दशमं मण्डलम् - सूक्तम् 66

15 ऋचः

ऋषिः: वसुकर्णो वासुक्रः देवता: विश्वेदेवाः छन्दः: जगती

सूक्तम् 10.66 - सम्पूर्णम्

1 / 15
ऋक्: 10.66.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
10.66.1 समानपद
दे॒वान्हु᳚वे बृ॒हच्छ्र᳚वसः स्व॒स्तये᳚ ज्योति॒ष्कृतो᳚ अध्व॒रस्य॒ प्रचे᳚तसः ।
ये वा᳚वृ॒धुः प्र᳚त॒रं वि॒श्ववे᳚दस॒ इन्द्र᳚ज्येष्ठासो अ॒मृता᳚ ऋता॒वृधः᳚ ॥
▶ पदपाठः (Word-by-word)
दे॒वान् । हु॒वे॒ । बृ॒हत्॑श्र᳚वसः । स्व॒स्तये᳚ । ज्यो॒तिः॒॑कृतः᳚ । अ॒ध्व॒रस्य᳚ । प्र॑चे᳚तसः ।
ये । व॒वृ॒धुः । प्र॒॑त॒रम् । वि॒श्व॑वे᳚दसः । इन्द्र᳚॑ज्येष्ठासः । अ॒मृताः᳚ । ऋ॒त॒॑वृधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवान्हुव इति पञ्चदशर्चं षष्ठम् सुक्तम्। ऋष्याद्याः पूर्ववत्। देवान्हुव इत्यनुक्रान्तम्। पृष्थ्याभिप्लवषडहयोः पञ्चमेऽहनीदं वैश्वदेवनिविद्धान्त्म्। सूत्रितं च। इहेह व इति चतस्रो देवान्हुव इति वैश्वदेवम्। आ. ७-५। इति॥

बृहच्छ्रवसः प्रभूतान्नाञ्ज्योतिष्कृत आदित्याख्यस्य तेजसः कर्तॄन्प्रचेतसः प्रकृष्टज्ञानाम्स्तान्देवानध्वरस्यास्य यज्ञस्य स्वस्तये७विनाशाय निर्विघ्नेन यज्ञ परिसमाप्तये हुवे। आह्वयामि। विश्ववेदसः सर्वधना इन्द्रज्येष्ठासः। इन्द्रो ज्येष्थ प्रधानो येशाम् । इन्द्रनेतृका इत्यर्थः। अमृता मरनधर्मरहिता ऋतावृधो यज्ञेन प्रवृद्धा ये देवाः प्रतरमत्यन्तं ववृधुः वर्धन्ते॥१॥

10.66.2
इन्द्र᳚प्रसूता॒ वरु᳚णप्रशिष्टा॒ ये सूर्य᳚स्य॒ ज्योति᳚षो भा॒गमा᳚न॒शुः ।
म॒रुद्ग᳚णे वृ॒जने॒ मन्म᳚ धीमहि॒ माघो᳚ने य॒ज्ञं ज᳚नयन्त सू॒रयः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚॑प्रसूताः । वरु᳚ण॑प्रशिष्टाः । ये । सूर्य᳚स्य । ज्योति᳚षः । भा॒गम् । आ॒न॒शुः ।
म॒रुत्॑ग᳚णे । वृ॒जने᳚ । मन्म᳚ । धी॒म॒हि॒ । माघो᳚ने । य॒ज्ञम् । ज॒न॒य॒न्त॒ । सू॒रयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रप्रसुता इन्द्रेण तत्कार्येषु प्रेरिता वरुण प्रशिष्ठा वरुणेनानुशिष्टा अनुमोदिता ये मरुतो ज्योतिषो द्योतमानस्य सूर्यस्य स्वस्वकर्मणि सर्वस्य प्रेरकस्यामुष्यादित्यस्य भागं भजनीयं लोकमानशुः आनशिरे व्याप्तवन्तः। सूर्यमधिष्थाय वर्तन्त इत्यर्थः। वैजने शत्रूणां छेदके माघोने मघवत इन्द्रस्य सम्बन्धिनि मरुद्गणे। तेषाम् मरुतां गणे मन्म मननीयं स्तोत्रं धीमहि। दध्मः। कुर्मः। किञ्च। सूरयः प्राज्ञा यजमानास्तन्निमित्तमेव यज्ञं जनयन्त। अनजयन्ति। तेशां हविष्ट्रदानाय कुर्वन्ति॥२॥

10.66.3
इन्द्रो॒ वसु᳚भि॒ः परि᳚ पातु नो॒ गय᳚मादि॒त्यैर्नो॒ अदि᳚ति॒ः शर्म᳚ यच्छतु ।
रु॒द्रो रु॒द्रेभि᳚र्दे॒वो मृ᳚ळयाति न॒स्त्वष्टा᳚ नो॒ ग्नाभि᳚ः सुवि॒ताय᳚ जिन्वतु ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । वसु᳚॑भिः । परि᳚ । पा॒तु॒ । नः॒ । गय᳚म् । आ॒दि॒त्यैः । नः॒ । अदि᳚तिः । शर्म᳚ । य॒च्छ॒तु॒ ।
रु॒द्रः । रु॒द्रेभिः᳚ । दे॒वः । मृ॒ळ॒या॒ति॒ । नः॒ । त्वष्टा᳚ । नः॒ । ग्नाभिः᳚ । सु॒वि॒ताय᳚ । जि॒न्व॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसुभिरेतन्नामकैरष्टभिर्देवैः सहित इन्द्रो नोऽस्मदीयं गयम् । गृहनामैतत् प्राप्तव्यं गायते शब्द्यतेऽत्रेति वा गृहम् गयम्। परि पातु। परिरक्शतु। तथादितिर्देवमातादित्यैर्देवैः सह नोऽस्मभ्यं शर्म सुखं प्रयच्छतु। किञ्च देवो दीप्यमानो रुद्रो रुद्रेभिः स्वपुत्रैर्मरुद्भिः सह होऽस्मान्म्रुळयाति। सुखयतु। मृड सुखने। लेट्यडाग्माः। अपि च त्वष्टा प्रजापतिर्ग्नाभिर्देवपत्नीभिश्छन्दोभिः सुविताय सुष्ठु प्राप्तव्यायाभ्युदयाय नोऽस्माञ्जिन्वतु। प्रीणयतु॥३॥

10.66.4 समानपद
अदि᳚ति॒र्द्यावा᳚पृथि॒वी ऋ॒तं म॒हदिन्द्रा॒विष्णू᳚ म॒रुत॒ः स्व᳚र्बृ॒हत् ।
दे॒वा{4} आ᳚दि॒त्या{4} अव᳚से हवामहे॒ वसू᳚न्रु॒द्रान्त्स᳚वि॒तारं᳚ सु॒दंस᳚सम् ॥
▶ पदपाठः (Word-by-word)
अदि᳚तिः । द्यावा᳚पृथि॒वी इति᳚ । ऋ॒तम् । म॒हत् । इन्द्रा॒विष्णू॒ इति᳚ । म॒रुतः᳚ । स्वः᳚ । बृ॒हत् ।
दे॒वान् । आ॒दि॒त्यान् । अव᳚से । ह॒वा॒म॒हे॒ । वसू᳚न् । रु॒द्रान् । स॒वि॒तार᳚म् । सु॒॑दंस᳚सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदितिर्द्यावापृथिवी द्यावापृथिव्यौ महद्महानृतं सय्तभुतोऽग्निरिन्द्राविष्णू मरुतश्च बृहत्परिवृढः स्वरादित्यः एते देवाः सर्वत्र स्वमहिम्ना वर्तन्ते। एतान्देवानादित्यादीन्सुदंससं सुकर्माणम् सवितारमेतन्नामानं चावसे रक्षणाय हवामहे। वयमाह्वयामहे॥४॥

10.66.5
सर᳚स्वान्धी॒भिर्वरु᳚णो धृ॒तव्र᳚तः पू॒षा विष्णु᳚र्महि॒मा वा॒युर॒श्विना᳚ ।
ब्र॒ह्म॒कृतो᳚ अ॒मृता᳚ वि॒श्ववे᳚दस॒ः शर्म᳚ नो यंसन्त्रि॒वरू᳚थ॒मंह᳚सः ॥
▶ पदपाठः (Word-by-word)
सर᳚स्वान् । धी॒भिः । वरु᳚णः । धृ॒त॑व्र᳚तः । पू॒षा । विष्णुः᳚ । म॒हि॒मा । वा॒युः । अ॒श्विना᳚ ।
ब्र॒ह्म॒॑कृतः᳚ । अ॒मृताः᳚ । वि॒श्व॑वे᳚दसः । शर्म᳚ । नः॒ । यं॒स॒न् । त्रि॒॑वरू᳚थम् । अंह᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

धीभिः प्रज्ञाभिर्युक्तः सरस्वानेतन्नामा धृतव्रतो धृतकर्मा वरुणश्च पूषा महिमा महत्त्वेन युक्तो विष्णुश्च वायुरश्विनाश्विनौ बृह्मकृतः कर्मकृतः स्तोतॄणामन्नदातारो वा विश्वव्दसः सर्वढना व्याप्तज्ञाना वांहसः पापरूपानां शत्रूणां हन्तारोऽम्रुता एते देवानोऽस्मभ्यं त्रिवरूथं त्रिष्कम्भं त्रिकक्ष्यं शर्म ग्रुहम् । यद्वा। त्रिवरूथम् । द्रोणाधवनीयपूतभृत्संज्ञकानि त्रीणि पात्राणि यत्रव्रियन्ते सम्भज्यन्ते तद्यज्ञसाधनं गृहम् । यंसन्। प्रयच्छन्तु। यच्छतेर्लेटि सिष्यडागमः॥५॥

10.66.6
वृषा᳚ य॒ज्ञो वृष᳚णः सन्तु य॒ज्ञिया॒ वृष᳚णो दे॒वा वृष᳚णो हवि॒ष्कृतः᳚ ।
वृष᳚णा॒ द्यावा᳚पृथि॒वी ऋ॒ताव᳚री॒ वृषा᳚ प॒र्जन्यो॒ वृष᳚णो वृष॒स्तुभः᳚ ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । य॒ज्ञः । वृष᳚णः । स॒न्तु॒ । य॒ज्ञियाः᳚ । वृष᳚णः । दे॒वाः । वृष᳚णः । ह॒विः॒॑कृतः᳚ ।
वृष᳚णा । द्यावा᳚पृथि॒वी इति᳚ । ऋ॒तव᳚री॒ इत्यृ॒त॑व᳚री । वृषा᳚ । प॒र्जन्यः᳚ । वृष᳚णः । वृ॒ष॒॑स्तुभः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञ एषोऽस्मदीयो व्रुशा कामानां वर्षितास्तु। तथा यज्ञिया यज्ञार्हा देवाश्च वृशनः सन्तु। किञ्च देवाह् स्तुतिकारिण ऋतिजो वृशणो धनवर्षणे कारनानि सन्तु साधुस्तुतिकरणेन। तथा हविष्कृतो हविषाम् कर्तारोऽध्वर्व्यादयो वृषणोऽव्यग्रतया मन्त्रसाहित्येन च हविष्प्रदानेन। अपि चर्तावरी यज्ञवत्यौ द्यावापृथिवी द्यावापृथिव्यौ व्रुषणा हविरुत्पादनेन कामानां वर्षयित्रौ भवताम्। तथा पर्जन्य इन्द्रो वृषापां वर्षिता भवतु। वृषस्तुभो वर्षनशीलस्तुतिभिर्देवान्स्तुवन्तः सर्व ऋत्विजो वृषणो भवन्तु॥६॥

10.66.7
अ॒ग्नीषोमा॒ वृष᳚णा॒ वाज᳚सातये पुरुप्रश॒स्ता वृष᳚णा॒ उप᳚ ब्रुवे ।
यावी᳚जि॒रे वृष᳚णो देवय॒ज्यया॒ ता न॒ः शर्म᳚ त्रि॒वरू᳚थं॒ वि यं᳚सतः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नीषोमा᳚ । वृष᳚णा । वाज᳚॑सातये । पु॒रु॒॑प्र॒श॒स्ता । वृष᳚णौ । उप᳚ । ब्रु॒वे॒ ।
यौ । ई॒जि॒रे । वृष᳚णः । दे॒व॒॑य॒ज्यया᳚ । ता । नः॒ । शर्म᳚ । त्रि॒॑वरू᳚थम् । वि । यं॒स॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषणा वर्षणशीलौ पुरुप्रशस्ता बहुभीः प्रशस्तावग्नीषोमौ वाजसातयेऽन्नालाभायोप ब्रुवे। अहमुपस्त्ॐइ। पुनर्वृषणावित्यादरार्थम्। यौ देवौ वृषन ऋत्विजो देवयज्यया। देवा इज्यन्तेऽत्रेति देवयज्या यज्ञः। छन्दसि निष्टर्क्येति निपातितः। तेनेजिरे यजन्ते हविर्भिः पूजयन्ति ता तौ प्रसिद्धौ नोऽस्मभ्यं त्रिवरुथं त्रिष्कंभं शर्म गृहं वि यंसतः। विशेशेण प्रयच्छताम्॥७॥

10.66.8
धृ॒तव्र᳚ताः क्ष॒त्रिया᳚ यज्ञनि॒ष्कृतो᳚ बृहद्दि॒वा अ᳚ध्व॒राणा᳚मभि॒श्रियः᳚ ।
अ॒ग्निहो᳚तार ऋत॒सापो᳚ अ॒द्रुहो॒॑पो अ᳚सृज॒न्ननु᳚ वृत्र॒तूर्ये᳚ ॥
▶ पदपाठः (Word-by-word)
धृ॒त॑व्र᳚ताः । क्ष॒त्रियाः᳚ । य॒ज्ञ॒निः॒॑कृतः᳚ । बृ॒ह॒त्॑दि॒वाः । अ॒ध्व॒राणा᳚म् । अ॒भि॒॑श्रियः᳚ ।
अ॒ग्नि॑हो᳚तारः । ऋ॒त॒॑सापः᳚ । अ॒द्रुहः᳚ । अ॒पः । अ॒सृज॒न् । अनु᳚ । वृ॒त्र॒॑तूर्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धृतव्रता धृतकर्माणो जात्याक्षत्रियाः। यद्वा। क्षत्रम् बलम् । तदर्हास यज्ञनिष्कृतः। यज्ञं प्रति निर्गमनं यज्ञनिः। तस्य कर्तारो ब्रुहद्दिवा महातेजस्का अध्वराणाम् रक्षोभिरहिंसितानां यज्ञानामभिश्रियोऽभिसेवका अग्निहोतारोऽग्निर्होताह्वाता येशां तादृशा ऋतसापः। षप समवाये। सत्यभाजः अत एवाद्रुहः केषांचिदप्यद्रोग्धारः। यद्वा। द्रुहेः कर्मण्यौणादिकः क्विप्। कैश्चिदप्यहिंस्याः। एवं प्रभावा देवा वृत्रतूर्ये। वृत्रस्तूर्यते हिंस्यतेऽत्रेति वृत्रतूर्यः सङ्ग्रामः। तस्मिन्नपामावरकशत्रुवधेऽप उदकान्यन्वसृजन्। अन्वसारयन्॥८॥

10.66.9
द्यावा᳚पृथि॒वी ज᳚नयन्न॒भि व्र॒ताप॒ ओष᳚धीर्व॒निना᳚नि य॒ज्ञिया᳚ ।
अ॒न्तरि᳚क्षं॒ स्व१॒᳚रा प᳚प्रुरू॒तये॒ वशं᳚ दे॒वास᳚स्त॒न्वी॒३॒᳚ नि मा᳚मृजुः ॥
▶ पदपाठः (Word-by-word)
द्यावा᳚पृथि॒वी इति᳚ । ज॒न॒य॒न् । अ॒भि । व्र॒ता । आपः᳚ । ओष᳚धीः । व॒निना᳚नि । य॒ज्ञिया᳚ ।
अ॒न्तरि᳚क्षम् । स्वः᳚ । आ । प॒प्रुः॒ । ऊ॒तये᳚ । वश᳚म् । दे॒वासः᳚ । त॒न्वि᳚ । नि । म॒मृ॒जुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवासो देवा इन्द्रादयो द्यावापृथिवी द्यावापृथिव्यावभ्यभिलक्ष्य व्रता व्रतेन स्वेन कर्मणापः। सुब्व्यत्ययः। अप उदकान्योषधीश्च तथा यज्ञिया यज्ञार्हान्वनिनानि वने भवान्पलाशादीन्वृक्षाञ्जनयन्। उदपादयन्। किञ्च ते देवाः स्वः सर्वमन्तरिक्षमा पप्रुः। तेजसापुरयन्ति। किमर्थम्। ऊतये रक्षणाय शत्रुभ्यो बाधाभावाय। अपि च वशं काम्यमानम्। वशिरण्योरुपसंख्यानम्। पा. ३-३-५८-३। इत्यकर्तरि कारकेऽप्। तं यज्ञं तन्वि स्वशरीरे नि ममृजुः। नितरां शुद्धमलंकृतं चक्रुः॥९॥

10.66.10
ध॒र्तारो᳚ दि॒व ऋ॒भवः᳚ सु॒हस्ता᳚ वातापर्ज॒न्या म᳚हि॒षस्य᳚ तन्य॒तोः ।
आप॒ ओष᳚धी॒ः प्र ति᳚रन्तु नो॒ गिरो॒ भगो᳚ रा॒तिर्वा॒जिनो᳚ यन्तु मे॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
ध॒र्तारः᳚ । दि॒वः । ऋ॒भवः᳚ । सु॒॑हस्ताः᳚ । वा॒ता॒प॒र्ज॒न्या । म॒हि॒षस्य᳚ । त॒न्य॒तोः ।
आपः᳚ । ओष᳚धीः । प्र । ति॒र॒न्तु॒ । नः॒ । गिरः᳚ । भगः᳚ । रा॒तिः । वा॒जिनः᳚ । य॒न्तु॒ । मे॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो द्युलोकस्य धर्तारो धारयितार ऋभवः सत्येन भासमानाः सुहस्ताः शोभनवज्राद्यायुधयुक्तहस्ता देवास्तथा महिषस्य महतस्तन्यतोः शब्दस्य। तनुविस्तारे। ऋतन्यञ्जीति यतुच्प्रत्ययः। शब्दस्य कर्तारौ वातापर्जन्या वातश्च पर्जन्यश्च तत्कार्या आप ओषधीरोषधयश्च नोऽस्माकं गिरः स्तुतीः प्र तिरन्तु। प्रवर्धयन्तु। प्रपुर्वस्तिरतिर्वृद्ध्यर्थः। तथा रातिर्दाता भगो भजनीयोऽर्यमा च वाजिहः। अग्निर्वायुः सूर्यस्ते वै वाजिन इति तैत्तिरीयब्राह्मणम्। १-६-३-९। एते देवाश्च मे मदीयं हवमाह्वानं यन्तु। अभिगच्छन्तु॥१०॥

10.66.11
स॒मु॒द्रः सिन्धू॒ रजो᳚ अ॒न्तरि᳚क्षम॒ज एक᳚पात्तनयि॒त्नुर᳚र्ण॒वः ।
अहि᳚र्बु॒ध्न्य᳚ः शृणव॒द्वचां᳚सि मे॒ विश्वे᳚ दे॒वास᳚ उ॒त सू॒रयो॒ मम᳚ ॥
▶ पदपाठः (Word-by-word)
स॒मु॒द्रः । सिन्धुः᳚ । रजः᳚ । अ॒न्तरि᳚क्षम् । अ॒जः । एक᳚॑पात् । त॒न॒यि॒त्नुः । अ॒र्ण॒वः ।
अहिः᳚ । बु॒ध्न्यः᳚ । शृ॒ण॒व॒त् । वचां᳚सि । मे॒ । विश्वे᳚ । दे॒वासः᳚ । उ॒त । सू॒रयः᳚ । मम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समुद्रः समुन्दनशीलः स्यन्दमानोदहः सिन्धुरेतन्नामकोऽन्तरिक्षं द्यावापृथिव्योरन्तरा मध्ये क्षितमुषितं रजो मध्यमलोकमज एकपात् अजायमान एक एव पद्यते। एतत्संज्ञको देवोऽर्णव उदकवांस्तनयित्नुः स्तनयित्नुर्मेघो बुध्न्योऽन्तरिक्षे भवोऽहिरेतत्संज्ञकः एते देवा मे मम वचांसि वक्तव्यानि स्तोत्रानि शृणवत्। प्रत्येकं शृणोतु उतापि च सूरयः प्रज्ञा विश्वे देवासो देवा मम स्तोत्राणि शृण्वन्तु॥११॥

10.66.12
स्याम᳚ वो॒ मन᳚वो दे॒ववी᳚तये॒ प्राञ्चं᳚ नो य॒ज्ञं प्र ण᳚यत साधु॒या ।
आदि᳚त्या॒ रुद्रा॒ वस᳚व॒ः सुदा᳚नव इ॒मा ब्रह्म᳚ श॒स्यमा᳚नानि जिन्वत ॥
▶ पदपाठः (Word-by-word)
स्याम᳚ । वः॒ । मन᳚वः । दे॒व॑वी᳚तये । प्राञ्च᳚म् । नः॒ । य॒ज्ञम् । प्र । न॒य॒त॒ । सा॒धु॒॑या ।
आदि᳚त्याः । रुद्राः᳚ । वस᳚वः । सु॑दा᳚नवः । इ॒मा । ब्रह्म᳚ । श॒स्यमा᳚नानि । जि॒न्व॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः मनवो मनुष्या वयं वो यष्मदीयाय देववीतये। देवानां वीतिर्भक्षनं यस्मिन् स यज्ञः । तस्मै यज्ञाय स्याम। यज्ञकर्तारो भवेम। ततो नोऽस्मदीयं यज्ञं साधुया। सुप्रो याजादेशः। साधु कल्याणं प्राञ्चं प्राचीनं प्र णयत। प्रकृष्टाञ्चानं कुरुत। हे आदित्या हे रुद्रा रुद्रपुत्रा मरुतो हे सुदानवः शोभनदाना हे वसवः इमेमानि शस्यमानानि ब्रह्म ब्रह्मानि स्तोत्राणि जिन्वत। प्रीणयत॥१२॥

10.66.13
दैव्या॒ होता᳚रा प्रथ॒मा पु॒रोहि᳚त ऋ॒तस्य॒ पन्था॒मन्वे᳚मि साधु॒या ।
क्षेत्र᳚स्य॒ पतिं॒ प्रति᳚वेशमीमहे॒ विश्वा᳚न्दे॒वा{4} अ॒मृता{4}॒ अप्र᳚युच्छतः ॥
▶ पदपाठः (Word-by-word)
दैव्या᳚ । होता᳚रा । प्र॒थ॒मा । पु॒रः॑हि᳚ता । ऋ॒तस्य᳚ । पन्था᳚म् । अनु᳚ । ए॒मि॒ । सा॒धु॒॑या ।
क्षेत्र᳚स्य । पति᳚म् । प्रति᳚॑वेशम् । ई॒म॒हे॒ । विश्वा᳚न् । दे॒वान् । अ॒मृता᳚न् । अप्र᳚॑युच्छतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आप्तोर्यामेच्छावाकातिरिक्तोक्थस्य दैव्या होतारेत्येषा परिधानीया। सुत्रितं च। उभा उ नूनं दैव्या होतारा प्रथमा पुरोहितेति परिधानीया। आ. ९-११। इति॥

प्रथमा मुखौ पुरोहिता पुरोहितौ पुरतो निहितौ दैव्या देवसंबन्धिनौ होतारा होतारावेतन्नामानावग्न्यादित्यावन्वेमि। हविर्भिरनुगच्छामि। तत ऋतस्य यज्ञस्य पन्था पन्थानं साधुया कल्याणं विघ्नराहित्येनान्वेमि। अनुगच्छाअमि। अनन्तरं प्रतिवेशं समीपे वर्तमानं क्षेत्रस्य पतिं पालयितारमेतन्नामानममृतान्मरणधर्मरहितानप्रयुच्छतोऽप्रमाद्यतो विश्वान्सर्वान्देवांशेमहे। धनं याचामहे॥१३॥

10.66.14
वसि᳚ष्ठासः पितृ॒वद्वाच᳚मक्रत दे॒वा{4} ईळा᳚ना ऋषि॒वत्स्व॒स्तये᳚ ।
प्री॒ता इ᳚व ज्ञा॒तय॒ः काम॒मेत्या॒स्मे दे᳚वा॒सो॑व᳚ धूनुता॒ वसु᳚ ॥
▶ पदपाठः (Word-by-word)
वसि᳚ष्ठासः । पि॒तृ॒॑वत् । वाच᳚म् । अ॒क्र॒त॒ । दे॒वान् । ईळा᳚नाः । ऋ॒षि॒॑वत् । स्व॒स्तये᳚ ।
प्री॒ताः॑इ᳚व । ज्ञा॒तयः᳚ । काम᳚म् । आ॒॑इत्य᳚ । अ॒स्मे इति᳚ । दे॒वा॒सः॒ । अव᳚ । धू॒नु॒त॒ । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिवत् पूर्व ऋषय इव देवानीळानाः स्तुवन्तो वसिष्ठासो वसिष्ठकुलजाता ऋषयः पितृवद्वसिष्ठवत्स्वस्तयेऽविनाशाय वाचं स्तोत्रमक्रत। कुर्वन्ति॥ करोतेर्लुञि मन्त्रे घसेति च्लेर्लुक्। हे देववासो देवाः यूयं काममस्मदभिलाषमेत्यागत्यास्मे अस्मासु वसु गवादि लक्षनं धनमव धूनुत। अभिमुखं प्रेरयत। तत्र दृष्टान्तः। प्रीता इव। यथा प्रीताः संहृष्टा ज्ञातयो बन्धवः स्वजनस्य धनं प्रेरयन्ति तद्वद्धविर्दानेन स्तुतिकरनेन च बन्धुष्वस्मासु धनं प्रेरयतेति भावः॥१४॥

10.66.15
दे॒वान्वसि᳚ष्ठो अ॒मृता᳚न्ववन्दे॒ ये विश्वा॒ भुव᳚ना॒भि प्र᳚त॒स्थुः ।
ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
दे॒वान् । वसि᳚ष्ठः । अ॒मृता᳚न् । व॒व॒न्दे॒ । ये । विश्वा᳚ । भुव᳚ना । अ॒भि । प्र॒॑त॒स्थुः ।
ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒॑गा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसिष्ठो वसिष्ठकुलजोऽयमृषिरमृतन्मरणरहितान्देवान्ववन्दे। एवमस्तावीत्। ये देवा विश्वा विश्वानि भुवनानि लोकानभि प्रतस्थुः स्वतेजसाभिभवन्ति। अभितः प्रतिष्ठन्तीति वा। प्रपूर्वात्तिष्ठतेर्लिटि रूपम्। समासस्वरः। ते देवा अद्यास्मिन्दिने नोऽस्मभ्यमुरुगायं प्रभूतयशस्कमन्नं रासन्ताम् । प्रयच्छन्तु। हे देवाः यूयम् स्वस्तिभि कल्याणीभिरूतिभिर्नोऽस्मान्सदा सर्वदा पात। रक्षत॥१५॥