श्रवणम्

10.117.3
स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न᳚कामाय॒ चर᳚ते कृ॒शाय᳚ ।
अर᳚मस्मै भवति॒ याम᳚हूता उ॒ताप॒रीषु᳚ कृणुते॒ सखा᳚यम् ॥
▶ पदपाठः (Word-by-word)
सः । इत् । भो॒जः । यः । गृ॒हवे᳚ । ददा᳚ति । अन्न᳚॑कामाय । चर᳚ते । कृ॒शाय᳚ ।
अर᳚म् । अ॒स्मै॒ । भ॒व॒ति॒ । याम᳚॑हूतौ । उ॒त । अ॒प॒रीषु᳚ । कृ॒णु॒ते॒ । सखा᳚यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्वयमुखेन प्रशम्सति। स इत् स एव भोजो दाता खलु यो गृहवे। ग्रहेर्मृगय्वादित्वात्। उ. १-३८। कुप्रत्ययः। प्रतिग्रहीत्रेऽन्नकामायान्नं याचमानाय चरते गृहमागतवते कृशाय दारिद्र्येणैतादृशायातिथयेऽन्नं ददाति प्रयच्छति। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। यामहूतौ। यामा गन्तारो देवाः। अत्र यातेरर्तिस्तुसुहुसृ। उ. १-१३९। इत्यादिना मन्प्रत्ययः। त आहू यन्तेऽत्रेति यामहूतिर्यज्ञः। तस्मिन्नस्मैदात्रे फलमरमलं पर्याप्तं भवति। कामप्रदानं भवतीत्यर्थः। उतापि चापरीशु। केवलमामकेति ङीप्। पा. ४-१-३०। अन्यासु शात्रवीषु सेनासु सखायं कृणुते। तद्वदाचरतीत्यर्थः। तस्य सर्वे सखाय एव न शत्रव इत्यर्थः॥३॥