दशमं मण्डलम् - सूक्तम् 131

7 ऋचः

ऋषिः: सुकीर्तिः काक्षीवतः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.131 - सम्पूर्णम्

1 / 7
ऋक्: 10.131.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.131.1
अप॒ प्राच᳚ इन्द्र॒ विश्वा{4}᳚ अ॒मित्रा॒नपापा᳚चो अभिभूते नुदस्व ।
अपोदी᳚चो॒ अप᳚ शूराध॒राच᳚ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे᳚म ॥
▶ पदपाठः (Word-by-word)
अप᳚ । प्राचः᳚ । इ॒न्द्र॒ । विश्वा᳚न् । अ॒मित्रा᳚न् । अप᳚ । अपा᳚चः । अ॒भि॒॑भू॒ते॒ । नु॒द॒स्व॒ ।
अप᳚ । उदी᳚चः । अप᳚ । शू॒र॒ । अ॒ध॒राचः᳚ । उ॒रौ । यथा᳚ । तव᳚ । शर्म᳚न् । मदे᳚म ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप प्राच इति सप्तर्चं तृतीयं सूक्तं कक्षीवतः पुत्रस्य सुकीर्तेरार्षम्। चतुर्थ्यनुष्टुप् शिष्टाः षट् त्रिष्टुभः। चतुर्थी पञ्चम्यावश्विदेवत्ये शिष्टा ऐन्द्र्यः। तथाचानुक्रान्तम्। अप प्राचः सुकीर्तिः काक्षीवतो मध्येऽनुष्टुप्सोत्तरा चाश्विन्याविति। षष्ठेऽहनि ब्राह्मणाच्छंसिन उक्थशस्त्र एतत्सूक्तम्। सूत्रितं च। सुकीर्तिं ब्राह्मणाच्छंसी वृषाकपिं च पङ्क्तिशंसम्। आ. ८-४-। इति। चातुर्विंशिकेऽहनि माध्यन्दिने सवने मैत्रावरुणस्याप प्राच इत्येषारम्भणीया कद्वत्प्रगाथानन्रतं शंसनीया। सूत्रितं च। क्द्वन्तः प्रगाथा अप प्राच इन्द्र विश्वा अमित्रान्। आ. ७-४। इति। अहर्गणेष्वपि द्वितीयादिष्वहःसु तस्यैव तस्मिन्नेव शस्त्र आरम्भणीया। सूत्रितं च। आरम्भणीयाः पर्यासान्कद्वतोऽहरहः शस्यानीति होत्रका द्वितीयादिष्वेव। आ. ७-१। इति॥

हे इन्द्र प्राचः प्रमुखमञ्चतः प्राग्देशे वर्तमानान्। अस्मत्तः पूर्वभागे वर्तमानानित्यर्थः। प्रपूर्वादञ्चतेऋत्विगित्यादिना क्विन्। अनिदितामित्शिनलोपः। शस्य च इत्यकारलोपे चाविति दीर्घत्वम्। अनिगन्तोऽञ्चतौ वप्रत्यये। पा. ६-२-५२। इति गतेः प्रकृतिस्वरत्वम्। तादृशान्विश्वान्सर्वानमित्राञ्शत्रूनप नुदस्व। अस्मत्तोऽपगमय। तथा हे अभिभुते शत्रूणामभिभवितरिन्द्र अपाचोऽपमुखमञ्चतः पृष्थभागे वर्तमानान्सर्वाञ्शत्रूनप नुदस्व। अपि चोदीच ऊर्ध्वमञ्चत उपरिवर्तमानान्। उत्पूर्वादञ्चतेः पूर्ववत्क्विन्युद ईदित्यञ्चतेरकारस्येकारः। पूर्ववत्स्वरः। तथाविधानपि शत्रूनप नुदस्व। तथा हे शूर शौर्यवन्निन्द्र अधराचोऽधरदेशमधोभागमञ्चतश्चाधस्तनानपि शत्रूनप नुदस्व। अधरशब्दोपपदादञ्चतेः शसि पूर्ववत्प्रक्रिया। चाविति पूर्वपदस्यान्तोदात्तः। उरौ विस्तीर्णे तव सम्बन्धिनि त्वया दत्ते शर्मञ्शर्मणि गृहे सुखे वा यथा वयं मदेम निरुपद्रवाः सन्तो हृष्येम तथा त्वं सर्वत्र वर्तमानानस्मदीयाञ्शत्रून्विनाशयेत्यर्थः॥१॥

10.131.2 समानपद
कु॒विद॒ङ्ग यव᳚मन्तो॒ यवं᳚ चि॒द्यथा॒ दान्त्य᳚नुपू॒र्वं वि॒यूय᳚ ।
इ॒हेहै᳚षां कृणुहि॒ भोज᳚नानि॒ ये ब॒र्हिषो॒ नमो᳚वृक्तिं॒ न ज॒ग्मुः ॥
▶ पदपाठः (Word-by-word)
कु॒वित् । अ॒ङ्ग । यव᳚॑मन्तः । यव᳚म् । चि॒त् । यथा᳚ । दान्ति᳚ । अ॒नु॒॑पू॒र्वम् । वि॒॑यूय᳚ ।
इ॒ह॑इ᳚ह । ए॒षा॒म् । कृ॒णु॒हि॒ । भोज᳚नानि । ये । ब॒र्हिषः᳚ । नमः᳚॑वृक्तिम् । न । ज॒ग्मुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्ग हे इन्द्र यमवन्तो यवादिधान्ययुक्ताः कर्षका यवं चित्। उपलक्षणमेतत्। यवगोधूमादीननुपूर्वं यो यो धान्यविशेशः प्रथमम् पच्यते तेनानुपूर्व्येण वियूय पृथक्कृत्य यथा कुविद्बहुलं दान्ति लुनन्ति। दाप् लवने आदादिकः। विपूर्वाद्यौतेर्ल्यपि युप्लुवोर्दीर्घश्छन्दसि। पा. ६-४-५८। इति दीर्घः। एवमिहेहास्मिन्नस्मिन्देशे सर्वस्मिन्नेषां यजमानानां भोजनानि। धननामैतत्। भोगसाधनानि धनानि कृणुहि। कुरु। यस्मिन्यस्मिन्देशे यद्धनमपेक्शितं तदनुगुणं प्रयच्छेत्यर्थः। उतश्च प्रत्ययाच्छन्दसि वावचनम्। पा. ६-४-१-६-१। इति हेर्लुगभावः। एषामित्युक्तं के पुनरिम इत्यत आह। ये यजमाना बर्हिषो यज्ञस्य नमोव्रुक्तिं नमसो हविर्लक्षणस्यान्नस्य नमस्कारात्मकस्य स्तोत्रस्य वा वर्जनमकरणं न जग्मुः न प्राप्नुवन्ति किन्तु सर्वदा हविर्भिर्यजन्ति स्तुतिभिः स्तुवन्ति च। एषां कृणुहीत्यन्वयः॥२॥

10.131.3
न॒हि स्थूर्यृ᳚तु॒था या॒तमस्ति॒ नोत श्रवो᳚ विविदे संग॒मेषु᳚ ।
ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚ अश्वा॒यन्तो॒ वृष᳚णं वा॒जय᳚न्तः ॥
▶ पदपाठः (Word-by-word)
न॒हि । स्थूरि᳚ । ऋ॒तु॒॑था । या॒तम् । अस्ति᳚ । न । उ॒त । श्रवः᳚ । वि॒वि॒दे॒ । स॒म्॑ग॒मेषु᳚ ।
ग॒व्यन्तः᳚ । इन्द्र᳚म् । स॒ख्याय᳚ । विप्राः᳚ । अ॒श्व॒॑यन्तः᳚ । वृष᳚णम् । वा॒जय᳚न्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकेन धुर्येण युक्तमनः स्थूरीत्युच्यते। ऋतुथर्तौ यद्यस्मिन्काले प्राप्तव्यम् तद्योग्यकाले स्थूर्यनो यातं तं देशं प्राप्तं नह्यस्ति। न हि भवति। एकेन धुर्येण युक्तः शकटः शीघ्रं गन्तव्यं न प्राप्नोतीत्यर्थः। उतापि च सङ्गमेषु सम्प्रामेषु श्रवोऽन्नं यशो वा न विविदे। न लभते। इन्द्रस्तूक्तविलक्षणः। व्रुषणं वर्षितारं तमिन्द्रं गव्यन्तो गा इच्छन्तो विप्रा मेधाविनो वयं सख्याय सखिकर्मन आह्वयाम इति शेहः कथं भूताः। अश्वायन्तोऽश्वानप्यात्मन इच्छन्तः वाजयन्तोऽन्नकामा बलकामाश्च॥३॥

10.131.4 समानपद
यु॒वं सु॒राम᳚मश्विना॒ नमु᳚चावासु॒रे सचा᳚ ।
वि॒पि॒पा॒ना शु᳚भस्पती॒ इन्द्रं॒ कर्म᳚स्वावतम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । सु॒राम᳚म् । अ॒श्वि॒ना॒ । नमु᳚चौ । आ॒सु॒रे । सचा᳚ ।
वि॒॑पि॒पा॒ना । शु॒भः॒ । प॒ती॒ इति᳚ । इन्द्र᳚म् । कर्म᳚॑सु । आ॒व॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सौत्रामण्यां सुराग्रहाणां पुरोनुवाक्या युवमित्यॆषा। सुत्रितं च। युवं सुराममश्विनेति ग्रहाणां पुरोनुवाक्या। आ. ३-९। इति॥

हे अश्विनाश्विनौ हे शुभस्पती उदकस्य शोभनालङ्कारस्य वा पती पालयितारौ सुरामं सुष्ठु रमणसाधनमिदं हविर्विपिपाना विशेषेण पीतवन्तौ युवं युवां सचा सन्तौ सङ्गतावासुरेऽसुरपुत्रे नमुचावेतत्संज्ञेऽसुरे हन्तव्ये सति कर्मसु योधनकर्मस्विन्द्राअवतम्। अरक्षतम्। विपिपाना। पा पान इत्यस्माल्लिटह् कानच्। बहुलं छन्दसीत्यभ्यासस्येत्वम्। शुभस्पती इति सुबामन्त्रित इति षष्थ्यन्तस्य पाराङ्गवद्भावात्षष्ठ्यामन्त्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम्॥४॥

10.131.5
पु॒त्रमि᳚व पि॒तरा᳚व॒श्विनो॒भेन्द्रा॒वथु॒ः काव्यै᳚र्दं॒सना᳚भिः ।
यत्सु॒रामं॒ व्यपि᳚ब॒ः शची᳚भि॒ः सर᳚स्वती त्वा मघवन्नभिष्णक् ॥
▶ पदपाठः (Word-by-word)
पु॒त्रम्॑इ᳚व । पि॒तरौ᳚ । अ॒श्विना᳚ । उ॒भा । इन्द्र᳚ । आ॒वथुः᳚ । काव्यैः᳚ । दं॒सना᳚भिः ।
यत् । सु॒राम᳚म् । वि । अपि᳚बः । शची᳚भिः । सर᳚स्वती । त्वा॒ । म॒घ॒॑व॒न् । अ॒भि॒ष्ण॒क् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वोक्तानामेव ग्रहाणां पुत्रमिवेति याज्या। सूत्रितं च। पुत्रमिव पितरावश्विनोभेति याज्या। आ. ३-९। इति।

हे इन्द्र त्वां पितरौ माता पितरौ पुत्रमिव। पिता मात्रा। पा. १-२-७०। इति पितुः शेशः। उभोभावश्विनौ काव्यैः प्रशस्यैर्दंसनाभिरात्मीयैः कर्मभिरावथुः। मध्यमो व्यत्ययेन । आवतुः। ररक्षतुः। त्वं च सुरामं सुखेन रमणसाधनं हविर्यद्यदा शचीभिः शक्तिभिः सार्धं व्यपिबः विशेषेण पीतवानसि तदा हे मघवन्धनवन्निन्द्र सरस्वती देवी त्वा त्वामभिष्णक्। उपासेवत। भिष्णक् उपसेवायाम्। कण्ड्वादिः। छान्दसो युगभावः। लङि बहुलं छन्दसीति शपो लुक्। हल् ङ्याब्भ्य इति लोपः॥५॥

10.131.6
इन्द्र᳚ः सु॒त्रामा॒ स्ववा{4}॒ अवो᳚भिः सुमृळी॒को भ᳚वतु वि॒श्ववे᳚दाः ।
बाध᳚तां॒ द्वेषो॒ अभ᳚यं कृणोतु सु॒वीर्य᳚स्य॒ पत᳚यः स्याम ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । सु॒॑त्रामा᳚ । स्व॑वा᳚न् । अवः᳚॑भिः । सु॒॑मृ॒ळी॒कः । भ॒व॒तु॒ । वि॒श्व॑वे᳚दाः ।
बाध᳚ताम् । द्वेषः᳚ । अभ᳚यम् । कृ॒णो॒तु॒ । सु॒॑वीर्य᳚स्य । पत᳚यः । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुत्रामा सुष्ठु त्राता स्ववान्धन्वान् स इन्द्रोऽवोभी रक्शनैः सुमृळीकः सुष्ठु सुखयिता भवतु। तथा च विश्ववेदाः सर्वधनह् सर्वविद्वान्वा स इन्द्रो द्वेषो द्वॆष्टॄन् शत्रून् बाधताम्। हिनस्तु। अभयं भयरहितं चास्माकं क्रुणोतु। करोतु। वयं च तत्प्रसादात्सुवीर्यस्य शोभनवीर्यस्य पतयः स्याम। भवेम॥६॥

10.131.7
तस्य᳚ व॒यं सु᳚म॒तौ य॒ज्ञिय॒स्यापि᳚ भ॒द्रे सौ᳚मन॒से स्या᳚म ।
स सु॒त्रामा॒ स्ववा{4}॒ इन्द्रो᳚ अ॒स्मे आ॒राच्चि॒द्द्वेषः᳚ सनु॒तर्यु᳚योतु ॥
▶ पदपाठः (Word-by-word)
तस्य᳚ । व॒यम् । सु॒॑म॒तौ । य॒ज्ञिय᳚स्य । अपि᳚ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ।
सः । सु॒त्रामा᳚ । स्व॑वा᳚न् । इन्द्रः᳚ । अ॒स्मे इति᳚ । आ॒रात् । चि॒त् । द्वेषः᳚ । स॒नु॒तः । यु॒यो॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञियस्य यज्ञार्हस्य सुमतौ शोभनायामनुग्रहात्मिकायं बुद्धौ वयं स्याम। तद्विषयभूता भवेम। तथा भद्रे कल्याणे स्ॐअनसे सुमसो भावेऽपि तदीये स्याम। भवेम। स इन्द्रोऽस्मास्वनुग्रहात्मिकां बुद्धिं स्ॐअनस्यं च करोत्वित्यर्थः। सुत्रामा सुष्ठु त्राता स्ववान्धनवान् स इन्द्रश्चास्मे अस्मत्त आराच्चित् दूरदेश एव द्वेषो द्वेष्टॄन् सनुतः। अन्तर्हितनामैतत्। अन्तर्हितान्युयोतु। पृथक्करोतु।।

त्रातारमिन्द्रमित्यस्मिन्वर्गे। ४-७-३२। व्याख्याते। अक्षरार्थस्तु। सुत्राताधनवान् सर्वस्य वेदितेन्द्रो रक्षणैः सुष्ठु सुखयिता भवतु शत्रूंश्च हिनस्तु भयराहित्यम् च करोत्वस्माकम् । अतो वयं शोभनवीर्योपेतस्य धनस्य स्वामिनो भवेमेति। सप्तम्यास्तु। तस्य यज्ञार्हस्येन्द्रस्यानुग्रहबुद्धौ भजनीये स्ॐअनस्ये च वयं विषयभूता भवेम। सुष्थु त्राता धनवान् स इन्द्रोऽस्मत्तो दूरदेशे द्वेष्टॄनन्तर्धानं योजयत्विति॥७॥