज्जनि॒ता यः पृ᳚थि॒व्या यो वा॒ दिवं᳚ स॒त्यध᳚र्मा ज॒जान᳚ ।
यश्चा॒पश्च॒न्द्रा बृ᳚ह॒तीर्ज॒जान॒ कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । हिं॒सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव᳚म् । स॒त्य॑ध᳚र्मा । ज॒जान᳚ ।
यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान᳚ । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स प्रजापतिर्नोऽस्मान्मा हिंसीत्। मा बाधताम्। यः पृथिव्या भूमेर्जनिता जनयिता स्रष्टा। जनिता मन्त्र इति णिलोपो निपात्यते। उदात्तयणो हल्पूर्वादिति पृथिवीशब्दाद्विभक्तेरुदात्तत्वम्। यो वा यश्च सत्यधर्मा सत्यमवितथं धर्म जगतो धारनं यस्य स तादृशः प्रजापतिर्दिवमन्तरिक्षोपलक्षितान्सवाल्लोकाञ्जजान जनयामस। जनी प्रादुर्भावे। णिचि वृद्धौ जनीजॄष्क्न सुरञ्जः। धा. १९-६३-६७। इति मित्त्वान्मितां ह्रस्व इति ह्रस्वत्वम्। ततो लिट्यमन्त्रे। पा. ३-१-३५। इति निषेधादाम्प्रत्ययाभावे तिपो णलि वृद्धौ लितीति प्रत्ययात्पूर्वस्योदात्तत्वम्। यश्च बृहतीर्महतीश्चन्द्रा आह्लादिनीरप उदकानि जजान जनयामास। ऊडिदमित्यादिनाप्यब्दादुत्तरस्य शस उदात्तत्वम्। तस्मै कस्मा इत्यादिगतम्॥९॥

10.121.10
प्रजा᳚पते॒ न त्वदे॒तान्य॒न्यो विश्वा᳚ जा॒तानि॒ परि॒ ता ब᳚भूव ।
यत्का᳚मास्ते जुहु॒मस्तन्नो᳚ अस्तु व॒यं स्या᳚म॒ पत᳚यो रयी॒णाम् ॥
▶ पदपाठः (Word-by-word)
प्रजा᳚॑पते । न । त्वत् । ए॒तानि᳚ । अ॒न्यः । विश्वा᳚ । जा॒तानि᳚ । परि᳚ । ता । ब॒भू॒व॒ ।
यत्॑का᳚माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत᳚यः । र॒यी॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इळादधाख्य इष्ट्ययने प्राजापत्यस्य हविषः प्रजापत इत्येषानुवाक्या। सूत्रितं च। प्रजापत्य इळादधः प्रजापते न त्वदेतान्यन्यः। आ. २-१४। इति। केशनखकीटादिभिर्दुष्टानि हवींष्यनयैवाप्सु प्रक्षिपेत्। सूत्रितं च। आपोऽभ्यवहरेयुः प्रजापते न त्वदेतान्यन्यः। आ. ३-१०। इति। चौलादिकर्मस्वप्येषा होमार्था। सूत्रितं च। तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयादग्न आयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च। आ. गृ. १-४-४-। इति॥

हे प्रजापते त्वत् त्वत्तोऽन्यः कश्चिदेतानीदानीं वर्तमानानि विश्वा विश्वानि सर्वाणि। शेश्छन्दसि बहुलमिति शेर्लोपः। जातानि प्रथमविकारभाञ्जि ता तानि सर्वाणि भूतजातानि न परि बभूव। न परिगृह्णाति। न व्युआप्नोति। त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भाव। परिपूर्वो भवतिः परिग्रहार्थः। वयं च यत्कामायत्फलं कामयमानास्ते तुभ्यं जुहुमः हवींषि प्रयच्छामः तत्फलं नोऽस्माकमस्तु। भवतु। तथा वयं च रयीणां धनानां पतय ईश्वराः स्याम। भवेम। नामन्यतरस्यामिति नाम उदात्तत्वम्॥१०॥