श्रवणम्

10.124.8
ता अ᳚स्य॒ ज्येष्ठ᳚मिन्द्रि॒यं स᳚चन्ते॒ ता ई॒मा क्षे᳚ति स्व॒धया॒ मद᳚न्तीः ।
ता ईं॒ विशो॒ न राजा᳚नं वृणा॒ना बी᳚भ॒त्सुवो॒ अप᳚ वृ॒त्राद᳚तिष्ठन् ॥
▶ पदपाठः (Word-by-word)
ताः । अ॒स्य॒ । ज्येष्ठ᳚म् । इ॒न्द्रि॒यम् । स॒च॒न्ते॒ । ताः । ई॒म् । आ । क्षे॒ति॒ । स्व॒धया᳚ । मद᳚न्तीः ।
ताः । ई॒म् । विशः᳚ । न । राजा᳚नम् । वृ॒णा॒नाः । बी॒भ॒त्सुवः᳚ । अप᳚ । वृ॒त्रात् । अ॒ति॒ष्ठ॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ताः पूर्वोक्ता वृष्टा आपोऽस्य वरुणस्य ज्येष्ठं वृद्धतममिन्द्रियं वीर्यं सचन्ते। समवयन्ति। सम्भजन्ते। धारयन्तीत्यर्थः। आपो वरुणस्य पत्न्य आसन्निति श्रुतेः। स्वधया। अन्ननामैतत्। हविर्लक्षनेनान्नेन मदन्तीर्माद्यन्तिः। यद्वा। व्रीह्याद्युत्पादनद्वारेण हविषा मादयन्तीः। ता अप ईमयं वरुण आक्षेति। अभिगच्छति। क्षि निवासगत्योः। छान्दसो विकरणस्य लुक्। ताश्चेमेनं वरुणं विशो न विशः प्रजा यथा राजानं स्वामिनं सम्भजन्ते तथा वृणानाः सम्भजमाना बीभत्सुवो भयेन कम्पमानाः । यद्वा। बद्धा वृत्रेणावृताः सत्यः। तस्मिन्हते सति तस्माद्वृत्रादपातिष्ठन्। अपक्रम्य तत्र तत्रावतिष्ठन्ते। बध बन्धन इत्यस्माद्धातोर्मान्बधदान्यान्भ्यः। पा. ३-१-६। इति सन् अभ्यासस्य च दीर्घः। सनाशंसभिक्ष उरित्युप्रत्ययः। जसि च्छान्दस उवङादेशः॥८॥