दशमं मण्डलम् - सूक्तम् 9

9 ऋचः

ऋषिः: त्रिशिरास्त्वाष्ट्रः सिंधुद्वीपो वांबरीषः देवता: आपः छन्दः: गायत्री

सूक्तम् 10.9 - सम्पूर्णम्

1 / 9
ऋक्: 10.9.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
10.9.1
आपो॒ हि ष्ठा म᳚यो॒भुव॒स्ता न᳚ ऊ॒र्जे द᳚धातन ।
म॒हे रणा᳚य॒ चक्ष᳚से ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । हि । स्थ । म॒यः॒॑भुवः᳚ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
म॒हे । रणा᳚य । चक्ष᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हियस्मात् कारणात् आपः यायूयं मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ तास्ता- दृश्योयूयं नोस्मान् ऊर्जे अन्नाय दधातन धत्त अन्नप्राप्तियोग्यानस्मान् कुरुत अन्नमस्मभ्यं दत्तेत्यर्थः । महे महते रणाय रमणीयाय चक्षसे दर्शनाय सम्यक् ज्ञानायच धत्त अस्मान् सम्यक् ज्ञानं प्रतियोग्यान् कुरुतेत्यर्थः ॥ १ ॥

10.9.2
यो वः᳚ शि॒वत᳚मो॒ रस॒स्तस्य᳚ भाजयते॒ह नः᳚ ।
उ॒श॒तीरि᳚व मा॒तरः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । वः॒ । शि॒व॑त᳚मः । रसः᳚ । तस्य᳚ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ।
उ॒श॒तीः॑इ᳚व । मा॒तरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेआपः वोयुष्माकं स्वभूतोयोरसः शिवतमः सुखतमः इहास्मिन् लोके तस्य तं रसं नोस्मान् भाजयत सेवयत उपयोजयतेत्यर्थः । तत्र दृष्टान्तः—उशतीरिव उशत्यइव पुत्र- समृद्धिं कामयमाना मातरः स्तन्यं रसं यथा भाजयन्ति प्रापयन्ति तद्वत् ॥ २ ॥

10.9.3
तस्मा॒ अरं᳚ गमाम वो॒ यस्य॒ क्षया᳚य॒ जिन्व᳚थ ।
आपो᳚ ज॒नय᳚था च नः ॥
▶ पदपाठः (Word-by-word)
तस्मै᳚ । अर᳚म् । ग॒मा॒म॒ । वः॒ । यस्य᳚ । क्षया᳚य । जिन्व᳚थ ।
आपः᳚ । ज॒नय᳚थ । च॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेआपोयूयं यस्य पापस्य क्षयाय विनाशाय अस्मान् जिन्वथ प्रीणयथ तस्मै तादृशाय पापक्षयाय अरं क्षिप्रं वोयुष्मान् गमाम गमयाम वयं शिरसि प्रक्षिपामेत्यर्थः । यद्वा य- स्यान्नस्य क्षयाय निवासार्थं यूयमोषधीर्जिन्वथ तर्पयथ तस्मै तदन्नमुद्दिश्य वयं अरं अलं पर्याप्तं यथा भवति तथा वोयुष्मान् गमाम गच्छाम । किंच हे आपः नोस्मान् जनयथ च पुत्रपौत्रादिजनने प्रयोजयतेत्यर्थः ॥ ३ ॥

10.9.4
शं नो᳚ दे॒वीर॒भिष्ट᳚य॒ आपो᳚ भवन्तु पी॒तये᳚ ।
शं योर॒भि स्र᳚वन्तु नः ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । दे॒वीः । अ॒भिष्ट᳚ये । आपः᳚ । भ॒व॒न्तु॒ । पी॒तये᳚ ।
शम् । योः । अ॒भि । स्र॒व॒न्तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं पापापनोदद्वारेण शं सुखं भवन्तु देवीर्देव्यः आपः अभिष्टये अस्मद्यज्ञाय भ- वन्तु यज्ञांगभावायच भवन्तुइत्यर्थः । पीतये पानायच भवन्तु । तथा शं उत्पन्नानां रो- गाणां शमनं योः यावनं अनुत्पन्नानां पृथक्करणं च कुर्वन्तु । अपिच नोस्माकं अभि अप- रि स्रवन्तु शुध्यर्थं सिंचन्तु ॥ ४ ॥

10.9.5
ईशा᳚ना॒ वार्या᳚णां॒ क्षय᳚न्तीश्चर्षणी॒नाम् ।
अ॒पो या᳚चामि भेष॒जम् ॥
▶ पदपाठः (Word-by-word)
ईशा᳚नाः । वार्या᳚णाम् । क्षय᳚न्तीः । च॒र्ष॒णी॒नाम् ।
अ॒पः । या॒चा॒मि॒ । भे॒ष॒जम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वार्याणां वारिप्रभवानां व्रीहियवादीनां यद्वा वरणीयानां धनानां ईशाना ईश्वराश्चर्ष- णीनां मनुष्याणां क्षयन्तीः निवासयित्रीः अपउदकानि भेषजं सुखनामैतत् पापापनोदनं सुखं याचामि अहं प्रार्थये ॥ ५ ॥

अप्सुमे सोमोअब्रवीदित्यादिकाश्चतस्रऋचः प्रथमाष्टके द्वितीयाध्याये विनियोगपुरः सरं व्याख्याताः ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥

ओचिदितिचतुर्दशर्चं दशमं सूक्तं अत्रानुक्रम्यते—ओचित्षळूनावैवस्वतयोर्यमयम्योः सं- वादः षष्ठ्ययुग्भिर्यमीमिथुनार्थं यमंप्रोवाच स तां नवमीयुग्भिरनिच्छन् प्रत्याचष्टइति । ततः षष्ठ्यां प्रथमातृतीयाद्ययुक्षु विवस्वतः पुत्री यमी ऋषिः यमोदेवता । यस्यवाक्यं सऋषिः यातेनोच्यते सादेवतेति न्यायात् । तथा नवम्यां द्वितीयाचतुर्थीप्रभृतिषु युक्षु वैवस्वतोयमऋषिः यमी देवता । अनादेशपरिभाषयात्रिष्टुप् छन्दः गतोविनियोगः ।

10.9.6
अ॒प्सु मे॒ सोमो᳚ अब्रवीद॒न्तर्विश्वा᳚नि भेष॒जा ।
अ॒ग्निं च᳚ वि॒श्वश᳚म्भुवम् ॥
▶ पदपाठः (Word-by-word)
अ॒प्॑सु । मे॒ । सोमः᳚ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा᳚नि । भे॒ष॒जा ।
अ॒ग्निम् । च॒ । वि॒श्व॑श᳚म्भुवम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

10.9.7
आपः᳚ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒३॒᳚ मम᳚ ।
ज्योक्च॒ सूर्यं᳚ दृ॒शे ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । पृ॒णी॒त । भे॒ष॒जम् । वरू᳚थम् । त॒न्वे᳚ । मम᳚ ।
ज्योक् । च॒ । सूर्य᳚म् । दृ॒शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

10.9.8
इ॒दमा᳚प॒ः प्र व᳚हत॒ यत्किं च᳚ दुरि॒तं मयि᳚ ।
यद्वा॒हम᳚भिदु॒द्रोह॒ यद्वा᳚ शे॒प उ॒तानृ᳚तम् ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒॑इ॒तम् । मयि᳚ ।
यत् । वा॒ । अ॒हम् । अ॒भि॒॑दु॒द्रोह᳚ । यत् । वा॒ । शे॒पे । उ॒त । अनृ᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

10.9.9
आपो᳚ अ॒द्यान्व᳚चारिषं॒ रसे᳚न॒ सम᳚गस्महि ।
पय᳚स्वानग्न॒ आ ग᳚हि॒ तं मा॒ सं सृ᳚ज॒ वर्च᳚सा ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । अ॒द्य । अनु᳚ । अ॒चा॒रि॒ष॒म् । रसे᳚न । सम् । अ॒ग॒स्म॒हि॒ ।
पय᳚स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty