श्रवणम्

10.117.2
य आ॒ध्राय᳚ चकमा॒नाय᳚ पि॒त्वो॑न्न᳚वा॒न्त्सन्र᳚फि॒तायो᳚पज॒ग्मुषे᳚ ।
स्थि॒रं मनः᳚ कृणु॒ते सेव᳚ते पु॒रोतो चि॒त्स म᳚र्डि॒तारं॒ न वि᳚न्दते ॥
▶ पदपाठः (Word-by-word)
यः । आ॒ध्राय᳚ । च॒क॒मा॒नाय᳚ । पि॒त्वः । अन्न᳚॑वान् । सन् । र॒फि॒ताय᳚ । उ॒प॒॑ज॒ग्मुषे᳚ ।
स्थि॒रम् । मनः᳚ । कृ॒णु॒ते । सेव᳚ते । पु॒रा । उ॒तो इति᳚ । चि॒त् । सः । म॒र्डि॒तार᳚म् । न । वि॒न्द॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पुरुषः स्वयमन्नवानप्याध्राय। आधार्यतेऽसावित्याध्रो दुर्बलः। तस्मै पित्वः पितूनन्नानि चकमानाय। चकमानः कान्तिकर्मा। रफिताय। रफतिर्हिंसार्थः। दारिद्र्येण हिंसितायोपजग्मुषे ग्रुहम् प्रत्यागतायातिशयेन मन आत्मीयमन्तः करणमदाने स्थिरं कृणुते कुरुते। मनः स्थैर्यकरणेन तं क्लेशयतीत्यर्थः। कृणुते। क्रुवि हिंसाकरणयोः। धन्विक्रुण्व्योरच्चेत्युप्रत्ययः। करोतेर्वाव्यत्ययेन श्नुः। विकरणस्वरः सति शिष्तोपि लसार्वधातुकस्वरं न बाधते। म. ६-१-१५८-११। इति लसार्वधातुकस्वरः। न केवलम् क्लेशकरणं अपि तु पुरा तस्य पुरस्तादेव सेवते भोगान्। सोऽपि मर्डितारमात्मनः सुखयितारं न विन्दते। न कुत्रापि लभते॥२॥