दशमं मण्डलम् - सूक्तम् 45

12 ऋचः

ऋषिः: वत्सप्रिः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.45 - सम्पूर्णम्

1 / 12
ऋक्: 10.45.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
10.45.1
दि॒वस्परि᳚ प्रथ॒मं ज᳚ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि᳚ जा॒तवे᳚दाः ।
तृ॒तीय᳚म॒प्सु नृ॒मणा॒ अज᳚स्र॒मिन्धा᳚न एनं जरते स्वा॒धीः ॥
▶ पदपाठः (Word-by-word)
दि॒वः । परि᳚ । प्र॒थ॒मम् । ज॒ज्ञे॒ । अ॒ग्निः । अ॒स्मत् । द्वि॒तीय᳚म् । परि᳚ । जा॒त॑वे᳚दाः ।
तृ॒तीय᳚म् । अ॒प्॑सु । नृ॒॑मनाः᳚ । अज᳚स्रम् । इन्धा᳚नः । ए॒न॒म् । ज॒र॒ते॒ । सु॒॑आ॒धीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवस्परीति द्वादशर्चं तृतीयं सूक्तं भालंदनस्य वत्सप्रेरार्षं त्रैष्टुभमाग्नेयम् । तथाचानुक्रां- तं—दिवस्परिद्वादशवत्सप्रिराग्नेयं त्विति । प्रातरनुवाकाश्विनशस्त्रयोरिदमादिके द्वे सूक्ते । अस्य सूक्तस्यांत्यां वर्जयित्वा । सूत्रितंच—दिवस्परीति सूक्तयोः पूर्वस्योत्तमामुद्धरेदिति । क्षामवत्यां अक्रंददग्निरित्येषा याज्या । सूत्रितंच—अग्नेत्वमस्मद्युयोध्यमीवाअक्रंददग्निः स्तन- यन्निवद्यौरिति ।

अग्निः प्रथमं पूर्वं दिवोद्युलोकस्य पर्युपरि आदित्यात्मना जज्ञे जातः जातवेदाः जात- प्रज्ञोजातधनोवाग्निः द्वितीयं अस्मत् अस्माकं परि उपरि पार्थिवात्मना जज्ञे नृमणाः नृषु मनुष्येषु अनुग्राहकतया सक्तचित्तोग्निस्तृतीयं अप्सु अंतरिक्षे वैद्युतात्मना जज्ञे एवंविध- मेनमग्निं स्वाधीः सुप्रज्ञोनेताजस्रमनवरतं इंधानोदीपयन् जरते स्तौति । यद्वा वाजसनेय- कोक्तप्रकारेण अस्यमंत्रस्यार्थोद्रष्टव्यः—तद्यथा दिवस्परिप्रथमं जज्ञे अग्निरिति प्राणेवैद्यौः प्राणाद्वाएषप्रथममजायतास्मद्द्वितीयं परिजातवेदाइति यदेनमदोद्वितीयं पुरुषविधोजनयत् तृतीयमप्स्विति यदेनंतृतीयमद्भ्योजनयन् नृमणाअजस्रमिति प्रजापतिर्वैनृमणाः अग्निरजस्र- मिंधानएनं जनयतेस्वाधीरिति ॥ १ ॥

10.45.2
वि॒द्मा ते᳚ अग्ने त्रे॒धा त्र॒याणि᳚ वि॒द्मा ते॒ धाम॒ विभृ᳚ता पुरु॒त्रा ।
वि॒द्मा ते॒ नाम᳚ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत᳚ आज॒गन्थ᳚ ॥
▶ पदपाठः (Word-by-word)
वि॒द्म । ते॒ । अ॒ग्ने॒ । त्रे॒धा । त्र॒याणि᳚ । वि॒द्म । ते॒ । धाम᳚ । वि॑भृ᳚ता । पु॒रु॒॑त्रा ।
वि॒द्म । ते॒ । नाम᳚ । प॒र॒मम् । गुहा᳚ । यत् । वि॒द्म । तम् । उत्स᳚म् । यतः᳚ । आ॒॑ज॒गन्थ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते तव त्रेधा त्रिषु स्थानेषु पृथिव्यंतरिक्षद्युलोकेषु स्थितानि त्रयाणि अग्निवा- य्वादित्याख्यानि त्रीणि रूपाण् इ विद्म वयं जानीमः । किंच हे अग्ने ते तव धाम धामा- नि स्थानानि विभृता विभृतानि पुरुत्रा बहुधा बहूनि वा गार्हपत्याहवनीयान्वाहार्यपच- नादीनि विद्म । किंच ते तव गुहा गूढं अवेद विद्वद्भिरविज्ञातं परमं प्रकृष्टं वेदे प्रसिद्धं यन्नामस्ति तद्विद्म वेदविदोवयं विजानीमः । किंच त्वं यतोयस्मादाजगंथ आगतवानसि उत्पन्नवानित्यर्थः तमुत्सं उत्स्यंदयितारमुत्पादयितारं कारणात्मानं विद्म जानीम ॥ २ ॥

10.45.3
स॒मु॒द्रे त्वा᳚ नृ॒मणा᳚ अ॒प्स्व१॒᳚न्तर्नृ॒चक्षा᳚ ईधे दि॒वो अ᳚ग्न॒ ऊध᳚न् ।
तृ॒तीये᳚ त्वा॒ रज᳚सि तस्थि॒वांस᳚म॒पामु॒पस्थे᳚ महि॒षा अ᳚वर्धन् ॥
▶ पदपाठः (Word-by-word)
स॒मु॒द्रे । त्वा॒ । नृ॒॑मनाः᳚ । अ॒प्॑सु । अ॒न्तः । नृ॒॑चक्षाः᳚ । ई॒धे॒ । दि॒वः । अ॒ग्ने॒ । ऊध᳚न् ।
तृ॒तीये᳚ । त्वा॒ । रज᳚सि । त॒स्थि॒॑वांस᳚म् । अ॒पाम् । उ॒प॑स्थे᳚ । म॒हि॒षाः । अ॒व॒र्ध॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने समुद्रे महोदधौ जायमानं अप्म्वंतः अपां मध्ये वडवात्मनास्थितं त्वा त्वां नृ- मणाः नृषु मनुष्यषु अनुग्राहकतया सक्ताचत्तोवरुणईधे संदीपितवान् । किंच नृचक्षाः नृणां प्रत्यक्षणदृष्टआदित्योदिवोद्युलोकस्य संबंधिनि ऊधन् ऊधसि ऊधः स्थानीये आदित्यमंडले यज्ञे त ईधे संदीपितवान् । किंच तृतीये त्रयाणां पूरणे अपां वृष्ट्युदकानामुपस्थेस्थाने र- जस्यंतरिक्षलोके तस्थिवांसं विद्युद्रूपेणावस्थितं त्वा त्वां महिषा महांतोमाध्यमिकादेवग- णामरुदादयः स्तोतारोऽवर्धन् स्तुतिभिरवर्धयन् । यद्वा वाजसनेयकोक्तप्रकारेणार्थोद्रष्टव्यः— तद्यथा रामुद्रे त्वानृमणाअप्स्वंतरिति प्रजापतिर्वैनृमणाअप्सुतदाप्रजापतिरित्येतत् नृचक्षा- इंधेदिवोअग्नऊधन्निति प्रजापतिर्वेनृचक्षाआपइवऊधस्तृतीयेत्वारजसितस्थिवांसमिति द्यौर्वैतृ- तीयंरजोपामुपस्थेमहिषाअवर्धन्निति प्राणावैमहिषादिवित्वाप्राणाअवर्धयन्नित्येतदिति ॥ ३ ॥

10.45.4
अक्र᳚न्दद॒ग्निः स्त॒नय᳚न्निव॒ द्यौः क्षामा॒ रेरि᳚हद्वी॒रुधः᳚ सम॒ञ्जन् ।
स॒द्यो ज᳚ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद᳚सी भा॒नुना᳚ भात्य॒न्तः ॥
▶ पदपाठः (Word-by-word)
अक्र᳚न्दत् । अ॒ग्निः । स्त॒नय᳚न्॑इव । द्यौः । क्षाम᳚ । रेरि᳚हत् । वी॒रुधः᳚ । स॒म्॑अ॒ञ्जन् ।
स॒द्यः । ज॒ज्ञा॒नः । वि । हि । ई॒म् । इ॒द्धः । अख्य᳚त् । आ । रोद᳚सी॒ इति᳚ । भा॒नुना᳚ । भा॒ति॒ । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दावरूपोग्निः स्तूयते—अग्निर्दावाग्निः स्तनयन्निव द्यौर्यथा दीप्तोविद्युद्रूपः पर्जन्योमहांतं शब्दं करोति तद्वदक्रंदत् महांतं शब्दं करोति । किंकुर्वन्नित्यत्राह—क्षाम क्षामां पृथिवीं रेरिहत् आस्वादयन् वीरुधः ओषधीश्च समंजन् म्रक्षयन् संतापयन्नित्यर्थः । किंच सद्यः तत्क्षणे समानकाले जज्ञानोजायमानैद्धोदीप्तः ईमिदं स्वेन दग्धं वस्तुजातं व्यख्यत् विवि- धं पश्यति हीति पदपूरणः । किंच रोदसी द्यावापृथिव्यौ अतः अंतरेण भानुना स्वदीप्त्या आभाति प्रकाशते । यद्वा वाजसनयकोत्तार्थोद्रष्टव्यः—तद्यथा अकंददग्निः स्तनयन्निवद्यौरिति क्रंदतिहि पजन्यः स्ततवन्निवद्यौः क्षामारेरिहद्वीरुधः समञ्चन्निति क्षामां वै रेरिह्यमाणो- वीरुधः सम्यग् व्यनक्ति सद्योजज्ञानोविहीमिद्धो अख्यदिति सद्योहवाएषजज्ञानइदं सर्वंवि- ख्यारोदसीभानुनाभात्यतरितीमेवै द्यावापृथिवी रोदसी ते एषभानुना भात्यन्तरिति वैद्यु- तस्यस्तुतिर्यद्वेयं दाअवाग्नेः स्व्तुतिरिति ॥ ४ ॥

10.45.5
श्री॒णामु᳚दा॒रो ध॒रुणो᳚ रयी॒णां म᳚नी॒षाणां॒ प्रार्प᳚ण॒ः सोम᳚गोपाः ।
वसु᳚ः सू॒नुः सह᳚सो अ॒प्सु राजा॒ वि भा॒त्यग्र᳚ उ॒षसा᳚मिधा॒नः ॥
▶ पदपाठः (Word-by-word)
श्री॒णाम् । उ॒त्॑आ॒रः । ध॒रुणः᳚ । र॒यी॒णाम् । म॒नी॒षाणा᳚म् । प्र॒॑अर्प᳚णः । सोम᳚॑गोपाः ।
वसुः᳚ । सू॒नुः । सह᳚सः । अ॒प्॑सु । राजा᳚ । वि । भा॒ति॒ । अग्रे᳚ । उ॒षसा᳚म् । इ॒धा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रीणां विभूतीनां उदारः उद्गमयिता दाता रयीणां धनानां धरुणोधारकोमनीषाणमी- प्सितार्थानां प्रार्पणः प्रार्पयिता सोमगोपाः सोमस्य गोप्ता वसुः सर्वलोकस्य वासकः सह- सोबलस्य सूनुः अप्सूदकेषु स्थितोराजासर्वस्येश्वरश्च उषसामग्रे प्रभातकाले इधानोग्निहोत्रा र्थं समिध्यमानोग्निर्विभाति प्रकाशते ॥ ५ ॥

10.45.6
विश्व᳚स्य के॒तुर्भुव᳚नस्य॒ गर्भ॒ आ रोद᳚सी अपृणा॒ज्जाय᳚मानः ।
वी॒ळुं चि॒दद्रि᳚मभिनत्परा॒यञ्जना॒ यद॒ग्निमय᳚जन्त॒ पञ्च᳚ ॥
▶ पदपाठः (Word-by-word)
विश्व᳚स्य । के॒तुः । भुव᳚नस्य । गर्भः᳚ । आ । रोद᳚सी॒ इति᳚ । अ॒पृ॒णा॒त् । जाय᳚मानः ।
वी॒ळुम् । चि॒त् । अद्रि᳚म् । अ॒भि॒न॒त् । प॒रा॒॑यन् । जनाः᳚ । यत् । अ॒ग्निम् । अय᳚जन्त । पञ्च᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वस्य सर्वस्य केतुः प्रज्ञापकोभुवनस्योदकस्य गर्भोगर्भभूतोग्निर्जायमानः प्रादुर्भवन्नेव रोदसी द्यावापृथिव्यावापृणादापूरयति । परायन् परागच्छन् वीळुं चित् दृढमप्यद्रिं मेघम- भिनत् भिनत्ति च । कदेत्यत्राह—यद्यदा पञ्चजनाः मनुष्याअग्निमयजंत यजंते ॥ ६ ॥

10.45.7
उ॒शिक्पा᳚व॒को अ᳚र॒तिः सु᳚मे॒धा मर्ते᳚ष्व॒ग्निर॒मृतो॒ नि धा᳚यि ।
इय᳚र्ति धू॒मम᳚रु॒षं भरि᳚भ्र॒दुच्छु॒क्रेण᳚ शो॒चिषा॒ द्यामिन᳚क्षन् ॥
▶ पदपाठः (Word-by-word)
उ॒शिक् । पा॒व॒कः । अ॒र॒तिः । सु॒॑मे॒धाः । मर्ते᳚षु । अ॒ग्निः । अ॒मृतः᳚ । नि । धा॒यि॒ ।
इय᳚र्ति । धू॒मम् । अ॒रु॒षम् । भरि᳚भ्रत् । उत् । शु॒क्रेण᳚ । शो॒चिषा᳚ । द्याम् । इन᳚क्षन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशिक् हवींषि कामयमानः पावकः सर्वस्य लोकस्य शोधकः अरतिः गंता भूतानां मारयिता वा सुमेधाः सुप्रज्ञः अमृतोमरणधर्मरहितोग्निः मर्तेषु मनुष्येषु निधायि निहितः सोयमग्निर्धूममियर्ति प्रेरयति । किञ्च अरुषमारोचमानं रूपं भरिभ्रत् धारयन् शुक्रेण शु- क्लेन शोचिषा रोचिषा द्यां दिवं उत् इनक्षन् व्याप्नुवन् गच्छतीति शेषः ॥ ७ ॥

10.45.8 समानपद
दृ॒शा॒नो रु॒क्म उ᳚र्वि॒या व्य᳚द्यौद्दु॒र्मर्ष॒मायु᳚ः श्रि॒ये रु᳚चा॒नः ।
अ॒ग्निर॒मृतो᳚ अभव॒द्वयो᳚भि॒र्यदे᳚नं॒ द्यौर्ज॒नय᳚त्सु॒रेता᳚ः ॥
▶ पदपाठः (Word-by-word)
दृ॒शा॒नः । रु॒क्मः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । दुः॒॑मर्ष᳚म् । आयुः᳚ । श्रि॒ये । रु॒चा॒नः ।
अ॒ग्निः । अ॒मृतः᳚ । अ॒भ॒व॒त् । वयः᳚॑भिः । यत् । ए॒न॒म् । द्यौः । ज॒नय᳚त् । सु॒॑रेताः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दृशानः प्रत्यक्षेण दृश्यमानोरुक्मोरोचमानोग्निः उर्विया उरु अत्यंतं व्यद्यौत विद्योतते । किंच आयुर्गंता ससर्वतोयमग्निः श्रिये विभूत्यै दुर्मर्षं दुरभिभवं यथा भवति तथा रुचा- नोरोचमानोभवति सोयमग्निर्वयोभिरन्नैर्वनस्पतिभिरमृतोमरणरहितोभवत् यद्यस्मात्कारणा- देनमग्निं सुरेताः शोभनरेतस्कोद्यौः प्राणआदित्योवा जनयत् जनयति ॥ ८ ॥

10.45.9
यस्ते᳚ अ॒द्य कृ॒णव᳚द्भद्रशोचे॑पू॒पं दे᳚व घृ॒तव᳚न्तमग्ने ।
प्र तं न᳚य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ᳚क्तं यविष्ठ ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । अ॒द्य । कृ॒णव᳚त् । भ॒द्र॒॑शो॒चे॒ । अ॒पू॒पम् । दे॒व॒ । घृ॒त॑व᳚न्तम् । अ॒ग्ने॒ ।
प्र । तम् । न॒य॒ । प्र॒॑त॒रम् । वस्यः᳚ । अच्छ᳚ । अ॒भि । सु॒म्नम् । दे॒व॑भ᳚क्तम् । य॒वि॒ष्ठ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे भद्रशोचे कल्याणदीप्ते हे देव द्योतमान यविष्ठ युवतमाग्ने ते तुभ्यं योयजमानोद्या स्मिन्नहनि घृतवंतं घृतेन युक्तं अपूपं पुरोडाशं कृणवत् करोति प्रतरं प्रकृष्टतरं यजमानं वस्योवसीयोच्छप्रति प्रनय अत्यर्थं प्रापय । तथा देवभक्तं स्तुतिभिर्हविर्भिश्च देवानां संभ- क्तारं सेवितारं तंयजमानं द्युम्नं सुखमभिप्रति प्रनय ॥ ९ ॥

10.45.10
आ तं भ᳚ज सौश्रव॒सेष्व᳚ग्न उ॒क्थौ᳚क्थ॒ आ भ᳚ज श॒स्यमा᳚ने ।
प्रि॒यः सूर्ये᳚ प्रि॒यो अ॒ग्ना भ᳚वा॒त्युज्जा॒तेन᳚ भि॒नद॒दुज्जनि᳚त्वैः ॥
▶ पदपाठः (Word-by-word)
आ । तम् । भ॒ज॒ । सौ॒श्र॒वसेषु᳚ । अ॒ग्ने॒ । उ॒क्थे॑उ᳚क्थे । आ । भ॒ज॒ । श॒स्यमा᳚ने ।
प्रि॒यः । सूर्ये᳚ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । उत् । जा॒तेन᳚ । भि॒नद᳚त् । उत् । जनि᳚॑त्वैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं सुश्रवसेषु शोभनानि श्रवांस्यन्नानि हवींषि येषु कर्मसु तानि सौश्रवसा- नि तेषु क्रियमाणेषु तं यजमानं स्तोतारं वा आभज अभीष्टप्रदानेन सेवस्व । किंच उक्थे उक्थे शस्त्रे शस्यमाने पठ्यमाने सति तं आभज अभीष्टप्रदानेनैव सेवस्व । सोयं यजमानः स्तोता वा सूर्ये प्रियोभवाति भवतु तथा अग्नाऽग्नावपि प्रियोभवति । किंच सोयं जातेनो- त्पन्नेन पुत्रेण उद्भिनदत् शत्रून् विदारयतु तथा जनित्वैर्जनिष्यमाणैश्च पुत्रैः शत्रूनुद्भिन- दत् ॥ १० ॥

10.45.11
त्वाम᳚ग्ने॒ यज᳚माना॒ अनु॒ द्यून्विश्वा॒ वसु᳚ दधिरे॒ वार्या᳚णि ।
त्वया᳚ स॒ह द्रवि᳚णमि॒च्छमा᳚ना व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । यज᳚मानाः । अनु᳚ । द्यून् । विश्वा᳚ । वसु᳚ । द॒धि॒रे॒ । वार्या᳚णि ।
त्वया᳚ । स॒ह । द्रवि᳚णम् । इ॒च्छमा᳚नाः । व्र॒जम् । गो॑म᳚न्तम् । उ॒शिजः᳚ । वि । व॒व्रुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वां प्रति यजमानाः अनुद्यून् प्रत्यहं विश्वा विश्वानि वार्याणि वरणीयानि वसु वसूनि धनानि दधिरे धारयंति । किञ्च त्वया सह द्रविणमसुरैरपहृतं गोरूपं धन- मिच्छमानाः कामयमानाः उशिजोमेधाविनोदेवागोमंतं पशुमंतं व्रजं विवव्रुः विवृतद्वारं कृतवंतः ॥ ११ ॥

10.45.12
अस्ता᳚व्य॒ग्निर्न॒रां सु॒शेवो᳚ वैश्वान॒र ऋषि᳚भि॒ः सोम᳚गोपाः ।
अ॒द्वे॒षे द्यावा᳚पृथि॒वी हु᳚वेम॒ देवा᳚ ध॒त्त र॒यिम॒स्मे सु॒वीर᳚म् ॥
▶ पदपाठः (Word-by-word)
अस्ता᳚वि । अ॒ग्निः । न॒राम् । सु॒॑शेवः᳚ । वै॒श्वा॒न॒रः । ऋषि᳚॑भिः । सोम᳚॑गोपाः ।
अ॒द्वे॒षे इति᳚ । द्यावा᳚पृथि॒वी इति᳚ । हु॒वे॒म॒ । देवाः᳚ । ध॒त्त । र॒यिम् । अ॒स्मे इति᳚ । सु॒॑वीर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरां कर्मनेतॄणां पुंसां सुशेवः सुखसेव्योवैश्वानरोग्निः ऋषिभिः मंत्रैः अस्तावि स्तुतः । कीदृशः सोमगोपाः सोमस्य गोप्ता रक्षिता अद्वेषे द्यावापृथिवी द्यावापृथिव्यौ हुवेम वयं ह्वयेम । किंच हे देवाः यूयं सुवीरं शोभनपुत्राद्युपेतं रयिं धनमस्मे अस्मासु धत्त धार- यत ॥ १२ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेया द्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण साय- णाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक् संहिताभाष्ये सप्तमाष्टके अष्टमोध्यायः ॥ ८ ॥

॥ सप्तमाष्टकः समाप्तः ॥ ७ ॥