ये दैव्या᳚ ऋ॒त्विज॒स्तेभि᳚रग्ने॒ त्वं होतॄ᳚णाम॒स्याय᳚जिष्ठः ॥
पदपाठः (Word-by-word)
ये । दैव्याः᳚ । ऋ॒त्विजः᳚ । तेभिः᳚ । अ॒ग्ने॒ । त्वम् । होतॄ᳚णाम् । अ॒सि॒ । आ॑य᳚जिष्ठः ॥
सायणभाष्यम् (Sayana Commentary)
हे यविष्ठ युवतम अग्ने उशतः स्तुतोः श्रोतुं कामयमानान् देवान् पिप्रीहि हविर्भिः प्रीणय । हे ऋतपते ऋतूनां देवयागकालानां स्वामिन् अग्ने ऋतून् यागकालन् विद्वान् जानानः त्वं इहास्मिन् यज्ञे तान् यज पूजय । किंच हे अग्ने दैव्याः देवेषु भवाः अग्नि- र्होताश्विनावध्वर्यूत्वष्टाग्नीन्मित्रउपवक्तेत्यत्रोक्ताये ऋत्विजः सन्ति तेभिस्तैः सह देवान्य- ज यद्वा दैव्याः देवेषु भवाऋत्विजः आश्वलायनेनोक्ताः चंद्रमाब्रह्मादित्योध्वर्युः पर्जन्य- उद्गातेति यद्वा दैव्याः देवेषु भवाऋत्विजः आश्वलायनेनोक्ताः चंद्रमाब्रह्मादित्योध्वर्युः पर्जन्यौद्गातेति । तैः सह यज । यस्मात्त्वं होतॄणां मध्ये आयजिष्ठः आभिमुख्येन देवानां यष्टृतमोसि भवसि ॥ १ ॥