श्रवणम्

10.170.3
इ॒दं श्रेष्ठं॒ ज्योति᳚षां॒ ज्योति᳚रुत्त॒मं वि᳚श्व॒जिद्ध᳚न॒जिदु᳚च्यते बृ॒हत् ।
वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो᳚ दृ॒श उ॒रु प᳚प्रथे॒ सह॒ ओजो॒ अच्यु᳚तम् ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । श्रेष्ठ᳚म् । ज्योति᳚षाम् । ज्योतिः᳚ । उ॒त्॑त॒मम् । वि॒श्व॒॑जित् । ध॒न॒॑जित् । उ॒च्य॒ते॒ । बृ॒हत् ।
वि॒श्व॒॑भ्राट् । भ्रा॒जः । महि᳚ । सूर्यः᳚ । दृ॒शे । उ॒रु । प॒प्र॒थे॒ । सहः᳚ । ओजः᳚ । अच्यु᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदं सौरं तेजः श्रेष्ठं प्रशस्यतमं ज्योतिषामन्येषां ग्रहनक्षत्रादीनामपि ज्योतिः प्रकाशकम् अत एवोत्तममुत्कृष्टं विश्वजिद्विश्वस्य सर्वस्य जेतृ धनजिद्धनस्य च जेतृबृहत्प्रभूतमुच्यते। एवं गुणविशिष्टमिति सर्वैरभिधीयते। अपि च विश्वभ्राड्विश्वस्य प्रकाशयिता भ्राजो भ्राजमानो महि महान्सूर्यो दृशे दर्शनायोरुविस्तीर्णं सहस्त्तमसोऽभिभवित्रच्युतं च्युतिरहितमविनाशमोजस्तेजोरूपं बलं पप्रथे। विस्तारयति॥३॥