यद्वो᳚ व॒यं प्र᳚मि॒नाम᳚ व्र॒तानि᳚ वि॒दुषां᳚ देवा॒ अवि᳚दुष्टरासः ।
अ॒ग्निष्टद्विश्व॒मा पृ᳚णाति वि॒द्वान्येभि᳚र्दे॒वा{4} ऋ॒तुभि᳚ः क॒ल्पया᳚ति ॥
अ॒ग्निष्टद्विश्व॒मा पृ᳚णाति वि॒द्वान्येभि᳚र्दे॒वा{4} ऋ॒तुभि᳚ः क॒ल्पया᳚ति ॥
पदपाठः (Word-by-word)
तत् । वः॒ । व॒यम् । प्र॒॑मि॒नाम᳚ । व्र॒तानि᳚ । वि॒दुषा᳚म् । दे॒वाः॒ । अवि᳚दुः॑तरासः ।
अ॒ग्निः । तत् । विश्व᳚म् । आ । पृ॒णा॒ति॒ । वि॒द्वान् । येभिः᳚ । दे॒वान् । ऋ॒तु॑भिः᳚ । क॒ल्पया᳚ति ॥
अ॒ग्निः । तत् । विश्व᳚म् । आ । पृ॒णा॒ति॒ । वि॒द्वान् । येभिः᳚ । दे॒वान् । ऋ॒तु॑भिः᳚ । क॒ल्पया᳚ति ॥
सायणभाष्यम् (Sayana Commentary)
हे देवाः अविदुष्टरासः अविद्वत्तराः अत्यन्तमजानन्तोवयं वः युष्माकं यत् यत्किंचित् व्रतानि कर्माणि विदुषां भवतां जानतामेव प्रमिनाम प्रहिंसितवन्तः भवत्सु जानत्सु नि- त्यनैमित्तिककर्माणि विलोपितवन्तइत्यर्थः । विद्वान् एतत्सर्वं जानानः अग्निः तत् स्विष्ट- कृतं विश्वं सर्वं कर्मजातं आपृणाति आपूरयतु फलसहितं करोत्वित्यर्थः । केनापूरयतु त- त्राह येभिरृतुभिः यागयोग्यैः कालैः देवान् कल्पयाति कल्पयति कर्मांगभावाय समर्थ- यति तैरापूरयतु ॥ ४ ॥