श्रवणम्

10.124.6
इ॒दं स्व᳚रि॒दमिदा᳚स वा॒मम॒यं प्र᳚का॒श उ॒र्व१॒᳚न्तरि᳚क्षम् ।
हना᳚व वृ॒त्रं नि॒रेहि᳚ सोम ह॒विष्ट्वा॒ सन्तं᳚ ह॒विषा᳚ यजाम ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । स्वः᳚ । इ॒दम् । इत् । आ॒स॒ । वा॒मम् । अ॒यम् । प्र॒॑का॒शः । उ॒रु । अ॒न्तरि᳚क्षम् ।
हना᳚व । वृ॒त्रम् । निः॒॑एहि᳚ । सो॒म॒ । ह॒विः । त्वा॒ । सन्त᳚म् । ह॒विषा᳚ । य॒जा॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमृगग्नेर्वरुणस्य वा वाक्यम् । हे सोम इदं स्वरयं द्युलोकः यद्वायं शोभनारणः सूर्य इदमिदिदमेव वामं वननीयमास। बभूव। इदंशब्देन प्रकृतं स्वः परामृश्यते। अयं च प्रकाशः प्रकाशस्याधारभूत उरु विस्तीर्णमिदमन्तरिक्षं हे सोम एतत्सर्वं पश्य। अत एवास्मिन्समय आवां व्रुत्रं हनाव। हिनसाव। तदर्थं निरेहि। निष्क्रम्यागच्छ। हविः सन्तं लतारूपेण हविर्भवन्तं देवतात्मानं त्वां हविषा चरुपुरोडाशादिना वयं यजाम॥६॥