आ दे॒वाना॒मपि॒ पन्था᳚मगन्म॒ यच्छ॒क्नवा᳚म॒ तदनु॒ प्रवो᳚ळ्हुम् ।
अ॒ग्निर्वि॒द्वान्त्स य᳚जा॒त्सेदु॒ होता॒ सो अ᳚ध्व॒रान्त्स ऋ॒तून्क᳚ल्पयाति ॥
अ॒ग्निर्वि॒द्वान्त्स य᳚जा॒त्सेदु॒ होता॒ सो अ᳚ध्व॒रान्त्स ऋ॒तून्क᳚ल्पयाति ॥
पदपाठः (Word-by-word)
आ । दे॒वाना᳚म् । अपि᳚ । पन्था᳚म् । अ॒ग॒न्म॒ । यत् । श॒क्नवा᳚म । तत् । अनु᳚ । प्र॑वो᳚ळ्हुम् ।
अ॒ग्निः । वि॒द्वान् । सः । य॒जा॒त् । सः । इत् । ऊं॒ इति᳚ । होता᳚ । सः । अ॒ध्व॒रान् । सः । ऋ॒तून् । क॒ल्प॒या॒ति॒ ॥
अ॒ग्निः । वि॒द्वान् । सः । य॒जा॒त् । सः । इत् । ऊं॒ इति᳚ । होता᳚ । सः । अ॒ध्व॒रान् । सः । ऋ॒तून् । क॒ल्प॒या॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
देवानां देवलोकादिगमनसाधनं देवानां स्वभूतं पंथां पंथानं तमपि वैदिकमार्गं वयमागन्म आगतवन्तोभवेम । येन देवान् प्राप्नुमः तथा वयं यत्कर्मानुष्ठातुं शक्रुवाम शक्रुमः समर्थाभवामः तत्कर्म अनुक्रमेण प्रवोह्ळुं प्रकर्षेण वोढुं समप्तिं प्रापयितुं सम- र्थाभवामः अनन्तरं विद्वान् तं पंथानं जानानः सोग्निः यजात् देवान् यजतु सेतु उ सएव खलु होता मनुष्याणां होमनिष्पादकः ततः सएवाग्निः अध्वरान् यज्ञान् किंच सएव ऋतून् कालान् कल्पयाति कल्पयतु करोतु ॥ ३ ॥ व्रतातिपत्तौ व्रातपतीष्टिः कर्तव्या तत्र यद्वोवयमित्येषा याज्या । सूत्रितंच—त्वमग्नेवत- पाअसि यद्वोवयंप्रमिनामव्रतानीति ।