श्रवणम्

10.2.6
विश्वे᳚षां॒ ह्य᳚ध्व॒राणा॒मनी᳚कं चि॒त्रं के॒तुं जनि᳚ता त्वा ज॒जान᳚ ।
स आ य᳚जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः᳚ क्षु॒मती᳚र्वि॒श्वज᳚न्याः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚षाम् । हि । अ॒ध्व॒राणा᳚म् । अनी᳚कम् । चि॒त्रम् । के॒तुम् । जनि᳚ता । त्वा॒ । ज॒जान᳚ ।
सः । आ । य॒ज॒स्व॒ । नृ॒॑वतीः᳚ । अनु᳚ । क्षाः । स्पा॒र्हाः । इषः᳚ । क्षु॒॑मतीः᳚ । वि॒श्व॑ज᳚न्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विश्वेषां सर्वेषां अध्वराणां यज्ञानां अनीकं सुखं प्रधानं चित्रं चायनीयं नाना रूपं केतुं प्रज्ञापकं त्वा त्वां जनिता जनयिता प्रजापतिर्यजमानोवा जजान जनयामास । उत्पादितः सत्वं नृवतीः दासादियुक्ताः क्षाः पृथिवीनामैतत् क्षयंत्यत्रेति क्षा भूमिः अन्वा- यजस्व अनुप्रयच्छ । यद्वा नृवतीः नृभिः संस्कृतानि क्षां अनु पृथिवीं वेदिलक्षणां अनुग- तानि वेद्यामासादितानि स्पार्हाः स्पृहणीयानि क्षुमतीः स्तुतिमंत्रलक्षणशब्दवन्ति विश्व- जन्याः सर्वजनहितानि वृष्ट्यन्नहेतुत्वात् । तानि इषोन्नानि हविर्लक्षणानि आयजस्व देवे- भ्यः प्रयच्छ ॥ ६ ॥