श्रवणम्

10.66.11
स॒मु॒द्रः सिन्धू॒ रजो᳚ अ॒न्तरि᳚क्षम॒ज एक᳚पात्तनयि॒त्नुर᳚र्ण॒वः ।
अहि᳚र्बु॒ध्न्य᳚ः शृणव॒द्वचां᳚सि मे॒ विश्वे᳚ दे॒वास᳚ उ॒त सू॒रयो॒ मम᳚ ॥
▶ पदपाठः (Word-by-word)
स॒मु॒द्रः । सिन्धुः᳚ । रजः᳚ । अ॒न्तरि᳚क्षम् । अ॒जः । एक᳚॑पात् । त॒न॒यि॒त्नुः । अ॒र्ण॒वः ।
अहिः᳚ । बु॒ध्न्यः᳚ । शृ॒ण॒व॒त् । वचां᳚सि । मे॒ । विश्वे᳚ । दे॒वासः᳚ । उ॒त । सू॒रयः᳚ । मम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समुद्रः समुन्दनशीलः स्यन्दमानोदहः सिन्धुरेतन्नामकोऽन्तरिक्षं द्यावापृथिव्योरन्तरा मध्ये क्षितमुषितं रजो मध्यमलोकमज एकपात् अजायमान एक एव पद्यते। एतत्संज्ञको देवोऽर्णव उदकवांस्तनयित्नुः स्तनयित्नुर्मेघो बुध्न्योऽन्तरिक्षे भवोऽहिरेतत्संज्ञकः एते देवा मे मम वचांसि वक्तव्यानि स्तोत्रानि शृणवत्। प्रत्येकं शृणोतु उतापि च सूरयः प्रज्ञा विश्वे देवासो देवा मम स्तोत्राणि शृण्वन्तु॥११॥