श्रवणम्

10.121.4
यस्ये॒मे हि॒मव᳚न्तो महि॒त्वा यस्य᳚ समु॒द्रं र॒सया᳚ स॒हाहुः ।
यस्ये॒माः प्र॒दिशो॒ यस्य᳚ बा॒हू कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । इ॒मे । हि॒म॑व᳚न्तः । म॒हि॒॑त्वा । यस्य᳚ । स॒मु॒द्रम् । र॒सया᳚ । स॒ह । आ॒हुः ।
यस्य᳚ । इ॒माः । प्र॒॑दिशः᳚ । यस्य᳚ । बा॒हू इति᳚ । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिमा अस्मिन्सन्तीति हिमवान्। तेन बहुवचनान्तेन सर्वे पर्वता लक्ष्यन्ते। यथा छत्रिणो गच्छन्तिति। हिमवन्तो हिमवदुपलक्षिता इमे दृश्यमानाः सर्वे पर्वता यस्य प्रजापतेर्महित्वा महत्त्वं माहात्म्यमैश्वर्यमित्याहुः। तेन सृष्टत्वात्तद्रूपेणावस्थानाद्वा। तथा रसया। रसो जलम्। तद्वती रसा नदी। अर्शादित्वादच्। जातावेकवचनम्। रसाभिर्नदीभिः सह समुद्रम्। पूर्ववदेकवचनम्। सर्वान्समुद्रान्यस्य महाभाग्यमित्याहुः कथयन्ति सृष्त्यभिज्ञाः। यस्य चेमाः प्रदिशः प्राच्यारम्भा आग्नेय्याद्याः कोणदिश ईशानान्ता वा। तथा बाहू। वचनव्यत्ययः। बाहवो भुजाः। भुजवत्प्राधान्ययुक्ताः प्रदिशश्च यस्य स्वभुताः। तस्मै कस्मा इत्यादि समानं पूर्वेण॥४॥