दशमं मण्डलम् - सूक्तम् 117

9 ऋचः

ऋषिः: भिक्षुरांगिरसः देवता: धनान्नदानप्रशंसा छन्दः: जगती

सूक्तम् 10.117 - सम्पूर्णम्

1 / 9
ऋक्: 10.117.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
10.117.1
न वा उ᳚ दे॒वाः क्षुध॒मिद्व॒धं द᳚दुरु॒ताशि᳚त॒मुप᳚ गच्छन्ति मृ॒त्यवः᳚ ।
उ॒तो र॒यिः पृ᳚ण॒तो नोप᳚ दस्यत्यु॒तापृ᳚णन्मर्डि॒तारं॒ न वि᳚न्दते ॥
▶ पदपाठः (Word-by-word)
न । वै । ऊं॒ इति᳚ । दे॒वाः । क्षुध᳚म् । इत् । व॒धम् । द॒दुः॒ । उ॒त । आशि᳚तम् । उप᳚ । ग॒च्छ॒न्ति॒ । मृ॒त्यवः᳚ ।
उ॒तो इति᳚ । र॒यिः । पृ॒ण॒तः । न । उप᳚ । द॒स्य॒ति॒ । उ॒त । अपृ᳚णन् । म॒र्डि॒तार᳚म् । न । वि॒न्द॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नवा इति नवर्चं पञ्चमं सूक्तम् । भिक्षुर्नामाङ्गिरस ऋषिः। प्रथमाद्वितीये जगत्यौ शिष्टाः सप्त त्रिष्टुभः। अत्र धनस्यान्नस्य च दानम् स्तूयते। अतस्तद्दैवत्यमिदम्। तथा चानुक्रान्तम्। न वा उ भिक्षुर्धनान्नदानप्रशंसाद्ये जगत्याविति। गतो विनियोगः॥

भिक्षुः प्रथमं व्यतिरेकमुखेनान्नदानं प्रशंसति। देवा वै देवाह् खलु सर्वेषाम् क्षुधं न ददुः। न प्रायच्छन्। किन्तु वधमिद्वधमेव दत्तवन्तः। एतादृशीं वधरूपां क्षुधमन्नदानेन यः शमयति स दाता खलु। उ इति पूरनः। योऽदत्त्वा भुङ्क्ते तमाशितं भुञ्जानम् पुरुषमपि मृत्यवो मरनान्युप गच्छन्ति। समीपे यान्ति। आशितः कर्ता। पा. ६-१-२-७। इत्याद्युदात्तत्वम्। क्षुधार्त्तानां भोक्तॄणां च मरणं समानम्। किं दानेन धननाशरूपेण। अत आह । उतो। उतशब्दोऽप्यर्थे। पृणतः प्रयच्छतः। पुरुषस्य रयिर्धनं नोप दस्यति। नोपक्षीयते। दसु उपक्शये दैवादिकः। पृण दाने तौदादिकः। तस्य शत्रन्तस्य शतुरनुमो नद्यजादी इति विभक्तेराद्युदात्तत्वम्। दानप्रसङ्गेनादातारं दूषयति। अपृणन्नप्रयच्छन् पुरुशस्तु मर्डितारमात्मनः सुखयितारं न विन्दते। न कुत्रापि लभते। इह बन्धवोऽप्रदानान्न सुखयन्ति देवा अपि हविष्प्रदानाभावात्॥१॥

10.117.2
य आ॒ध्राय᳚ चकमा॒नाय᳚ पि॒त्वो॑न्न᳚वा॒न्त्सन्र᳚फि॒तायो᳚पज॒ग्मुषे᳚ ।
स्थि॒रं मनः᳚ कृणु॒ते सेव᳚ते पु॒रोतो चि॒त्स म᳚र्डि॒तारं॒ न वि᳚न्दते ॥
▶ पदपाठः (Word-by-word)
यः । आ॒ध्राय᳚ । च॒क॒मा॒नाय᳚ । पि॒त्वः । अन्न᳚॑वान् । सन् । र॒फि॒ताय᳚ । उ॒प॒॑ज॒ग्मुषे᳚ ।
स्थि॒रम् । मनः᳚ । कृ॒णु॒ते । सेव᳚ते । पु॒रा । उ॒तो इति᳚ । चि॒त् । सः । म॒र्डि॒तार᳚म् । न । वि॒न्द॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पुरुषः स्वयमन्नवानप्याध्राय। आधार्यतेऽसावित्याध्रो दुर्बलः। तस्मै पित्वः पितूनन्नानि चकमानाय। चकमानः कान्तिकर्मा। रफिताय। रफतिर्हिंसार्थः। दारिद्र्येण हिंसितायोपजग्मुषे ग्रुहम् प्रत्यागतायातिशयेन मन आत्मीयमन्तः करणमदाने स्थिरं कृणुते कुरुते। मनः स्थैर्यकरणेन तं क्लेशयतीत्यर्थः। कृणुते। क्रुवि हिंसाकरणयोः। धन्विक्रुण्व्योरच्चेत्युप्रत्ययः। करोतेर्वाव्यत्ययेन श्नुः। विकरणस्वरः सति शिष्तोपि लसार्वधातुकस्वरं न बाधते। म. ६-१-१५८-११। इति लसार्वधातुकस्वरः। न केवलम् क्लेशकरणं अपि तु पुरा तस्य पुरस्तादेव सेवते भोगान्। सोऽपि मर्डितारमात्मनः सुखयितारं न विन्दते। न कुत्रापि लभते॥२॥

10.117.3
स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न᳚कामाय॒ चर᳚ते कृ॒शाय᳚ ।
अर᳚मस्मै भवति॒ याम᳚हूता उ॒ताप॒रीषु᳚ कृणुते॒ सखा᳚यम् ॥
▶ पदपाठः (Word-by-word)
सः । इत् । भो॒जः । यः । गृ॒हवे᳚ । ददा᳚ति । अन्न᳚॑कामाय । चर᳚ते । कृ॒शाय᳚ ।
अर᳚म् । अ॒स्मै॒ । भ॒व॒ति॒ । याम᳚॑हूतौ । उ॒त । अ॒प॒रीषु᳚ । कृ॒णु॒ते॒ । सखा᳚यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्वयमुखेन प्रशम्सति। स इत् स एव भोजो दाता खलु यो गृहवे। ग्रहेर्मृगय्वादित्वात्। उ. १-३८। कुप्रत्ययः। प्रतिग्रहीत्रेऽन्नकामायान्नं याचमानाय चरते गृहमागतवते कृशाय दारिद्र्येणैतादृशायातिथयेऽन्नं ददाति प्रयच्छति। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। यामहूतौ। यामा गन्तारो देवाः। अत्र यातेरर्तिस्तुसुहुसृ। उ. १-१३९। इत्यादिना मन्प्रत्ययः। त आहू यन्तेऽत्रेति यामहूतिर्यज्ञः। तस्मिन्नस्मैदात्रे फलमरमलं पर्याप्तं भवति। कामप्रदानं भवतीत्यर्थः। उतापि चापरीशु। केवलमामकेति ङीप्। पा. ४-१-३०। अन्यासु शात्रवीषु सेनासु सखायं कृणुते। तद्वदाचरतीत्यर्थः। तस्य सर्वे सखाय एव न शत्रव इत्यर्थः॥३॥

10.117.4
न स सखा॒ यो न ददा᳚ति॒ सख्ये᳚ सचा॒भुवे॒ सच᳚मानाय पि॒त्वः ।
अपा᳚स्मा॒त्प्रेया॒न्न तदोको᳚ अस्ति पृ॒णन्त᳚म॒न्यमर᳚णं चिदिच्छेत् ॥
▶ पदपाठः (Word-by-word)
न । सः । सखा᳚ । यः । न । ददा᳚ति । सख्ये᳚ । स॒चा॒॑भुवे᳚ । सच᳚मानाय । पि॒त्वः ।
अप᳚ । अ॒स्मा॒त् । प्र । इ॒या॒त् । न । तत् । ओकः᳚ । अ॒स्ति॒ । पृ॒णन्त᳚म् । अ॒न्यम् । अर᳚णम् । चि॒त् । इ॒च्छे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्यतिकरणे निन्दामाह। स पुरुषः सखा न भवति यः पुरुषः सचाभुवे सर्वदा सहभवनशीलाय सचमानाय सेवमानायोपसर्जनीभूताय सख्ये सखिजनाय पित्वः पितूनन्नानि न ददाति न प्रयच्छति। स सुहृन्न भवतीत्यर्थः। अस्माददातुः सख्युः सोऽप प्रेयात्। अपगच्छेत्। यद्येनं परित्यज्य गच्छेत्। इण् गतौ लिङि यासुट्। तर्हि तदोको निवासः सदनं नास्ति। न भवति। सदनं हि बन्धुभिः परिव्रुतम्। स गतः पुरुषः पृणन्तमन्नादिकं प्रयच्छन्तमन्यमरणं चिदर्थं स्वामिनमेवेच्छेत्। कामयेत॥४॥

10.117.5
पृ॒णी॒यादिन्नाध᳚मानाय॒ तव्या॒न्द्राघी᳚यांस॒मनु᳚ पश्येत॒ पन्था᳚म् ।
ओ हि वर्त᳚न्ते॒ रथ्ये᳚व च॒क्रान्यम᳚न्य॒मुप᳚ तिष्ठन्त॒ रायः᳚ ॥
▶ पदपाठः (Word-by-word)
पृ॒णी॒यात् । इत् । नाध᳚मानाय । तव्या᳚न् । द्राघी᳚यांसम् । अनु᳚ । प॒श्ये॒त॒ । पन्था᳚म् ।
ओ इति᳚ । हि । वर्त᳚न्ते । रथ्या᳚॑इव । च॒क्रा । अ॒न्यम्॑अ᳚न्यम् । उप᳚ । ति॒ष्ठ॒न्त॒ । रायः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धनवन्तं पुरुषं दाने प्रेरयति। तव्याम्स्तवीयान्धनैरतिशयेन प्रवृद्धः पुरुषो नाधमानाय याचमानायातिथये पृणीयादित्। धनानि दद्यादेव। पॄ पालनपूरनयोः क्र्यादिः। प्वादीनां ह्रस्वः। यदि दद्यात् द्राघीयांसम् । दीर्घशब्दादीयसुनि प्रियस्थिरेत्यादिना द्राघीत्यादेशः। दीर्घतमं पन्थां पन्थानं सुकृतमार्गमनु पश्येत। अनुपश्येत्। व्यत्ययेनात्मनेपदम्। तत्र कारणमाह। रायो धन्नन्यो हि। आ उ। अवर्तन्ते खलु। एकत्र न तिष्ठन्तीत्यर्थः। तत्र दृष्टान्तः। रथ्येव यथा रथ्यानि। रथाद्यत्। पा. ४-३-१२१-। इति तस्येदमित्यर्थे यत्। रथ सम्बन्धीनि चक्राण्युपर्यधोभावेनावर्तन्ते तद्वदावृत्तिमेव दर्शय्ति। अन्यमन्यं पुरुषं धनान्युप तिष्ठन्त। उपतिष्ठन्ते। समवेतानि भवन्ति। उपाद्देवपूजासङ्गतिकरनेति। का. १-३-२५-१। आत्मनेपदम्। तस्माद्धनानि देयानीति भावः॥५॥

10.117.6
मोघ॒मन्नं᳚ विन्दते॒ अप्र᳚चेताः स॒त्यं ब्र᳚वीमि व॒ध इत्स तस्य᳚ ।
नार्य॒मणं॒ पुष्य᳚ति॒ नो सखा᳚यं॒ केव᳚लाघो भवति केवला॒दी ॥
▶ पदपाठः (Word-by-word)
मोघ᳚म् । अन्न᳚म् । वि॒न्द॒ते॒ । अप्र᳚॑चेताः । स॒त्यम् । ब्र॒वी॒मि॒ । व॒धः । इत् । सः । तस्य᳚ ।
न । अ॒र्य॒मण᳚म् । पुष्य᳚ति । नो इति᳚ । सखा᳚यम् । केव᳚ल॑अघः । भ॒व॒ति॒ । के॒व॒ल॒॑आ॒दी ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदातारम् दूषयति। अप्रचेता अप्रकृष्टज्ञानः दाने चेतो मनो यस्य न भवति समोघं व्यर्थमेवान्नं विन्दते। लभते। विद्लृ लाभे तौदादिकः। शे मुचादीनामिति नुमागमः। इदं सत्यं यथार्थमेवेति ब्रवीमि। ऋषिरहं वदामि। न केवलं व्यर्थं किन्तु तस्य पुरुषस्य स वध इद्वध एवान्नं परामृशतः। तच्छब्दस्य वधसामानाधिकरण्यात्पुल्लिङ्गता। यथा णेरणावित्यत्र। पा. १-३-६७। यत्कर्म स एव कर्तेति। अथवा स निरर्थको वध एव यः पुरुषोऽर्यमणम् । उपलक्षणमिदम्। सर्वान्देवानर्यमादीन्न पुष्यति हविष्प्रदानेन न पोषयति नो नापि सखायं समानख्यानमभ्यागतमतिथिं मित्रवर्गं च न पोषयति। पुष पुष्टौ दैवादिकः। यच्छब्दाध्याहारादनिघातः। अत एव केवलादी। अदेः सुप्यजातौ। पा. ३-२-७८। इति णिनिः। अत उपधालक्शणावृद्धिः। केवलमसाक्षिकमन्नं भुञ्जानः स केवलाघो भवति। केवलपापवान्भवति। अघमेव केवलं तस्य शिष्यते। ऐहिकामुश्मिकमिति । तस्माद्यथाकथञ्चिद्दातव्य मित्यभिप्रायः॥६॥

10.117.7
कृ॒षन्नित्फाल॒ आशि᳚तं कृणोति॒ यन्नध्वा᳚न॒मप᳚ वृङ्क्ते च॒रित्रै᳚ः ।
वद᳚न्ब्र॒ह्माव᳚दतो॒ वनी᳚यान्पृ॒णन्ना॒पिरपृ᳚णन्तम॒भि ष्या᳚त् ॥
▶ पदपाठः (Word-by-word)
कृ॒षन् । इत् । फालः᳚ । आशि᳚तम् । कृ॒णो॒ति॒ । यन् । अध्वा᳚नम् । अप᳚ । वृ॒ङ्क्ते॒ । च॒रित्रैः᳚ ।
वद᳚न् । ब्र॒ह्मा । अव᳚दतः । वनी᳚यान् । पृ॒णन् । आ॒पिः । अपृ᳚णन्तम् । अ॒भि । स्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कृषन् क्रुषिं कुर्वन्फाल आशितं कर्षकं भोक्तारं कृणोति। करोति। तथाध्वानम् मार्गं यन्। इणः शतरि नुमागमः। गच्छन्पुरुशश्चरित्रैरात्मीयैर्गमनैरपवृङ्क्ते। स्वामिनो धनमावर्जयति। व्रुजी वर्जने आदादिकः। अनुदात्तेत्। वदञ्शास्त्रार्थं ब्रुवाणो ब्रह्मा ब्राह्मणोऽवदतः शास्त्रार्थमब्रुवानाज्जनाद्वनीयान्। सम्भक्तृतमः प्रियकरो भवति। वनतेस्तृजन्तस्येयसुनि तुरिष्थेमेयः स्विति तृचो लोपः। ते यथा स्वकर्मणि प्रवर्तमानाः परेषामुपकारकाः तथा पृणन् दाता पुरुषोऽपृणन्तमदातारं जनमभ्यभिलक्ष्यापिः स्यात्। बन्धुर्भवेत्॥७॥

10.117.8
एक᳚पा॒द्भूयो᳚ द्वि॒पदो॒ वि च᳚क्रमे द्वि॒पात्त्रि॒पाद᳚म॒भ्ये᳚ति प॒श्चात् ।
चतु᳚ष्पादेति द्वि॒पदा᳚मभिस्व॒रे स॒म्पश्य᳚न्प॒ङ्क्तीरु᳚प॒तिष्ठ᳚मानः ॥
▶ पदपाठः (Word-by-word)
एक᳚॑पात् । भूयः᳚ । द्वि॒॑पदः᳚ । वि । च॒क्र॒मे॒ । द्वि॒॑पात् । त्रि॒॑पाद᳚म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।
चतुः᳚॑पात् । ए॒ति॒ । द्वि॒॑पदा᳚म् । अ॒भि॒॑स्व॒रे । स॒म्॑पश्य᳚न् । प॒ङ्क्तीः । उ॒प॒॑तिष्ठ᳚मानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र पादशब्दो भागवचनः। एकपादेकभागधनः पुरुषो द्विपदो द्विगुनधनस्य मार्गं भूयः। तृतीयायाः सुः। भूयसा कालेन वि चक्रमे। विविधं गच्छति। वेः पादविहरणे। पा. १-३-४१। इत्यात्मनेपदम्। तथा द्विपात्पुरुषस्त्रिपादं त्रिभागधनं पुरुषं पश्चादभ्येति। अभिगच्छति। चतुष्पाच्चतुर्भागधनस्तु द्विपदाम्। बहुवचनादेकपादादय उपलक्ष्यन्ते। एकपादधनादीनां पङ्क्तीरभिस्वरेऽभिगमने सम्पश्यन् सम्यगीक्षनमाणः सन्नुपतिष्ठमान एति। गच्छमानो भवति। अन्योन्यापेक्शया सर्व उत्तमाधमाः। तस्मात्त्वमहमेव धनवानिति न मन्येः किन्त्वतिथिभ्यो धनानि ददस्वेत्यर्थः॥८॥

10.117.9 समानपद
स॒मौ चि॒द्धस्तौ॒ न स॒मं वि᳚विष्टः सम्मा॒तरा᳚ चि॒न्न स॒मं दु᳚हाते ।
य॒मयो᳚श्चि॒न्न स॒मा वी॒र्या᳚णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ᳚णीतः ॥
▶ पदपाठः (Word-by-word)
स॒मौ । चि॒त् । हस्तौ᳚ । न । स॒मम् । वि॒वि॒ष्टः॒ । स॒म्॑मा॒तरा᳚ । चि॒त् । न । स॒मम् । दु॒हा॒ते॒ इति᳚ ।
य॒मयोः᳚ । चि॒त् । न । स॒मा । वी॒र्या᳚णि । ज्ञा॒ती इति᳚ । चि॒त् । सन्तौ᳚ । न । स॒मम् । पृ॒णी॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अतिथिभ्यो धनमप्रयच्छन्नपि मम भ्राता दास्यतिति चेत् तत्र हेतुमाह। समौ चिद्धस्तौ समावपि समं समानं न विविष्टः। कार्यं न व्याप्नुतः। विष्लैव्याप्तौ जौहोत्यादिकः। संज्ञापूर्वकस्य विधेरनित्यत्वादभ्यासस्य गुणाभावः। तथा संमातरा वत्सस्य मातरौ धेनू समे अपि समं समानं पयो न दुहाते। यमयोश्चित् सहजातयोः पुत्रओरपि समा समानि वीर्याणि न सन्ति। तस्माज्ज्ञातीचिदेकस्मिन्कुले सन्तौ जातावपि समं न पृणीतः। न प्रयच्छतः। तस्माद्यस्य धनमस्ति स एव दद्यादित्यर्थः॥९॥