दशमं मण्डलम् - सूक्तम् 134

7 ऋचः

ऋषिः: मांधाता यौवनाश्वः देवता: इंद्रः छन्दः: महापंक्तिः

सूक्तम् 10.134 - सम्पूर्णम्

1 / 7
ऋक्: 10.134.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.134.1
उ॒भे यदि᳚न्द्र॒ रोद᳚सी आप॒प्राथो॒षा इ᳚व ।
म॒हान्तं᳚ त्वा म॒हीनां᳚ स॒म्राजं᳚ चर्षणी॒नां दे॒वी जनि᳚त्र्यजीजनद्भ॒द्रा जनि᳚त्र्यजीजनत् ॥
▶ पदपाठः (Word-by-word)
उ॒भे इति᳚ । यत् । इ॒न्द्र॒ । रोद᳚सी॒ इति᳚ । आ॒॑प॒प्राथ᳚ । उ॒षाः॑इ᳚व ।
म॒हान्त᳚म् । त्वा॒ । म॒हीना᳚म् । स॒म्॑राज᳚म् । च॒र्ष॒णी॒नाम् । दे॒वी । जनि᳚त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि᳚त्री । अ॒जी॒ज॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उभे यदिति सप्तर्चं षष्थम् सुक्तम्। युवनाश्वपुत्रस्य मान्धातुरार्षम्। पूर्वेणेत्यर्धर्चसहितायाः सप्तम्यास्तु गोधा नाम ब्रह्मवादिन्यृषिः। सप्तमी पङ्क्तिः। शिष्टाः षळष्टका महापङ्क्तयः। इन्द्रो देवता। तथा चानुक्रान्तम्। उभे यन्मान्धाता यौवनाश्वो महापाङ्क्तं पङ्क्तिरन्त्या तामध्यर्धां गोधापश्यदिति। गतः सूक्तविनियोगः। चातुर्विंशिकेऽहनि माध्यन्दिनेऽच्छावाकस्याद्यस्तृचो वैकल्पिकः स्तोत्रियः। सूत्रितं च। उभे यदिन्द्र रोदसी अव यत्त्वम् शतक्रतो। आ. ७-४। इति॥

हे इन्द्र उभे रोदसी द्यावापृथिव्यौ यद्यस्त्वमापप्राथ तेजसाप्रथयसि आपूरयसि। प्रा पूरने आदादिकः। छान्दसो लिट्। उषा इव यथोषाः स्वभासा सर्वं जगदापूरयति तद्वत्। तं महीनां महतां देवानामपि महान्तमधिकं चर्षणीनां मनुष्याणामपि सम्राजमीश्वरमिन्द्रं त्वा त्वां देवी देवनशीला जनित्र्यदितिरजीजनत्। अजनयत्। जनेर्ण्यन्ताल्लुङि रूपमेतत्। यस्मादेषा जनित्रीदृशं पुत्रमजीजनत् अतः कारणात्सा भद्रा कल्याणी प्रशस्ता जाता। जनेर्ण्यन्तात्साधुकारिणि तृन्। जनिता मन्त्र इतीडादौ णिलोपो निपात्यते। ऋन्नेभ्य इति ङीप्॥१॥

10.134.2
अव᳚ स्म दुर्हणाय॒तो मर्त᳚स्य तनुहि स्थि॒रम् ।
अ॒ध॒स्प॒दं तमीं᳚ कृधि॒ यो अ॒स्मा{4} आ॒दिदे᳚शति दे॒वी जनि᳚त्र्यजीजनद्भ॒द्रा जनि᳚त्र्यजीजनत् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । स्म॒ । दुः॒॑ह॒ना॒य॒तः । मर्त᳚स्य । त॒नु॒हि॒ । स्थि॒रम् ।
अ॒धः॒॑प॒दम् । तम् । ई॒म् । कृ॒धि॒ । यः । अ॒स्मान् । आ॒॑दिदे᳚शति । दे॒वी । जनि᳚त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि᳚त्री । अ॒जी॒ज॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दुर्हणायतो दुःखप्रदं हननमाचरतो मर्तस्य मनुष्यस्य शत्रोः स्थिरं दृढं बलमव तनुहि। अवततं नीचीनं कुरु। स्मेति पूरकः। तं शत्रुमीमेनमधस्पदं पादयोरधस्त्वाद्वर्तनमानं कृधि। कुरु। यः शत्रुरस्मानादिदेशति जुघांसति। समानमन्यत्॥२॥

10.134.3
अव॒ त्या बृ᳚ह॒तीरिषो᳚ वि॒श्वश्च᳚न्द्रा अमित्रहन् ।
शची᳚भिः शक्र धूनु॒हीन्द्र॒ विश्वा᳚भिरू॒तिभि᳚र्दे॒वी जनि᳚त्र्यजीजनद्भ॒द्रा जनि᳚त्र्यजीजनत् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । त्याः । बृ॒ह॒तीः । इषः᳚ । वि॒श्व॑च᳚न्द्राः । अ॒मि॒त्र॒॑ह॒न् ।
शची᳚भिः । श॒क्र॒ । धू॒नु॒हि॒ । इन्द्र᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ । दे॒वी । जनि᳚त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि᳚त्री । अ॒जी॒ज॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अमित्रहन्नमित्रानां शत्रूणां हन्तर्हे शक्रेन्द्र शचीभिरात्मीयाभिः शक्तिभिरात्मीयैः कर्मभिर्वा त्यास्ताः प्रसिद्धा बृहतीर्महतीः। ब्रुह्न्महतोरुपसंख्यानमिति ङीप उदात्तत्वम्। विश्वश्चन्द्राः। विश्वानि सर्वाणि चन्द्राणि हिरण्यानि यासां तादृशीः। ह्रस्वाच्चन्द्रोत्तरपदे मन्त्र इति सुडागमः। बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदान्तोदात्तत्वम्। एवं भूता इषोऽन्नानि विश्वाभिः सर्वाभिरूतीभी रक्षाभिः सार्धमव धूनुहि। अस्मास्ववाङ्मुखं कम्पय। अस्मदभिमुखं गमयेत्यर्थः। गतमन्यत्॥३॥

10.134.4
अव॒ यत्त्वं श᳚तक्रत॒विन्द्र॒ विश्वा᳚नि धूनु॒षे ।
र॒यिं न सु᳚न्व॒ते सचा᳚ सह॒स्रिणी᳚भिरू॒तिभि᳚र्दे॒वी जनि᳚त्र्यजीजनद्भ॒द्रा जनि᳚त्र्यजीजनत् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । यत् । त्वम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । इन्द्र᳚ । विश्वा᳚नि । धू॒नु॒षे ।
र॒यिम् । न । सु॒न्व॒ते । सचा᳚ । स॒ह॒स्रिणी᳚भिः । ऊ॒ति॑भिः᳚ । दे॒वी । जनि᳚त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि᳚त्री । अ॒जी॒ज॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चातुर्विंशिकेऽहनि माध्यन्दिनेऽच्छावाकस्याव यत्त्वमिति तृचो वैकल्पिकोऽनुरूपः। सूत्रं तु सूक्तादावुदाहृतम्।

हे शतक्रतो बहुकर्मन् बहुप्रज्ञ वेन्द्र सुन्वते सोमाभिषवं कुर्वते। सुनोतेर्लटह् शतृ। हुश्नुवोः सार्वधातुक इति यण्। शतुरनुम इति विभक्तेरुदात्तत्वम्। ईदॆउशाय यजमानाय यद्यदा त्वं विश्वानि व्याप्तान्यन्नानि वावधूनुषे अभिगमयसि। ददासीत्यर्थः। तदा रयिं न रयिं च पुत्ररूपं धनं च सहस्रिणीभिः सहस्रसंख्यायुक्ताभिरूतिभी रक्शाभिः सचा सह प्रदेहि। गतमन्यत्॥४॥

10.134.5
अव॒ स्वेदा᳚ इवा॒भितो॒ विष्व᳚क्पतन्तु दि॒द्यवः᳚ ।
दूर्वा᳚या इव॒ तन्त᳚वो॒ व्य१॒᳚स्मदे᳚तु दुर्म॒तिर्दे॒वी जनि᳚त्र्यजीजनद्भ॒द्रा जनि᳚त्र्यजीजनत् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । स्वेदाः᳚॑इव । अ॒भितः᳚ । विष्व᳚क् । प॒त॒न्तु॒ । दि॒द्यवः᳚ ।
दूर्वा᳚याः॑इव । तन्त᳚वः । वि । अ॒स्मत् । ए॒तु॒ । दुः॒॑म॒तिः । दे॒वी । जनि᳚त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि᳚त्री । अ॒जी॒ज॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वेदा इव गात्रात्स्वेदविन्दव इवाभितः सर्वतो दिद्यवो द्योतमानान्यायुधानीन्द्रस्य दीप्तयो वा विष्वग्नानामुखा अव पतन्तु। निपतन्तु। दूर्वाया इव तन्तवः। यथा दूर्वाकाण्डा बहुशः प्ररोहन्ति एवं बहुशो विस्तृता दृश्यन्ते। दुर्मतिर्दुष्टाभिसन्धिः शत्रुरस्मदस्मत्तो व्येतु। वियता गच्छतु। गतमन्यत्॥५॥

10.134.6
दी॒र्घं ह्य᳚ङ्कु॒शं य᳚था॒ शक्तिं॒ बिभ᳚र्षि मन्तुमः ।
पूर्वे᳚ण मघवन्प॒दाजो व॒यां यथा᳚ यमो दे॒वी जनि᳚त्र्यजीजनद्भ॒द्रा जनि᳚त्र्यजीजनत् ॥
▶ पदपाठः (Word-by-word)
दी॒र्घम् । हि । अ॒ङ्कु॒शम् । य॒था॒ । शक्ति᳚म् । बिभ᳚र्षि । म॒न्तु॒॑मः॒ ।
पूर्वे᳚ण । म॒घ॒॑व॒न् । प॒दा । अ॒जः । व॒याम् । यथा᳚ । य॒मः॒ । दे॒वी । जनि᳚त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि᳚त्री । अ॒जी॒ज॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दीर्घमायतमङ्ग्कुशं सृनिं यथा बिभर्षि एवमायतां शक्तिं हे मन्तुमः। मन्तुर्ज्ञानम्। तद्वन्। मतुवसो रुरिति सम्बुद्धौ नकारस्य रुत्वम्। ईदृशेन्द्र बिभर्षि। धारयसि। डुभृञ् धारणपोषणयोः जौहोत्यादिकः। श्लौ भृञामिदित्यभ्यासस्येत्वम्। हे मघवन्धनवन्निन्द्र यथा पूर्वेण देहस्य पुर्वभागे वर्तमानेन पदा पादेनाजश्छागो वयां शाखामाकर्षति तथा पूर्वोक्तया शक्त्याकृष्ययमः। शत्रून्नियच्छसि। यमेर्लेट्यडागमः। बहुलं छन्दसीति शपो लुक्। गतमन्यत्॥६॥

10.134.7
नकि᳚र्देवा मिनीमसि॒ नकि॒रा यो᳚पयामसि मन्त्र॒श्रुत्यं᳚ चरामसि ।
प॒क्षेभि᳚रपिक॒क्षेभि॒रत्रा॒भि सं र᳚भामहे ॥
▶ पदपाठः (Word-by-word)
नकिः᳚ । दे॒वाः॒ । मि॒नी॒म॒सि॒ । नकिः᳚ । आ । यो॒प॒या॒म॒सि॒ । म॒न्त्र॒॑श्रुत्य᳚म् । च॒रा॒म॒सि॒ ।
प॒क्षेभिः᳚ । अ॒पि॒॑क॒क्षेभिः᳚ । अत्र᳚ । अ॒भि । सम् । र॒भा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवा इन्द्रादयः युष्मद्विषये नकिर्मिनीमसि। न किमपि हिंस्मः। मीङ् हिंसायां क्रैयादिकः। मीनातेर्निगम इति ह्रस्वः। इदन्तो मसिः। आकारः समुच्चये। नकिर्न किञ्च योपयामसि। योपयामः। अननुष्थाने विमोहयामः। युप विमोहने। किं तर्हि मन्त्रश्रुत्यं मन्त्रेण स्मार्यं श्रुतौ विधिवाक्ये प्रतिपाद्यं युष्मद्विषयं कर्म तच्चरामसि। आचरामः। अनुतिष्थामः। अपि च पक्षेभिः पक्षैः पक्शस्थानीयैः स्तुत शस्त्रैरपि कक्षेभिः। अपिकक्शो नाम बाह्वोर्मध्यभागः। यज्ञस्यापिकक्षभूतैर्हविर्भिरत्रास्मिन्यज्ञेऽभितः सर्वतो युश्मान्संरभामहे। सम्यगवलंबामहे॥७॥