दशमं मण्डलम् - सूक्तम् 94

14 ऋचः

ऋषिः: अर्बुदः काद्रवेयः सर्पः देवता: ग्रावाणः छन्दः: जगती

सूक्तम् 10.94 - सम्पूर्णम्

1 / 14
ऋक्: 10.94.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (14)
10.94.1 समानपद
प्रैते व᳚दन्तु॒ प्र व॒यं व᳚दाम॒ ग्राव᳚भ्यो॒ वाचं᳚ वदता॒ वद᳚द्भ्यः ।
यद᳚द्रयः पर्वताः सा॒कमा॒शव॒ः श्लोकं॒ घोषं॒ भर॒थेन्द्रा᳚य सो॒मिनः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । ए॒ते । व॒द॒न्तु॒ । प्र । व॒यम् । व॒दा॒म॒ । ग्राव᳚॑भ्यः । वाच᳚म् । व॒द॒त॒ । वद᳚त्॑भ्यः ।
यत् । अ॒द्र॒यः॒ । प॒र्व॒ताः॒ । सा॒कम् । आ॒शवः᳚ । श्लोक᳚म् । घोष᳚म् । भर᳚थ । इन्द्रा᳚य । सो॒मिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रैत इति चतुर्दशर्चं चतुर्थं सूक्तम् । कद्व्राः पुत्रस्य सर्पस्यार्बुदस्यार्षं पञ्चमी सप्तमी चतुर्दशी त्रिष्टुभः शिष्टा एकादश जगत्यः। सोमाभिषवार्था ग्रावाणोऽत्र देवता। तथा चानुक्रान्तम्। प्रैते षळुना सर्पोऽर्बुदः काद्रवेयो ग्राव्णोऽस्तौत्पञ्चम्यन्त्ये त्रिष्टुभौ सप्तमी चेति। ग्रावस्तोत्र एतत्सूक्तम्। सुत्रितं च। प्रैते वदन्त्वित्यर्बुदं प्रागुत्तमाया आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोः। आ. ५-१२। यद्वा। इदमेकमेव सूक्तं ग्रावस्तोत्रम्। सूत्रितं च। अर्बुदमेवेत्येके प्र वो ग्रावाण इत्येके। आ. ५-१२। इति॥

एते ग्रावाण उपलाः प्र वदन्तु। अभिषवशब्दं कुर्वन्तु। वयं यजमाना वदद्भ्योऽभिवशब्दं कुर्वद्भ्यो ग्रावभ्यो ग्राव्णामर्थाय वाचं प्र वदाम। किञ्च हे ऋत्विजः यूयमपि स्तुतिलक्षणां वाचं वदत। पठत। यद्यदाद्रय आदरणीया दृढा आशवः सोमाभिषवार्थं क्षिप्रकारिणः पर्वता ग्रावाणः सर्वे यूयं साकं सहेन्द्रायेन्द्रार्थं श्लोकं श्रोतव्यं घोषमभिषवशब्दं भरथ पोषयथ तदानीं सोमिनः सोमवन्तः सोमेन तृत्पा भवथ॥१॥

10.94.2
ए॒ते व᳚दन्ति श॒तव᳚त्स॒हस्र᳚वद॒भि क्र᳚न्दन्ति॒ हरि᳚तेभिरा॒सभि᳚ः ।
वि॒ष्ट्वी ग्रावा᳚णः सु॒कृतः᳚ सुकृ॒त्यया॒ होतु᳚श्चि॒त्पूर्वे᳚ हवि॒रद्य᳚माशत ॥
▶ पदपाठः (Word-by-word)
ए॒ते । व॒द॒न्ति॒ । श॒त॑व᳚त् । स॒हस्र᳚॑वत् । अ॒भि । क्र॒न्द॒न्ति॒ । हरि᳚तेभिः । आ॒स॑भिः᳚ ।
वि॒ष्ट्वी । ग्रावा᳚णः । सु॒॑कृतः᳚ । सु॒॑कृ॒त्यया᳚ । होतुः᳚ । चि॒त् । पूर्वे᳚ । ह॒विः॒॑अद्य᳚म् । आ॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शतवत्सहस्रवत् यथा शतं मनुष्याः सहस्रवदपरिमिता मनुष्याश्च वदन्ति तद्वदेते ग्रावाणो वदन्ति। शब्दं कुर्वन्ति। किञ्च हरितेभिः सोमसंसर्गाद्धरितवर्णैरासबिरास्यैरभि क्रन्दन्ति। सोममभिलक्ष्य देवानाह्वयन्तीत्यर्थः। किञ्च सुकृतः शोभनकर्माणोः ग्रावाणो विष्ट्वी यज्ञं प्राप्य होतुर्देवानामाह्वा तुरग्नेः पूर्वे चित् पूर्वमेवाद्यं भक्षणीयं हविराशत। प्राप्नुवन्ति॥२॥

10.94.3 समानपद
ए॒ते व᳚द॒न्त्यवि᳚दन्न॒ना मधु॒ न्यू᳚ङ्खयन्ते॒ अधि᳚ प॒क्व आमि᳚षि ।
वृ॒क्षस्य॒ शाखा᳚मरु॒णस्य॒ बप्स᳚त॒स्ते सूभ᳚र्वा वृष॒भाः प्रेम᳚राविषुः ॥
▶ पदपाठः (Word-by-word)
ए॒ते । व॒द॒न्ति॒ । अवि᳚दन् । अ॒ना । मधु᳚ । नि । ऊ॒ङ्ख॒य॒न्ते॒ । अधि᳚ । प॒क्वे । आमि᳚षि ।
वृ॒क्षस्य᳚ । शाखा᳚म् । अ॒रु॒णस्य᳚ । बप्स᳚तः । ते । सूभ᳚र्वाः । वृ॒ष॒भाः । प्र । ई॒म् । अ॒रा॒वि॒षुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरुणस्यारुणवर्णस्य वृक्षस्य शाखां बप्सतो भक्षयन्तस्ते सूर्भवाः शोभनभक्शा वृषभाः प्रेमराविषुः। प्ररुवन्ति। यथा पक्व आमिष्यध्यामिषे क्रव्यादो मांसभक्शकाश्च मांसविषये यथा न्युंखयन्ते शब्दविशेशं कुर्वन्ति तद्वदेते ग्रावाणो वदन्ति। शब्दं कुर्वन्ति। किञ्च मधु मदकरं सोममनास्येनाविदन्। लभन्ते॥३॥

10.94.4
बृ॒हद्व᳚दन्ति मदि॒रेण᳚ म॒न्दिनेन्द्रं॒ क्रोश᳚न्तो॑विदन्न॒ना मधु᳚ ।
सं॒रभ्या॒ धीरा॒ः स्वसृ᳚भिरनर्तिषुराघो॒षय᳚न्तः पृथि॒वीमु᳚प॒ब्दिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
बृ॒हत् । व॒द॒न्ति॒ । म॒दि॒रेण᳚ । म॒न्दिना᳚ । इन्द्र᳚म् । क्रोश᳚न्तः । अ॒वि॒द॒न् । अ॒ना । मधु᳚ ।
स॒म्॑रभ्य᳚ । धीराः᳚ । स्वसृ᳚॑भिः । अ॒न॒र्ति॒षुः॒ । आ॒॑घो॒षय᳚न्तः । पृ॒थि॒वीम् । उ॒प॒ब्दि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मदिरेण मदकरेण मन्दिनाभिषूयमाणेन सोमेनेन्द्रं क्रोशन्त आह्वयन्त एते ग्रावाणो बृहदत्यन्तं वदन्ति। शब्दं कुर्वन्ति। किञ्चानास्येन मधु मदकरं सोममविदन्। आलभन्त। किञ्च संरभ्य संरब्धा भुत्वा धीरा धृष्टाः सन्त उपब्धिभिः शब्दैः पृथिवीमाघोषयन्तः पुरयन्तः स्वसृभिरङ्गुलिभिः सहानर्तिषुः। नृत्यन्ति॥४॥

10.94.5 समानपद
सु॒प॒र्णा वाच᳚मक्र॒तोप॒ द्यव्या᳚ख॒रे कृष्णा᳚ इषि॒रा अ᳚नर्तिषुः ।
न्य१॒᳚ङ्नि य॒न्त्युप᳚रस्य निष्कृ॒तं पु॒रू रेतो᳚ दधिरे सूर्य॒श्वितः᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒॑प॒र्णाः । वाच᳚म् । अ॒क्र॒त॒ । उप᳚ । द्यवि᳚ । आ॒॑ख॒रे । कृष्णाः᳚ । इ॒षि॒राः । अ॒न॒र्ति॒षुः॒ ।
न्य᳚क् । नि । य॒न्ति॒ । उप᳚रस्य । निः॒॑कृ॒तम् । पु॒रु । रेतः᳚ । द॒धि॒रे॒ । सू॒र्य॒॑श्वितः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुपर्णाः सुपतना ग्रावाण उपोपलक्श्य समीपे द्यव्यन्तरिक्षे वाचमभिशव शब्दमक्रत। कुर्वन्ति। किञ्चाखरे। म्रुगाणां व्रज आखरः। तस्मिन्निषिरा गमनशीलाः कृष्णाः कृष्णमृगा इव सूर्यश्वितः सूर्यवच्छ्वेतवर्णा द्रप्सा। अनर्तिषुः। न्रुत्यन्ति। निश्क्रुतं ग्रावभिः पीडितं सदुपरस्योपलस्य न्यगधोमुखं सोमं नि यन्ति। निगमयन्ति। किञ्च पुरु बहु रेतः सोमलक्षणमुदकं दधिरे। धारयन्ति॥५॥

10.94.6 समानपद
उ॒ग्रा इ᳚व प्र॒वह᳚न्तः स॒माय᳚मुः सा॒कं यु॒क्ता वृष᳚णो॒ बिभ्र᳚तो॒ धुरः᳚ ।
यच्छ्व॒सन्तो᳚ जग्रसा॒ना अरा᳚विषुः शृ॒ण्व ए᳚षां प्रो॒थथो॒ अर्व᳚तामिव ॥
▶ पदपाठः (Word-by-word)
उ॒ग्राः॑इ᳚व । प्र॒॑वह᳚न्तः । स॒म्॑आय᳚मुः । सा॒कम् । यु॒क्ताः । वृष᳚णः । बिभ्र᳚तः । धुरः᳚ ।
यत् । श्व॒सन्तः᳚ । ज॒ग्र॒सा॒नाः । अरा᳚विषुः । शृ॒ण्वे । ए॒षा॒म् । प्रो॒थथः᳚ । अर्व᳚ताम्॑इव ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषणः । फलं वर्षतीति वृषा यज्ञह् । तस्य धुरो धुरं भारं बिभ्रतो धारयन्त एते ग्रावाणः साकं सोमेन सह युक्ताः सन्तः प्रवहन्तो रथं प्रकर्षेण वोढार उग्रा उद्गूर्णा अश्वा इव समायमुः। समायच्छन्ति। अयता भवन्तीत्यर्थः। यद्यदा श्वसन्तोऽभिषवसमय उत्पतननिपतनव्यापारजनितेन वायुना श्वसन्त इव स्थिता ग्रावाणो जग्रसनाः सोमं ग्रसमाना अराविषुः शब्दायन्ते तदानीमेषां ग्राव्णां सम्बन्धी प्रोथथो मुखाच्छब्दः शृण्वे। श्रूयते। तत्र दृष्टान्तः। अर्वतामिवाश्वानां सम्बन्धिनो मुखाद्धेषाशब्दो यथा तद्वदित्यर्थः॥६॥

10.94.7
दशा᳚वनिभ्यो॒ दश᳚कक्ष्येभ्यो॒ दश᳚योक्त्रेभ्यो॒ दश᳚योजनेभ्यः ।
दशा᳚भीशुभ्यो अर्चता॒जरे᳚भ्यो॒ दश॒ धुरो॒ दश᳚ यु॒क्ता वह᳚द्भ्यः ॥
▶ पदपाठः (Word-by-word)
दशा᳚वनि॑भ्यः । दश᳚॑कक्ष्येभ्यः । दश᳚॑योक्त्रेभ्यः । दश᳚॑योजनेभ्यः ।
दशा᳚भीशु॑भ्यः । अ॒र्च॒त॒ । अ॒जरे᳚भ्यः । दश᳚ । धुरः᳚ । दश᳚ । यु॒क्ताः । वह᳚त्॑भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशावनिभ्यः। कर्माण्यवन्ति गच्छन्तीत्यवनयः। दशावनयोऽङ्गुलयो येषां ग्राहकत्वेन सम्बन्धिनस्ते दशावनयः। तान्ग्राव्णः। द्वितीयार्थे चतुर्थी। दशकक्ष्येभ्यः। कक्ष्याः प्रकाशका अङ्गुलयो येशां ते दशकक्ष्याः। तान्। दशयोक्त्रेभ्यः। योक्त्रवद्बन्धने साधनभूता दशाङ्गुलयो येषां तान्। दशयोजनेभ्यः। सोमेन सह योजने साधनभूता दाराशाङ्ग्लयो येषां तान्। दशभीशुभ्यः। कर्माण्यभितो व्याप्नुवन्तीत्यभीशवोऽङ्गुलयो दश येषां तान्। आजरेभ्यो जराविवर्जितान्दश दशभिर्धुरो धूर्भिर्हिंसितृभिः। तृतीयार्थे प्रथमा। युक्ता युक्तान्। द्वितीयार्थे प्रथमा। वहद्भ्यो वहतोऽभिषवाख्ये कर्मणि व्याप्रियमाणानर्चत। स्तुत। हे ऋत्विज इति शेशः। अत्र यास्कः। अनवयोऽङ्गुलयो भवन्त्यवन्ति कर्माणि कक्ष्याः प्रकाशयन्ति कर्माणि योक्त्राणि योजनानीति व्याख्यातमभीशवोऽभ्यश्नुवते कर्माणि दश धुरो दश युक्ताः वहद्भ्यः। धूर्धूर्वतेर्वधकर्मन इयमपीतरा धूरेतस्मादेव विहन्ति वहं धारयतेर्वा। नि. ३-९। इति॥७॥

10.94.8 समानपद
ते अद्र᳚यो॒ दश᳚यन्त्रास आ॒शव॒स्तेषा᳚मा॒धानं॒ पर्ये᳚ति हर्य॒तम् ।
त ऊ᳚ सु॒तस्य᳚ सो॒म्यस्यान्ध᳚सों॒॑शोः पी॒यूषं᳚ प्रथ॒मस्य᳚ भेजिरे ॥
▶ पदपाठः (Word-by-word)
ते । अद्र᳚यः । दश᳚॑यन्त्रासः । आ॒शवः᳚ । तेषा᳚म् । आ॒॑धान᳚म् । परि᳚ । ए॒ति॒ । ह॒र्य॒तम् ।
ते । ऊं॒ इति᳚ । सु॒तस्य᳚ । सो॒म्यस्य᳚ । अन्ध᳚सः । अं॒शोः । पी॒यूष᳚म् । प्र॒थ॒मस्य᳚ । भे॒जि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्रय आदरणीया आशवः अक्षिप्रकारिणस्त एते प्रकृता ग्रावाणो दशयन्त्रासो दशयन्त्राः। तेशामेषां ग्राव्णां सम्बन्धि यदाधानं प्रक्षेपण मभिषवकर्म हर्यतं स्पृहणीयं पर्येति। परितो गच्छति। त एते ग्रावण एव सुतस्याभिषुतस्य सोम्यस्य सोमस्य सम्बन्धिनोऽंशोः खण्डस्वरूपस्यान्धसोऽन्नस्य पीयूषममृतं प्रथमं भेजिरे॥८॥

10.94.9
ते सो॒मादो॒ हरी॒ इन्द्र᳚स्य निंसतें॒॑शुं दु॒हन्तो॒ अध्या᳚सते॒ गवि᳚ ।
तेभि᳚र्दु॒ग्धं प᳚पि॒वान्त्सो॒म्यं मध्विन्द्रो᳚ वर्धते॒ प्रथ᳚ते वृषा॒यते᳚ ॥
▶ पदपाठः (Word-by-word)
ते । सो॒म॒॑अदः᳚ । हरी॒ इति᳚ । इन्द्र᳚स्य । निं॒स॒ते॒ । अं॒शुम् । दु॒हन्तः᳚ । अधि᳚ । आ॒स॒ते॒ । गवि᳚ ।
तेभिः᳚ । दु॒ग्धम् । प॒पि॒॑वान् । सो॒म्यम् । मधु᳚ । इन्द्रः᳚ । व॒र्ध॒ते॒ । प्रथ᳚ते । वृ॒ष॒॑यते᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते सोमादः सोमस्यात्तारस्ते प्रकृता एते ग्रावाण इन्द्रस्य हरी अश्वौ निंसते। निक्शन्ति। चुंबन्ति। प्राप्नुवन्तीत्यर्थः। किञ्च गव्यधिषवणचर्मण्यंशु सोमं दुहन्त असते। किञ्चेन्द्रस्तेभिस्तैर्दुग्धं सोम्यं सोममम्यं मध्वमृतं पपिवान्पीतवान्वर्धते। वृद्धशरीरो भवति। प्रथते। विस्तीर्णशरीरश्च भवति। व्रुषायते वृषेवाचरति॥९॥

10.94.10
वृषा᳚ वो अं॒शुर्न किला᳚ रिषाथ॒नेळा᳚वन्त॒ः सद॒मित्स्थ॒नाशि᳚ताः ।
रै॒व॒त्येव॒ मह᳚सा॒ चार᳚वः स्थन॒ यस्य᳚ ग्रावाणो॒ अजु᳚षध्वमध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । वः॒ । अं॒शुः । न । किल᳚ । रि॒षा॒थ॒न॒ । इळा᳚॑वन्तः । सद᳚म् । इत् । स्थ॒न॒ । आशि᳚ताः ।
रै॒व॒त्या॑इ᳚व । मह᳚सा । चार᳚वः । स्थ॒न॒ । यस्य᳚ । ग्रा॒वा॒णः॒ । अजु᳚षध्वम् । अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंशुः सोमो वो युश्माकं व्रुशा यज्ञे वर्षिता भविष्यति। यूयमपि न रिषाथन किल। न रिष्यथ। न शीर्णा भवथ किल। किञ्चेळावन्तोऽन्नवन्त इव यूयं सदमित् सदैवाशिता भोजिताः स्थन। भवथ। किञ्च रैवत्येव यथा रेवन्तस्तेजसा युक्ता भवन्ति तद्वन्महसा तेजसा युक्ताश्चारवः कल्याणाः स्थन। भवथ। हे ग्रावाणः यूयं यस्य यजमानस्याध्वरं यज्ञमजुषध्वम् । असेवध्वम्॥१०॥

10.94.11
तृ॒दि॒ला अतृ᳚दिलासो॒ अद्र᳚यो॑श्रम॒णा अशृ᳚थिता॒ अमृ᳚त्यवः ।
अ॒ना॒तु॒रा अ॒जरा॒ः स्थाम᳚विष्णवः सुपी॒वसो॒ अतृ᳚षिता॒ अतृ᳚ष्णजः ॥
▶ पदपाठः (Word-by-word)
तृ॒दि॒लाः । अतृ᳚दिलासः । अद्र᳚यः । अ॒श्र॒म॒णाः । अशृ᳚थिताः । अमृ᳚त्यवः ।
अ॒ना॒तु॒राः । अ॒जराः᳚ । स्थ । अम᳚विष्णवः । सु॒॑पी॒वसः᳚ । अतृ᳚षिताः । अतृ᳚ष्ण॑जः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आश्रमणाः श्रमवर्जिता अशृथिता अन्यैरशिथिलीकृता अमृत्यवोऽमारिता अनातुरा अरोगा अजरा जरारहिता स्थ। भवथ। किञ्चामविष्णव उत्क्षेपणावक्षेपणगत्युपेता हे ग्रावाणः तृदिला अन्येषां भेदका अतृदिलासः स्वयमन्येनाभिन्नाः सुपीवसः सुबला अतृषितास्तृष्णारहिता अतृष्णजो निःस्पृहा भवथ॥११॥

10.94.12
ध्रु॒वा ए॒व वः᳚ पि॒तरो᳚ यु॒गेयु᳚गे॒ क्षेम᳚कामास॒ः सद᳚सो॒ न यु᳚ञ्जते ।
अ॒जु॒र्यासो᳚ हरि॒षाचो᳚ ह॒रिद्र᳚व॒ आ द्यां रवे᳚ण पृथि॒वीम᳚शुश्रवुः ॥
▶ पदपाठः (Word-by-word)
ध्रु॒वाः । ए॒व । वः॒ । पि॒तरः᳚ । यु॒गे॑यु᳚गे । क्षेम᳚॑कामासः । सद᳚सः । न । यु॒ञ्ज॒ते॒ ।
अ॒जु॒र्यासः᳚ । ह॒रि॒॑साचः᳚ । ह॒रिद्र᳚वः । आ । द्याम् । रवे᳚ण । पृ॒थि॒वीम् । अ॒शु॒श्र॒वुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ग्रावानः युगे युगे सर्वेषु युगेशु ध्रुवा एव निश्चला एव वो युश्माकं पितरः पितृभूताः क्शेमकामासः क्षेमकामाः सदसो न युञ्जते। सदांस्यात्मना न संयोजयन्ति। अजुर्यासो जरारहिता हरिषचः सोमस्य सम्भक्तारो हरिद्रवः सोमसंसर्गाद्धरितवर्णा द्यां दिवं पृथिवीं च रवेणाभिषवशब्देनाशुश्रवुः। श्रावयन्ति॥१२॥

10.94.13
तदिद्व᳚द॒न्त्यद्र᳚यो वि॒मोच᳚ने॒ याम᳚न्नञ्ज॒स्पा इ᳚व॒ घेदु᳚प॒ब्दिभि᳚ः ।
वप᳚न्तो॒ बीज᳚मिव धान्या॒कृतः᳚ पृ॒ञ्चन्ति॒ सोमं॒ न मि᳚नन्ति॒ बप्स᳚तः ॥
▶ पदपाठः (Word-by-word)
तत् । इत् । व॒द॒न्ति॒ । अद्र᳚यः । वि॒॑मोच᳚ने । याम᳚न् । अ॒ञ्जः॒पाः॑इ᳚व । घ॒ । इत् । उ॒प॒ब्दि॑भिः᳚ ।
वप᳚न्तः । बीज᳚म्॑इव । धा॒न्य॒॑कृतः᳚ । पृ॒ञ्चन्ति᳚ । सोम᳚म् । न । मि॒न॒न्ति॒ । बप्स᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आद्रय आदरणीया ग्रावणॊ यामन् यामनि गमनेऽञ्जस्पाः। अञ्जसा पान्ति रक्षन्तीत्यञ्जस्पाः। तेषां रथानामिवोपब्द्दिभिस्तदित्तदेवाभिषवकर्म विमोचने घेत् तत्सोमरसविमोचनवेलायामपि वदन्ति। प्रकाशयन्ति। किञ्च बप्सतः सोमं भक्षयन्तो ग्रावाणो वपन्तो धान्याक्रुतः कृषीवला बीजमिव यथा पृञ्चन्ति तद्वत्सोमं पृञ्चन्ति। सम्पर्चयन्तीत्यर्थः। नैनं मिनन्ति। न हिंसन्तीत्यर्थः॥१४॥

10.94.14
सु॒ते अ᳚ध्व॒रे अधि॒ वाच᳚मक्र॒ता क्री॒ळयो॒ न मा॒तरं᳚ तु॒दन्त᳚ः ।
वि षू मु᳚ञ्चा सुषु॒वुषो᳚ मनी॒षां वि व᳚र्तन्ता॒मद्र᳚य॒श्चाय᳚मानाः ॥
▶ पदपाठः (Word-by-word)
सु॒ते । अ॒ध्व॒रे । अधि᳚ । वाच᳚म् । अ॒क्र॒त॒ । आ । क्री॒ळयः᳚ । न । मा॒तर᳚म् । तु॒दन्तः᳚ ।
वि । सु । मु॒ञ्च॒ । सु॒सु॒॑वुषः᳚ । म॒नी॒षाम् । वि । व॒र्त॒न्ता॒म् । अद्र᳚यः । चाय᳚मानाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

जायमानाः पूज्यमाना आद्रय आदरणीया ग्रावाणोऽध्वरेऽधि यज्ञे सुते सोमेऽभिषुते मातरं तुदन्तो हस्तेन ताडयन्त आ क्रिळयो नाक्रीडकाः कुमाराः शब्दं यथा कुर्वन्ति तथा वाचं शब्दमक्रत। क्रुण्वन्ति। सुषुवुशः सोममभिषुतवतो ग्राव्णो मनीषां स्तुतिं वि मुञ्च। विशेषेण मुञ्च। किञ्चाद्रयो वि वर्तन्ताम्। अभिषवशब्दं विमुञ्चन्तु॥१५॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके चतुर्थोऽध्यायः समाप्तः॥