तस्मा॒ अरं᳚ गमाम वो॒ यस्य॒ क्षया᳚य॒ जिन्व᳚थ ।
आपो᳚ ज॒नय᳚था च नः ॥
आपो᳚ ज॒नय᳚था च नः ॥
पदपाठः (Word-by-word)
तस्मै᳚ । अर᳚म् । ग॒मा॒म॒ । वः॒ । यस्य᳚ । क्षया᳚य । जिन्व᳚थ ।
आपः᳚ । ज॒नय᳚थ । च॒ । नः॒ ॥
आपः᳚ । ज॒नय᳚थ । च॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेआपोयूयं यस्य पापस्य क्षयाय विनाशाय अस्मान् जिन्वथ प्रीणयथ तस्मै तादृशाय पापक्षयाय अरं क्षिप्रं वोयुष्मान् गमाम गमयाम वयं शिरसि प्रक्षिपामेत्यर्थः । यद्वा य- स्यान्नस्य क्षयाय निवासार्थं यूयमोषधीर्जिन्वथ तर्पयथ तस्मै तदन्नमुद्दिश्य वयं अरं अलं पर्याप्तं यथा भवति तथा वोयुष्मान् गमाम गच्छाम । किंच हे आपः नोस्मान् जनयथ च पुत्रपौत्रादिजनने प्रयोजयतेत्यर्थः ॥ ३ ॥