श्रवणम्

10.2.7
यं त्वा॒ द्यावा᳚पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा᳚ सु॒जनि᳚मा ज॒जान᳚ ।
पन्था॒मनु᳚ प्रवि॒द्वान्पि᳚तृ॒याणं᳚ द्यु॒मद᳚ग्ने समिधा॒नो वि भा᳚हि ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । द्यावा᳚पृथि॒वी इति᳚ । यम् । त्वा॒ । आपः᳚ । त्वष्टा᳚ । यम् । त्वा॒ । सु॒॑जमि᳚मा । ज॒जान᳚ ।
पन्था᳚म् । अनु᳚ । प्र॒॑वि॒द्वान् । पि॒तृ॒॑यान᳚म् । द्यु॒॑मत् । अ॒ग्ने॒ । स॒म्॑इ॒धा॒नः । वि । भा॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यं त्वा त्वां द्यावापृथिवी जनितवत्यौ आदित्यात्मना अग्न्यात्मना च तथायं त्वां आपः मेघोदरगताः विद्युदात्मना स्थितं जनितवत्यः यद्वा आपइत्यन्तरिक्षनाम द्या- वापृथिवी अन्तरिक्षंच इमे त्रयोलोकाः यंत्वामजीजनन् । किंच सुजनिमाशोभनजननः त्व- ष्टा प्रजापतिः यं त्वां जजान जनयामास हे अग्ने पितृयानं पितरोयेन मार्गेण गच्छन्ति तं पंथां हविर्वहनमार्गं अनुप्रविद्वान् प्रजानंस्त्वं समिधानः समिध्यमानः सन् द्युमत् दीप्ति युक्तं यथा भवति तथा विभाहि विशेषेण दीप्यसे ॥ ७ ॥

इनइति सप्तर्चं तृतीयं सूक्तं ऋष्याद्याः पूर्ववत् इनइत्यनुक्रान्तं प्रातरनुवाकाश्विनशस्त्र- योरुक्तोविनियोगः ।