श्रवणम्

10.2.5
यत्पा᳚क॒त्रा मन᳚सा दी॒नद᳚क्षा॒ न य॒ज्ञस्य᳚ मन्व॒ते मर्त्या᳚सः ।
अ॒ग्निष्टद्धोता᳚ क्रतु॒विद्वि᳚जा॒नन्यजि᳚ष्ठो दे॒वा{4} ऋ᳚तु॒शो य᳚जाति ॥
▶ पदपाठः (Word-by-word)
यत् । पा॒क॒॑त्रा । मन᳚सा । दी॒न॑द᳚क्षाः । न । य॒ज्ञस्य᳚ । म॒न्व॒ते । मर्त्या᳚सः ।
अ॒ग्निः । तत् । होता᳚ । क्र॒तु॒॑वित् । वि॒॑जा॒नन् । यजि᳚ष्ठः । दे॒वान् । ऋ॒तु॒॑शः । य॒जा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दीनदक्षाः दीनबलाः दीनोत्साहावा मर्त्यासोमर्त्याः मनुष्याऋत्विजः पाकत्रा पाकेन बहुलग्रहणादस्मादपि तृतीयार्थे त्राप्रत्ययः । पाकेन पक्तव्येन विशिष्टज्ञानरहितेन अल्पेन वा मनसा युक्ताः सन्तः यज्ञस्य यज्ञसंबन्धि यत्कर्म न मन्वते नविजानन्तः तदा होता देवानामाह्वाता होमनिष्पादकोवा क्रतुवित् कर्मवित् यजिष्ठः देवानामतिशयेन यष्टा अग्निः तत् तेन कर्मणा ऋतुशः ऋतावृतौ स्वेस्वे यागयोग्ये काले देवान् यजाति यजतु हविर्भिः पूजयतु ॥ ५ ॥