दशमं मण्डलम् - सूक्तम् 124

9 ऋचः

ऋषिः: अग्निवरुणसोमानां निहवः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.124 - सम्पूर्णम्

1 / 9
ऋक्: 10.124.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
10.124.1
इ॒मं नो᳚ अग्न॒ उप᳚ य॒ज्ञमेहि॒ पञ्च᳚यामं त्रि॒वृतं᳚ स॒प्तत᳚न्तुम् ।
असो᳚ हव्य॒वाळु॒त नः᳚ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश᳚यिष्ठाः ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । नः॒ । अ॒ग्ने॒ । उप᳚ । य॒ज्ञम् । आ । इ॒हि॒ । पञ्च᳚॑यामम् । त्रि॒॑वृत᳚म् । स॒प्त॑त᳚न्तुम् ।
असः᳚ । ह॒व्य॒॑वाट् । उ॒त । नः॒ । पु॒रः॒॑गाः । ज्योक् । ए॒व । दी॒र्घम् । तमः᳚ । आ । अ॒श॒यि॒ष्ठाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमं नो अग्न इति नवर्चं द्वादशं सूक्तम्। द्वितीयाध्याभिस्तिसृभिरग्निऋषिर्भूत्वा स्वात्मानं देवतारूपिणमस्तौत्। अतस्तासां स एवर्षिर्देवता च। शिष्टाभिरग्निवरुणसोमा अस्तुवन्। अतस्तासां षण्णां ते ऋषयः। आद्याग्नेयी। नवमीं द्रदेवत्या। शिष्टासु चतसृषु लिङ्गोक्तदेवता। सप्तमी जगती शिष्टास्त्रिष्टुभः। तथाचानुक्रान्तम्। इमं नो नवैन्द्र्युत्तमा निहवोऽग्निवरुणसोमानामाद्याग्नेयी तिस्रश्चाग्नेरात्मस्तवः शिष्टा यथानिपातं सप्तमी जगतीति। गतो विनियोगः॥

भ्रातृषु हविर्वहनेषु मृतेषु मरणभीत्या कृतपलायनं गुहायां निगूढमग्निमग्न्याद्याः सूक्तद्रष्टार ऋषयोऽनयाह्वयन्। हे अग्ने नोस्माकमिमं यज्ञमुपेहि। उपागच्छ। प्राप्नुहि। मा पलायिष्थाः। कीदृशम् । पञ्चयामं यजमानपञ्चमैरृत्विग्भिर्नियमितम्। यद्वा। धानाकरम्भादिभिः पञ्चभिर्हविर्भिः पञ्चभिः प्रयाजैर्वा प्राप्तम्। त्रिवृतं पाकयज्ञहविर्यज्ञसोमयज्ञभेदेन सवनत्रयात्मना वा त्रिगुणं सप्ततन्तुम् सप्त तन्तनस्तनितरः कर्मणां विस्तारयितारो होत्राद्याः सप्त वषट्कर्तारो यस्य। यद्वा। अग्निष्तोमोऽत्यग्निष्टोम उक्थ्यः षोळशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्तधा विस्तीर्यमाणम् । ईदृशं यज्ञमुपगत्य चानन्तरं नोऽस्माकं हव्यवाड्धव्यानां हविषं वोढासः। भव॥ अस्तेर्लेट्यडागमः। उतापि च नोऽस्माकं पुरोगाः पुरतो गन्ता भव। जनसनखनक्रमगमो विट्। विड्वरोरनुनासिकस्यादित्यात्वम्। ज्योक् चिरकालमेवास्मान्परित्यज्य दीर्घं तमो महदन्धकारं गुहायामाशयिष्ठाः। आस्थाय शयनमकार्षीः। इतअ ऊर्ध्वं तस्मात्स्त्थानादस्मानागच्छेत्यर्थः॥१॥

10.124.2
अदे᳚वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य᳚मानो अमृत॒त्वमे᳚मि ।
शि॒वं यत्सन्त॒मशि᳚वो॒ जहा᳚मि॒ स्वात्स॒ख्यादर᳚णीं॒ नाभि᳚मेमि ॥
▶ पदपाठः (Word-by-word)
अदे᳚वात् । दे॒वः । प्र॒॑चता᳚ । गुहा᳚ । यन् । प्र॒॑पश्य᳚मानः । अ॒मृ॒त॒॑त्वम् । ए॒मि॒ ।
शि॒वम् । यत् । सन्त᳚म् । अशि᳚वः । जहा᳚मि । स्वात् । स॒ख्यात् । अर᳚णीम् । नाभि᳚म् । ए॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदेवाददेवनशीलाद्गुहा गुहायां वर्तमानात्। सुपां सुलुगिति सप्तम्यालुक्। प्रचता देवानां प्रयाचनेन हेतुना यन् निर्गच्छन् देवो देवनशीलोऽहं प्रपश्यमानो दैवैर्मदर्थं कल्पितं प्रयाजानुयाजादिलक्षणं हविर्भागं प्रपश्यमानो निरीक्षमाणः सन्नम्रुतत्वमेमि। मरणधर्मराहित्यं देवत्वं प्राप्नोमि। दृशेर्व्यत्ययेनात्मनेपदम्। हविर्वहनाध्भीतः पलायितोऽबादिषु स्थानेषु निगूढः पुर्नर्देवैर्हविर्वहनाय प्रार्थ्यमानस्तैर्दत्तेन हैव्शाहं देवत्वं प्राप्तवानस्मीत्यर्थः। यद्यप्यहं गुहातो निर्गत्य प्रकाशमानः सञ्योभवनं यज्ञम् निर्वर्तयामि तथापि शिवं शोभनं सन्तं भवन्तं यज्ञमशिवोऽशोभनरूपोऽप्रकाशमानः सन् यद्यस्मिन्समाप्तिकाले जहामि परित्यजामि तदानीं नाभिं नहनशीलां बन्धनशीलामरणिमश्वत्थमेव स्वात्सख्यादात्मीयात्सखित्वाच्चिरकालमश्वरूपोऽहं तत्र न्यवात्समिति स्नेहवशादेमि। प्राप्नोमि॥२॥

10.124.3
पश्य᳚न्न॒न्यस्या॒ अति᳚थिं व॒याया᳚ ऋ॒तस्य॒ धाम॒ वि मि᳚मे पु॒रूणि᳚ ।
शंसा᳚मि पि॒त्रे असु᳚राय॒ शेव᳚मयज्ञि॒याद्य॒ज्ञियं᳚ भा॒गमे᳚मि ॥
▶ पदपाठः (Word-by-word)
पश्य᳚न् । अ॒न्यस्याः᳚ । अति᳚थिम् । व॒यायाः᳚ । ऋ॒तस्य᳚ । धाम᳚ । वि । मि॒मे॒ । पु॒रूणि᳚ ।
शंसा᳚मि । पि॒त्रे । असु᳚राय । शेव᳚म् । अ॒य॒ज्ञि॒यात् । य॒ज्ञिय᳚म् । भा॒गम् । ए॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मम स्थानभूता या पृथिवी ततोऽन्यस्या वयाया गन्तव्याया दिवः सम्बन्धिनमतिथिं सततगामिनं सूर्यं पश्यञ्जानन् सूर्यस्य गतिमनुसृत्य वसन्तादिकाल ऋतस्य यज्ञस्य धाम धामानि शरीराणि पुरूणि बहूनि वि मिमे। निर्ममे। निष्पादयामि। ततः पित्रे पितृभूताय द्युलोकवर्तिने देवजनायासुराय शत्रुक्षेपणकुशलाय शेवं सुखमुद्दिश्य होता भूत्वाहमुक्थानि शंसामि। यत एवं तस्मात्कारणादयज्ञियाद्यज्ञानर्हात्प्रदेशान्निर्गत्य यज्ञियं यज्ञार्हं वेदिलक्षनं भूभाग्गं हविर्लक्षणं वैमि। प्राप्नोमि। यज्ञशब्दादर्हार्थे यज्ञर्त्विग्भ्यां घखञाविति घप्रत्ययः॥३॥

10.124.4
ब॒ह्वीः समा᳚ अकरम॒न्तर᳚स्मि॒न्निन्द्रं᳚ वृणा॒नः पि॒तरं᳚ जहामि ।
अ॒ग्निः सोमो॒ वरु᳚ण॒स्ते च्य᳚वन्ते प॒र्याव᳚र्द्रा॒ष्ट्रं तद᳚वाम्या॒यन् ॥
▶ पदपाठः (Word-by-word)
ब॒ह्वीः । समाः᳚ । अ॒क॒र॒म् । अ॒न्तः । अ॒स्मि॒न् । इन्द्र᳚म् । वृ॒णा॒नः । पि॒तर᳚म् । ज॒हा॒मि॒ ।
अ॒ग्निः । सोमः᳚ । वरु᳚णः । ते । च्य॒व॒न्ते॒ । प॒रि॒॑आव᳚र्त् । रा॒ष्ट्रम् । तत् । अ॒वा॒मि॒ । आ॒॑यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मिन्वेदिलक्षणस्थाने बह्वीः समाः सम्वत्त्सरानकरम्। अकार्षम्। चिरकालं न्यवात्सम्। तत्रेन्द्रं वृणानः सम्भजमानः पितरमुत्पादकमरण्यात्मकं जहामि। परित्यजामि। यदा त्वहं देवेभ्यो निर्गत्य गुहायाम् निगूढः तदा ते देवा अग्निः सोमो वरुणश्च च्यवन्ते। राष्ट्रात्प्रच्युता अभवन्। एकस्याप्यग्नेर्हविर्वोढृत्वरूपेण देवतात्मना च पृथक्त्वात्परोक्शनिर्देशः। आयन् पुनरागच्छन्नहं यद्राष्ट्रमुसुरैरपहृतं पर्यावर्त् पर्यावर्तमानम् मदभिमुखं पुनरावर्तमानं तद्राष्ट्रं राज्यं यज्ञभूमिमवामि। असुरेभ्यो रक्शामि। पर्यावर्त्। उपसृष्ताद्वृतेरन्येभ्योऽपि दृश्यन्त इति विच्। रात्सस्येति नियमात्संयोगान्तस्येति लोपाभावः॥४॥

10.124.5
निर्मा᳚या उ॒ त्ये असु᳚रा अभूव॒न्त्वं च᳚ मा वरुण का॒मया᳚से ।
ऋ॒तेन᳚ राज॒न्ननृ᳚तं विवि॒ञ्चन्मम᳚ रा॒ष्ट्रस्याधि᳚पत्य॒मेहि᳚ ॥
▶ पदपाठः (Word-by-word)
निः॑मा᳚याः । ऊं॒ इति᳚ । त्ये । असु᳚राः । अ॒भू॒व॒न् । त्वम् । च॒ । मा॒ । व॒रु॒ण॒ । का॒मया᳚से ।
ऋ॒तेन᳚ । रा॒ज॒न् । अनृ᳚तम् । वि॒॑वि॒ञ्चन् । मम᳚ । रा॒ष्ट्रस्य᳚ । अधि᳚॑पत्यम् । आ । इ॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्ये तेऽसुरा मय्यग्नावागते सति निर्माया मायारहिता अभूवन्। आसुर्यः सर्वा माया मया दग्धा आसन्नित्यर्थः। हे वरुन त्वं च। अयं च शब्दश्चेदर्थे वर्तमानश्चणिति निपातान्तरम्। अनेन युक्तत्वात्कामयास इति तिङ्विभक्तेर्निपातैय्यद्यदिहन्तेति निघातप्रतिषेधः। पा. ८-१-३०। हे वरुण त्वं चेन्मा कामयासे मां कामयेथाः तर्हि हे राजन्नीश्वर ऋतेन सत्येनास्यदीयेन कर्मणानृतमसत्यभूतं मायामयमासुरं चरित्रं विविञ्चन् पृथक्कुर्वन्नपसारयन् मम राष्ट्रस्य मया यत्साधितं राज्यं तस्याधिपत्यमधिपतित्वमीश्वरत्वमेहि। प्राप्नुहि॥५॥

10.124.6
इ॒दं स्व᳚रि॒दमिदा᳚स वा॒मम॒यं प्र᳚का॒श उ॒र्व१॒᳚न्तरि᳚क्षम् ।
हना᳚व वृ॒त्रं नि॒रेहि᳚ सोम ह॒विष्ट्वा॒ सन्तं᳚ ह॒विषा᳚ यजाम ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । स्वः᳚ । इ॒दम् । इत् । आ॒स॒ । वा॒मम् । अ॒यम् । प्र॒॑का॒शः । उ॒रु । अ॒न्तरि᳚क्षम् ।
हना᳚व । वृ॒त्रम् । निः॒॑एहि᳚ । सो॒म॒ । ह॒विः । त्वा॒ । सन्त᳚म् । ह॒विषा᳚ । य॒जा॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमृगग्नेर्वरुणस्य वा वाक्यम् । हे सोम इदं स्वरयं द्युलोकः यद्वायं शोभनारणः सूर्य इदमिदिदमेव वामं वननीयमास। बभूव। इदंशब्देन प्रकृतं स्वः परामृश्यते। अयं च प्रकाशः प्रकाशस्याधारभूत उरु विस्तीर्णमिदमन्तरिक्षं हे सोम एतत्सर्वं पश्य। अत एवास्मिन्समय आवां व्रुत्रं हनाव। हिनसाव। तदर्थं निरेहि। निष्क्रम्यागच्छ। हविः सन्तं लतारूपेण हविर्भवन्तं देवतात्मानं त्वां हविषा चरुपुरोडाशादिना वयं यजाम॥६॥

10.124.7
क॒विः क᳚वि॒त्वा दि॒वि रू॒पमास᳚ज॒दप्र᳚भूती॒ वरु᳚णो॒ निर॒पः सृ᳚जत् ।
क्षेमं᳚ कृण्वा॒ना जन᳚यो॒ न सिन्ध᳚व॒स्ता अ᳚स्य॒ वर्णं॒ शुच᳚यो भरिभ्रति ॥
▶ पदपाठः (Word-by-word)
क॒विः । क॒वि॒॑त्वा । दि॒वि । रू॒पम् । आ । अ॒स॒ज॒त् । अप्र᳚॑भूती । वरु᳚णः । निः । अ॒पः । सृ॒ज॒त् ।
क्षेम᳚म् । कृ॒ण्वा॒नाः । जन᳚यः । न । सिन्ध᳚वः । ताः । अ॒स्य॒ । वर्ण᳚म् । शुच᳚यः । भ॒रि॒भ्र॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविः क्रान्तदर्शी मित्रः कवित्वा कवित्वेन। सुपां सुलुगिति तृतीयाया आकारः। क्रान्तदर्शनेन दिवि द्युलोके रूपमात्मियं तेज आसजत्। आसक्तं करोति। षन्ज सङ्गे। अस्माल्लङि शपि दंशसञ्जष्वञ्जां शपि। पा. ६-४-२५। इति नलोपः। अप्रभूत्य प्रभूत्या। सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घः। अप्रभुष्णुनाल्पेनैव यत्नेन वरुणो मेघादपो निः सृजत्। निरगमयत्। वरुणेन विसृष्टास्ता आपह् सिन्धवः स्यन्दनशीला नद्यो भूत्वा जनयो न जाया इव यथा जायाः पत्युः क्षेमकारिण्यो भवन्ति तथा क्शेमं कुर्वाणा जगतो रक्षणं कुर्वाणाः शुचयः शुद्धा दीप्यमाना वास्य वरुणस्य वर्णं शुक्लं भास्वररूपं भरिभ्रति। भृशं बिभ्रति धारयन्ति। वाधर्त्यादिसूत्रे भरिभ्रदिति निपातनाद्बिभर्तेर्यङ्लुक्यभ्यासस्य जश्त्वाभावः॥७॥

10.124.8
ता अ᳚स्य॒ ज्येष्ठ᳚मिन्द्रि॒यं स᳚चन्ते॒ ता ई॒मा क्षे᳚ति स्व॒धया॒ मद᳚न्तीः ।
ता ईं॒ विशो॒ न राजा᳚नं वृणा॒ना बी᳚भ॒त्सुवो॒ अप᳚ वृ॒त्राद᳚तिष्ठन् ॥
▶ पदपाठः (Word-by-word)
ताः । अ॒स्य॒ । ज्येष्ठ᳚म् । इ॒न्द्रि॒यम् । स॒च॒न्ते॒ । ताः । ई॒म् । आ । क्षे॒ति॒ । स्व॒धया᳚ । मद᳚न्तीः ।
ताः । ई॒म् । विशः᳚ । न । राजा᳚नम् । वृ॒णा॒नाः । बी॒भ॒त्सुवः᳚ । अप᳚ । वृ॒त्रात् । अ॒ति॒ष्ठ॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ताः पूर्वोक्ता वृष्टा आपोऽस्य वरुणस्य ज्येष्ठं वृद्धतममिन्द्रियं वीर्यं सचन्ते। समवयन्ति। सम्भजन्ते। धारयन्तीत्यर्थः। आपो वरुणस्य पत्न्य आसन्निति श्रुतेः। स्वधया। अन्ननामैतत्। हविर्लक्षनेनान्नेन मदन्तीर्माद्यन्तिः। यद्वा। व्रीह्याद्युत्पादनद्वारेण हविषा मादयन्तीः। ता अप ईमयं वरुण आक्षेति। अभिगच्छति। क्षि निवासगत्योः। छान्दसो विकरणस्य लुक्। ताश्चेमेनं वरुणं विशो न विशः प्रजा यथा राजानं स्वामिनं सम्भजन्ते तथा वृणानाः सम्भजमाना बीभत्सुवो भयेन कम्पमानाः । यद्वा। बद्धा वृत्रेणावृताः सत्यः। तस्मिन्हते सति तस्माद्वृत्रादपातिष्ठन्। अपक्रम्य तत्र तत्रावतिष्ठन्ते। बध बन्धन इत्यस्माद्धातोर्मान्बधदान्यान्भ्यः। पा. ३-१-६। इति सन् अभ्यासस्य च दीर्घः। सनाशंसभिक्ष उरित्युप्रत्ययः। जसि च्छान्दस उवङादेशः॥८॥

10.124.9 समानपद
बी॒भ॒त्सूनां᳚ स॒युजं᳚ हं॒समा᳚हुर॒पां दि॒व्यानां᳚ स॒ख्ये चर᳚न्तम् ।
अ॒नु॒ष्टुभ॒मनु᳚ चर्चू॒र्यमा᳚ण॒मिन्द्रं॒ नि चि᳚क्युः क॒वयो᳚ मनी॒षा ॥
▶ पदपाठः (Word-by-word)
बी॒भ॒त्सूना᳚म् । स॒॑युज᳚म् । हं॒सम् । आ॒हुः॒ । अ॒पाम् । दि॒व्याना᳚म् । स॒ख्ये । चर᳚न्तम् ।
अ॒नु॒॑स्तुभ᳚म् । अनु᳚ । च॒र्चू॒र्यमा᳚णम् । इन्द्र᳚म् । नि । चि॒क्युः॒ । क॒वयः᳚ । म॒नी॒षा ॥
▶ सायणभाष्यम् (Sayana Commentary)

बीभत्सूनां कम्पमानावयवानां यद्वा मेघेन बद्धानाम् । हन्ति गच्छतीति हंसः सूर्यः। तं सयुजं सखायमाहुः। ब्रह्मवादिनः कथयन्ति। एतदेवाह। दिव्यानां दिवि भवानामान्तरिक्षाणामपां सख्ये सखित्वे चतन्तं वर्तमानम् । अनुष्टुभमनुष्तोभनीयं स्तोतव्यम् । यद्वा। अनुष्टुप्शब्देन तत्सम्बद्धो यागः स्तुतिर्वा लक्ष्यते। अनुष्टुप्सम्बद्धं यागमनुष्टुप्छन्दसा युक्तं स्तुतिविशेषं वा। अनुलक्ष्य चर्चूर्यमाणं पुनः पुनश्चरन्तं गच्छन्तम्। चरतेर्यङ्युत्परस्यातः। पा. ७-४-८८। इत्यभ्यासादुत्तरस्याकारस्योत्वम् । चरफलोश्च। पा. ७-४-८७। इति नुकि प्राप्ते व्यत्ययेनाभ्यासस्य रुगागमः। एवं गुणविशिष्टमिन्द्रं कवयः क्रान्तदर्शिन ऋषयो मनीषा मनीषया स्तुत्या नि चिक्युः। पूजयन्ति। यद्वा। मनीशा बुद्ध्या नि चिक्युः। जानन्ति। मनीषाशब्दात्त्तृतीयायाः सुपां सुलुगिति लुक्। चायृ पूजनिशामनयोरित्यस्माच्छान्दसे लिटि चायः की। पा. ६-१-३५। इति प्रकृतेः कीभावः। एरनेकाच इति यण्॥९॥