श्रवणम्

10.121.8
यश्चि॒दापो᳚ महि॒ना प॒र्यप᳚श्य॒द्दक्षं॒ दधा᳚ना ज॒नय᳚न्तीर्य॒ज्ञम् ।
यो दे॒वेष्वधि᳚ दे॒व एक॒ आसी॒त्कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
यः । चि॒त् । आपः᳚ । म॒हि॒ना । प॒रि॒॑अप᳚श्यत् । दक्ष᳚म् । दधा᳚नाः । ज॒नय᳚न्तीः । य॒ज्ञम् ।
यः । दे॒वेषु᳚ । अधि᳚ । दे॒वः । एकः᳚ । आसी᳚त् । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञं यज्ञोपलक्षितं विकारजातं जनयन्तीरुत्पादयन्तीः तदर्थं दक्षं प्रपञ्चात्मना वर्धिष्णुं प्रजापतिमात्मनि दधाना धारयित्रीः। दधातेर्हेतौ शानच्। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। ईदृशीरापः व्यत्ययेन प्रथमा। आपः प्रलयकालीना महिना महिम्ना। छान्दसो मलोपः। स्वमाहात्म्येन यश्च प्रजापतिः पर्यपश्यत् परितो दृष्टवान् यश्च देवेष्वधि देवेषु मध्ये देवस्तेषामपीश्वरः सन्नेकोऽद्वितीय आसीत् भवति। अस्तेश्छान्दसो लङ्। अस्तिसिचोऽपैक्ते। पा. ७-३-९६। इतीडागमः। तस्मै कस्मा इत्यादि गतम्॥८॥