नार्य॒मणं॒ पुष्य᳚ति॒ नो सखा᳚यं॒ केव᳚लाघो भवति केवला॒दी ॥
पदपाठः (Word-by-word)
न । अ॒र्य॒मण᳚म् । पुष्य᳚ति । नो इति᳚ । सखा᳚यम् । केव᳚ल॑अघः । भ॒व॒ति॒ । के॒व॒ल॒॑आ॒दी ॥
सायणभाष्यम् (Sayana Commentary)
अदातारम् दूषयति। अप्रचेता अप्रकृष्टज्ञानः दाने चेतो मनो यस्य न भवति समोघं व्यर्थमेवान्नं विन्दते। लभते। विद्लृ लाभे तौदादिकः। शे मुचादीनामिति नुमागमः। इदं सत्यं यथार्थमेवेति ब्रवीमि। ऋषिरहं वदामि। न केवलं व्यर्थं किन्तु तस्य पुरुषस्य स वध इद्वध एवान्नं परामृशतः। तच्छब्दस्य वधसामानाधिकरण्यात्पुल्लिङ्गता। यथा णेरणावित्यत्र। पा. १-३-६७। यत्कर्म स एव कर्तेति। अथवा स निरर्थको वध एव यः पुरुषोऽर्यमणम् । उपलक्षणमिदम्। सर्वान्देवानर्यमादीन्न पुष्यति हविष्प्रदानेन न पोषयति नो नापि सखायं समानख्यानमभ्यागतमतिथिं मित्रवर्गं च न पोषयति। पुष पुष्टौ दैवादिकः। यच्छब्दाध्याहारादनिघातः। अत एव केवलादी। अदेः सुप्यजातौ। पा. ३-२-७८। इति णिनिः। अत उपधालक्शणावृद्धिः। केवलमसाक्षिकमन्नं भुञ्जानः स केवलाघो भवति। केवलपापवान्भवति। अघमेव केवलं तस्य शिष्यते। ऐहिकामुश्मिकमिति । तस्माद्यथाकथञ्चिद्दातव्य मित्यभिप्रायः॥६॥