स॒मौ चि॒द्धस्तौ॒ न स॒मं वि᳚विष्टः सम्मा॒तरा᳚ चि॒न्न स॒मं दु᳚हाते ।
य॒मयो᳚श्चि॒न्न स॒मा वी॒र्या᳚णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ᳚णीतः ॥
य॒मयो᳚श्चि॒न्न स॒मा वी॒र्या᳚णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ᳚णीतः ॥
पदपाठः (Word-by-word)
स॒मौ । चि॒त् । हस्तौ᳚ । न । स॒मम् । वि॒वि॒ष्टः॒ । स॒म्॑मा॒तरा᳚ । चि॒त् । न । स॒मम् । दु॒हा॒ते॒ इति᳚ ।
य॒मयोः᳚ । चि॒त् । न । स॒मा । वी॒र्या᳚णि । ज्ञा॒ती इति᳚ । चि॒त् । सन्तौ᳚ । न । स॒मम् । पृ॒णी॒तः॒ ॥
य॒मयोः᳚ । चि॒त् । न । स॒मा । वी॒र्या᳚णि । ज्ञा॒ती इति᳚ । चि॒त् । सन्तौ᳚ । न । स॒मम् । पृ॒णी॒तः॒ ॥
सायणभाष्यम् (Sayana Commentary)
अतिथिभ्यो धनमप्रयच्छन्नपि मम भ्राता दास्यतिति चेत् तत्र हेतुमाह। समौ चिद्धस्तौ समावपि समं समानं न विविष्टः। कार्यं न व्याप्नुतः। विष्लैव्याप्तौ जौहोत्यादिकः। संज्ञापूर्वकस्य विधेरनित्यत्वादभ्यासस्य गुणाभावः। तथा संमातरा वत्सस्य मातरौ धेनू समे अपि समं समानं पयो न दुहाते। यमयोश्चित् सहजातयोः पुत्रओरपि समा समानि वीर्याणि न सन्ति। तस्माज्ज्ञातीचिदेकस्मिन्कुले सन्तौ जातावपि समं न पृणीतः। न प्रयच्छतः। तस्माद्यस्य धनमस्ति स एव दद्यादित्यर्थः॥९॥