अव॒ त्या बृ᳚ह॒तीरिषो᳚ वि॒श्वश्च᳚न्द्रा अमित्रहन् ।
शची᳚भिः शक्र धूनु॒हीन्द्र॒ विश्वा᳚भिरू॒तिभि᳚र्दे॒वी जनि᳚त्र्यजीजनद्भ॒द्रा जनि᳚त्र्यजीजनत् ॥
शची᳚भिः शक्र धूनु॒हीन्द्र॒ विश्वा᳚भिरू॒तिभि᳚र्दे॒वी जनि᳚त्र्यजीजनद्भ॒द्रा जनि᳚त्र्यजीजनत् ॥
पदपाठः (Word-by-word)
अव᳚ । त्याः । बृ॒ह॒तीः । इषः᳚ । वि॒श्व॑च᳚न्द्राः । अ॒मि॒त्र॒॑ह॒न् ।
शची᳚भिः । श॒क्र॒ । धू॒नु॒हि॒ । इन्द्र᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ । दे॒वी । जनि᳚त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि᳚त्री । अ॒जी॒ज॒न॒त् ॥
शची᳚भिः । श॒क्र॒ । धू॒नु॒हि॒ । इन्द्र᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ । दे॒वी । जनि᳚त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि᳚त्री । अ॒जी॒ज॒न॒त् ॥
सायणभाष्यम् (Sayana Commentary)
हे अमित्रहन्नमित्रानां शत्रूणां हन्तर्हे शक्रेन्द्र शचीभिरात्मीयाभिः शक्तिभिरात्मीयैः कर्मभिर्वा त्यास्ताः प्रसिद्धा बृहतीर्महतीः। ब्रुह्न्महतोरुपसंख्यानमिति ङीप उदात्तत्वम्। विश्वश्चन्द्राः। विश्वानि सर्वाणि चन्द्राणि हिरण्यानि यासां तादृशीः। ह्रस्वाच्चन्द्रोत्तरपदे मन्त्र इति सुडागमः। बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदान्तोदात्तत्वम्। एवं भूता इषोऽन्नानि विश्वाभिः सर्वाभिरूतीभी रक्षाभिः सार्धमव धूनुहि। अस्मास्ववाङ्मुखं कम्पय। अस्मदभिमुखं गमयेत्यर्थः। गतमन्यत्॥३॥