दशमं मण्डलम् - सूक्तम् 170

4 ऋचः

ऋषिः: विभ्राट् सौर्यः देवता: सूर्यः छन्दः: जगती

सूक्तम् 10.170 - सम्पूर्णम्

1 / 4
ऋक्: 10.170.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
10.170.1 समानपद
वि॒भ्राड्बृ॒हत्पि᳚बतु सो॒म्यं मध्वायु॒र्दध᳚द्य॒ज्ञप᳚ता॒ववि᳚ह्रुतम् ।
वात᳚जूतो॒ यो अ᳚भि॒रक्ष᳚ति॒ त्मना᳚ प्र॒जाः पु᳚पोष पुरु॒धा वि रा᳚जति ॥
▶ पदपाठः (Word-by-word)
वि॒॑भ्राट् । बृ॒हत् । पि॒ब॒तु॒ । सो॒म्यम् । मधु᳚ । आयुः᳚ । दध᳚त् । य॒ज्ञ॑प᳚तौ । अवि᳚॑ह्रुतम् ।
वात᳚॑जूतः । यः । अ॒भि॒॑रक्ष᳚ति । त्मना᳚ । प्र॒॑जाः । पु॒पो॒ष॒ । पु॒रु॒धा । वि । रा॒ज॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विभ्राडिति चतुरृचमेकोनविंशं सूक्तं सूर्यपुत्रस्य विभ्राट्संज्ञकस्यार्षं सूर्यदेवत्यम्। आदौ तिस्रो जगत्यः। द्व्यष्टकद्विद्वादशकवत्यास्तारपङ्क्तिश्चतुर्थी। तथा चानुक्रान्तम्। विभ्राड्विभाट् सौर्यः सौर्यं जागतमास्तारपङ्क्त्यन्तमिति। विषुवति निष्केवल्य आद्यस्तृचः स्तोत्रियः। सूत्रितं च। विभ्राड् बृहत्पिबतु सोम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ। आ. ८-९। इति। वाजपेयेऽतिरिक्तोक्थस्य विभ्राडित्येषा शस्त्रे याज्या। सूत्र्यते हि। विभ्राड् बृहत्पिबतु सोम्यं मध्विति याज्या तस्य गवां शतानाम् । आ. ९-९। इति॥

विभ्राड्विभ्राजमानो विशेषेण दीप्यमानः सूर्यो बृहन्महत्परिवृढं सोम्यं सोममयं मधु पिबतु। किं कुर्वन्। यज्ञपतौ यजमानेऽविह्रुतमकुटिलमायुर्दधत् कुर्वन्। यः सूर्यो वातजूतो वातेन महावायुना प्रेर्यमाणः संस्तनात्मना स्वयमेवाभिरक्षति सर्वं जगदभिपश्यन्पालयति। राशिचक्रस्य वायुप्रेर्यत्वात्सूर्यस्यापि तत्प्रेर्यत्वम्। स सूर्यः प्रजाः पुपोष। व्रुष्ट्यादिप्रदानेन पोषयति। पुरुधा बहुधा वि राजति। विशेषेण दीप्यते च॥१॥

10.170.2
वि॒भ्राड्बृ॒हत्सुभृ᳚तं वाज॒सात᳚मं॒ धर्म᳚न्दि॒वो ध॒रुणे᳚ स॒त्यमर्पि᳚तम् ।
अ॒मि॒त्र॒हा वृ᳚त्र॒हा द᳚स्यु॒हन्त᳚मं॒ ज्योति᳚र्जज्ञे असुर॒हा स᳚पत्न॒हा ॥
▶ पदपाठः (Word-by-word)
वि॒॑भ्राट् । बृ॒हत् । सु॑भृ᳚तम् । वा॒ज॒॑सात᳚मम् । धर्म᳚न् । दि॒वः । ध॒रुणे᳚ । स॒त्यम् । अर्पि᳚तम् ।
अ॒मि॒त्र॒॑हा । वृ॒त्र॒॑हा । द॒स्यु॒हन्॑त᳚मम् । ज्योतिः᳚ । ज॒ज्ञे॒ । अ॒सु॒र॒॑हा । स॒प॒त्न॒॑हा ॥
▶ सायणभाष्यम् (Sayana Commentary)

विभ्राड्विभ्राजमानं बृहत्प्रौढं सुभृतं सुपुष्टं वाजसातमं वाजस्यान्नस्य बलस्य वा दातृतमं धर्मन्धर्मणि वायुना धरयितव्ये दिवो द्युलोकस्य धरुणे धारके सूर्यमण्डलेऽर्पितं निक्शिप्तं सत्यमविनश्वरममित्रहामित्राणामप्रियाणां हन्तृ वृत्रहा वृत्राणामावृण्वतां हन्तृ दस्युहन्तमं दस्यूनामुपक्षयितॄणां हन्तृतममसुरहासुराणां क्षेप्तॄणां घातकं सपत्नहा सपत्नानां सहजशत्रूणामपि घातकमीदृग्भूतं ज्योतिः सौरं तेजो जज्ञे। प्रादुर्भवति॥२॥

10.170.3
इ॒दं श्रेष्ठं॒ ज्योति᳚षां॒ ज्योति᳚रुत्त॒मं वि᳚श्व॒जिद्ध᳚न॒जिदु᳚च्यते बृ॒हत् ।
वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो᳚ दृ॒श उ॒रु प᳚प्रथे॒ सह॒ ओजो॒ अच्यु᳚तम् ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । श्रेष्ठ᳚म् । ज्योति᳚षाम् । ज्योतिः᳚ । उ॒त्॑त॒मम् । वि॒श्व॒॑जित् । ध॒न॒॑जित् । उ॒च्य॒ते॒ । बृ॒हत् ।
वि॒श्व॒॑भ्राट् । भ्रा॒जः । महि᳚ । सूर्यः᳚ । दृ॒शे । उ॒रु । प॒प्र॒थे॒ । सहः᳚ । ओजः᳚ । अच्यु᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदं सौरं तेजः श्रेष्ठं प्रशस्यतमं ज्योतिषामन्येषां ग्रहनक्षत्रादीनामपि ज्योतिः प्रकाशकम् अत एवोत्तममुत्कृष्टं विश्वजिद्विश्वस्य सर्वस्य जेतृ धनजिद्धनस्य च जेतृबृहत्प्रभूतमुच्यते। एवं गुणविशिष्टमिति सर्वैरभिधीयते। अपि च विश्वभ्राड्विश्वस्य प्रकाशयिता भ्राजो भ्राजमानो महि महान्सूर्यो दृशे दर्शनायोरुविस्तीर्णं सहस्त्तमसोऽभिभवित्रच्युतं च्युतिरहितमविनाशमोजस्तेजोरूपं बलं पप्रथे। विस्तारयति॥३॥

10.170.4
वि॒भ्राज॒ञ्ज्योति᳚षा॒ स्व१॒᳚रग᳚च्छो रोच॒नं दि॒वः ।
येने॒मा विश्वा॒ भुव᳚ना॒न्याभृ᳚ता वि॒श्वक᳚र्मणा वि॒श्वदे᳚व्यावता ॥
▶ पदपाठः (Word-by-word)
वि॒॑भ्राज᳚न् । ज्योति᳚षा । स्वः᳚ । अग᳚च्छः । रो॒च॒नम् । दि॒वः ।
येन᳚ । इ॒मा । विश्वा᳚ । भुव᳚नानि । आ॑भृ᳚ता । वि॒श्व॑क᳚र्मणा । वि॒श्वदे᳚व्य॑वता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य ज्योतिषा तेजसा स्वः सर्वं जगद्विभ्राजन्विभ्राजयन्दिवः सम्बन्धि रोचनं स्थानमगच्छः। प्राप्नोः। विश्वकर्मणा सर्वव्यापारहेतुना विश्वदेव्यावता। विश्वेशां देवानां हितो यागादिर्विश्वदेव्यः। तद्वता येन सौरेण तेजसेमेमानि परिद्रुश्यमानानि विश्वा सर्वाणि भुवनान्युदकानि भ्ॐआन्याभृता घर्मकाल् आभृतानि भवन्ति। यद्वा। सर्वाणि भूतजातान्याभृता समन्ताद्भृतानि पोषितानि भवन्ति। तेन ज्योतिषान्वयः॥४॥