दशमं मण्डलम् - सूक्तम् 130

7 ऋचः

ऋषिः: यज्ञः प्राजापत्यः देवता: भाववृत्तं छन्दः: जगती

सूक्तम् 10.130 - सम्पूर्णम्

1 / 7
ऋक्: 10.130.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.130.1
यो य॒ज्ञो वि॒श्वत॒स्तन्तु᳚भिस्त॒त एक᳚शतं देवक॒र्मेभि॒राय᳚तः ।
इ॒मे व᳚यन्ति पि॒तरो॒ य आ᳚य॒युः प्र व॒याप᳚ व॒येत्या᳚सते त॒ते ॥
▶ पदपाठः (Word-by-word)
यः । य॒ज्ञः । वि॒श्वतः᳚ । तन्तु᳚॑भिः । त॒तः । एक᳚॑शतम् । दे॒व॒॑क॒र्मेभिः᳚ । आ॑य᳚तः ।
इ॒मे । व॒य॒न्ति॒ । पि॒तरः᳚ । ये । आ॒॑य॒युः । प्र । व॒य॒ । अप᳚ । व॒य॒ । इति᳚ । आ॒स॒ते॒ । त॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो यज्ञ इति सप्तर्चम् द्वितीयं सूक्तम् प्रजापतिपुत्रस्य यज्ञाख्यस्यार्षम्। आद्या जगती शिष्टास्त्रिष्टुभः। अत्रापि यज्ञादीनां केषाञ्चिद्भावानां सृष्टिः प्रतिपाद्यते। अतः स्रष्टव्यत्वेन प्रधानभुतो योऽर्थ सैव देवता। तत्कर्ता प्रजापतिरेव देवता। तथा चानुक्रान्तम्। यो यज्ञो यज्ञः प्राजापत्यो जगत्याद्येति। गतो विनियोगः॥

तन्तुभिस्तनितृभिर्विस्तारयितृभिर्वियदादिभूतैर्यः सर्गात्मको यज्ञो विश्वतः सर्वतस्ततो विस्तृतः। तथैकशतम् । एकं च शतं चैकशतम्। सङ्ख्येति पूर्वपदप्रकृतिस्वरत्वम्। एकोत्तरशतमित्यर्थः। ब्रह्मा येषु शतसङ्ख्येष्व्बात्मीयसंवत्सरेषु जीवति तदभिप्रायेणात्र शतसङ्ख्या। जीवता तेन प्रजापतिना सार्धमेकशतमित्युच्यते। यथा शतायुर्वै पुरुषः शतवीर्य आत्मैकशत इति। अत्यन्तसंयोगे द्वितीया। ब्रह्मनः सह्तसंवत्सरपर्यन्तं देवकर्मेभिर्देवानुद्दिश्य भोक्तृभिः कृतैः कर्मभिरायतः। दीर्घीभूतः। तावत्कालावस्थायी। एवमायामविस्तारवान्। ......। पितरः पालकाः प्रजापतेः प्राणभूता विश्वसृजो देवा वयन्ति। निर्मिमते। ये देवा आययुः स्रष्टव्यं सर्वम् जगत्स्ववयनेन व्यापुः। अपि च प्र वयाप वयेति। प्रवानम् नाम प्रकृष्टस्य चेतनस्य भोक्तृप्रपञ्चस्य सर्जनम्। अपवानं नामापक्रुष्टस्य निकृष्टस्याचेतनस्य भोग्यप्रपञ्चस्य सर्जनम्। वेञ् तन्तुसन्ताने। समुच्चयेऽन्यतरस्याम्। पा. ३-४-३। इति लोट्। तस्य लोटो हिस्वावित्यनुवृत्तेर्हिरादेशः। शब्गुणायादेशाः। अतो हेरिति लुक्। प्र वयाप वयेति वयन्तः प्रवाणमपवानं च कुर्वन्त इत्यर्थः। एवं भूताः सन्तस्ते विश्वसृजस्तते विस्तृते विस्तृते सत्यलोक आसते। प्रानरूपेण प्रजापतिमुपासते। यद्वा। ज्योतिष्टोमादिर्यज्ञ एवं रुपकत्वेन पचात्मना वर्ण्यते। यो यज्ञो ज्योतिष्तोमादिस्तन्तुभिस्तन्तुस्थानीयैरग्निष्तोमात्यग्निष्तोमादिसंस्थाभेदैः सप्तभिश्छन्दोभिर्वा सर्वतो विश्वतस्ततो विस्तृतः। तथैकशतम्। तृतीयार्थे प्रथम एकाधिकेनाग्निचयनेन युक्तैर्देवकर्मेभिर्गवामयनप्रभृतिकैर्विश्वसृजामयनान्तैरेकाहादिसत्त्रात्मकैर्वायतो दिर्घीभूत एवमायतो विस्तारवान्यज्ञात्मकोऽयं पटः प्रजापतिना सृष्टः। तं पटं पितरोऽस्माकं पितृभूता इमेऽङ्गिरसो वयन्ति। तस्य पटस्य प्राचीनतन्तु स्थानीयानि स्तुतशस्त्राणि प्र वय त्वं कुरु अप वय तिरश्चीनतन्तुस्थानीयानि युजूंपित्वं कुर्वित्येवं परस्परं नियुञ्जाना असते। नियुञ्जन्ति। एवम् विस्तृतस्य यज्हस्य प्रजापतेः सकाशादुत्पत्तिरुत्तरया प्रतिपाद्यते॥१॥

10.130.2
पुमा{4}᳚ एनं तनुत॒ उत्कृ᳚णत्ति॒ पुमा॒न्वि त᳚त्ने॒ अधि॒ नाके᳚ अ॒स्मिन् ।
इ॒मे म॒यूखा॒ उप᳚ सेदुरू॒ सद॒ः सामा᳚नि चक्रु॒स्तस᳚रा॒ण्योत᳚वे ॥
▶ पदपाठः (Word-by-word)
पुमा᳚न् । ए॒न॒म् । त॒नु॒ते॒ । उत् । कृ॒ण॒त्ति॒ । पुमा᳚न् । वि । त॒त्ने॒ । अधि᳚ । नाके᳚ । अ॒स्मिन् ।
इ॒मे । म॒यूखाः᳚ । उप᳚ । से॒दुः॒ । ऊं॒ इति᳚ । सदः᳚ । सामा᳚नि । च॒क्रुः॒ । तस᳚राणि । ओत᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुमान् पुरुष आदिपुरुषह् प्रजापतिरेनं यज्ञं तनुते। विस्तारयति। सृष्टवानित्यर्थः। तथा च ब्राह्मनम्। स प्रजापतिर्यज्ञमतनुत तमाहरत्तेनायजतेति। प्रजापतिर्यज्ञमसृजत यज्ञम् सृष्टमनु ब्रह्मक्शत्रे असृह्येतामिति च। ऐ. ब्रा. ५-३२-७-१९। स एव पुमान् सृष्टं तं यज्ञमुत्कृणत्ति। उद्वेष्टयति। कृती वेष्टने रौधादिकः। स एव पुमान् प्रजापतिरस्मिन्भूलोके नाके। अकं दुःखरनास्त्यस्मिन्निति नाकः स्वर्ग्लोकः। नभ्राण्नपादित्यादिना नञः प्रकृतिभावः। तत्र च वितत्ने। इमं यज्ञं विस्तारयति। अधिः सप्तम्यर्थानुवादी। तनोतेर्लिटि शनिपत्योश्छन्दसीत्युपधालोपः। तस्य स्थानिवद्भावाद्द्विर्वचनम्। मयूखा रश्मिभूतास्तस्य प्रजापतेः प्राणात्मका इमे विश्वसृजो देवाः सदः सदनं देवयजनस्थानमुपसेदुः। विश्वसर्जनहेतुभूतम् विश्वसृजामयनाख्यं यज्ञं कर्तुमुपसीदन्ति। उपसद्य च सामानि रथन्तरादिन्योतवे वयनाय यज्ञाख्यम् वस्त्रमोतुं तसराणि तिर्यक्सराणि तिरश्चीनसूत्राणि चक्रुः॥२॥

10.130.3
कासी᳚त्प्र॒मा प्र᳚ति॒मा किं नि॒दान॒माज्यं॒ किमा᳚सीत्परि॒धिः क आ᳚सीत् ।
छन्द॒ः किमा᳚सी॒त्प्रउ᳚गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय᳚जन्त॒ विश्वे᳚ ॥
▶ पदपाठः (Word-by-word)
का । आ॒सी॒त् । प्र॒॑मा । प्र॒ति॒॑मा । किम् । नि॒॑दान᳚म् । आज्य᳚म् । किम् । आ॒सी॒त् । प॒रि॒॑धिः । कः । आ॒सी॒त् ।
छन्दः᳚ । किम् । आ॒सी॒त् । प्रउ᳚गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय᳚जन्त । विश्वे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वसर्जनोपायत्वेन प्रजापतिना सृष्टेयज्ञे विश्वस्य स्रष्टारो विश्वसृजो देवा विश्वसर्जनाय तं यज्ञमन्वतिष्ठत्। तस्मिन्समये जगतोऽनुत्सत्तेर्जगदन्तःपातिनो यागोपकरणभूताः पदार्थाः कथमासन्नित्यनया प्रश्नः क्रियते। यद्यदा विश्वे सर्वे साध्या देवा देवं प्रजापतिमयजन्त तदानीं तस्य यज्ञस्य प्रमा प्रमाणमियत्ता का कथंभूतासीत्। तथा प्रतिमा हविष्प्रतियोगित्वेन मीयते निर्मीयत इति प्रतिमा देवता। सा च तस्य यज्ञस्य कासित्। तथा निदानमादिकारणम् यागेऽक्प्रवृत्तस्य प्रवर्तकं फलं किमासीत्। तथाज्यं घृतमेतदुपलक्षितं हविर्वा तस्य यज्ञस्य किमासीत्। तथा परिथिः। परितो धीयन्त इति त्रयः परिधयो बाहु मात्राः पलाशादिव्रुक्षजन्याः। परिपूर्वाद्दधातेरुपसर्गे घोः किरिति किप्रत्ययः। सामान्यापेक्षमेकववचनम्। परिधयः क आसन्नित्यर्थः। तथा तस्य यज्ञस्य गायत्र्यादिकं छन्दः किमासीत्। तथा प्रौगमुक्तम्। उपलक्षणमेतत्। आज्यप्रौगादीन्युक्थानि शस्त्राणि वा कान्यासन्। एतेषु प्रश्नेषु त्रयाणामुत्तरं द्वृचेनाह॥३॥

10.130.4 समानपद
अ॒ग्नेर्गा᳚य॒त्र्य᳚भवत्स॒युग्वो॒ष्णिह᳚या सवि॒ता सं ब᳚भूव ।
अ॒नु॒ष्टुभा॒ सोम᳚ उ॒क्थैर्मह᳚स्वा॒न्बृह॒स्पते᳚र्बृह॒ती वाच᳚मावत् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नेः । गा॒य॒त्री । अ॒भ॒व॒त् । स॒॑युग्वा᳚ । उ॒ष्णिह᳚या । स॒वि॒ता । सम् । ब॒भू॒व॒ ।
अ॒नु॒॑स्तुभा᳚ । सोमः᳚ । उ॒क्थैः । मह᳚स्वान् । बृह॒स्पतेः᳚ । बृ॒ह॒ती । वाच᳚म् । आ॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सयुग्वा सहयुक्ताग्नेः सहायभूता गायत्र्यभवत्। यश्टव्यात्प्रजापतेर्मुखादजायत। देवतासु मध्येऽग्निश्छन्दसु गायत्री चोभावप्यजायेतामित्यर्थः। तथा च तैत्तिरीयकम् । प्रजापतिरकामयत प्रजायेयेति स मुखतस्त्रिवृतम् निरमिमीत तमग्निर्देवतान्वसृज्यत गायत्री छन्दः। तै. सं . ७-१-१-४। इति। उष्णिहयोष्णिक्छन्दसा सह सविता देवः सं बभूव। तस्मात्प्रजापतेर्जज्ञे। टापं चापि हलन्तानामिति वचनादुष्णिहशब्दाट्टाप्। तथा महस्वांस्तेजस्वी सोम उक्थैः स्तुतशस्त्रैरनुष्टुभानुष्टुप्छन्दसा च सार्धम् तस्मादेव प्रजापतेरजायत। तथा बृहस्पतेर्देवस्य वाचं वाक्यं बृहतीच्छन्द आदत्। आरक्षत्। अगच्छद्वा। बृहत्या सार्धं बृहस्पतिरपि तस्मात्प्रजापतेर्जज्ञ इत्यर्थः॥४॥

10.130.5
वि॒राण्मि॒त्रावरु᳚णयोरभि॒श्रीरिन्द्र᳚स्य त्रि॒ष्टुबि॒ह भा॒गो अह्न᳚ः ।
विश्वा᳚न्दे॒वाञ्जग॒त्या वि᳚वेश॒ तेन᳚ चाकॢप्र॒ ऋष᳚यो मनु॒ष्या᳚ः ॥
▶ पदपाठः (Word-by-word)
वि॒राट् । मि॒त्रावरु᳚णयोः । अ॒भि॒॑श्रीः । इन्द्र᳚स्य । त्रि॒॑स्तुप् । इ॒ह । भा॒गः । अह्नः᳚ ।
विश्वा᳚न् । दे॒वान् । जग॒ती । आ । वि॒वे॒श॒ । तेन᳚ । चा॒कॢ॒प्रे॒ । ऋष᳚यः । म॒नु॒ष्याः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपि च मित्रावरुनयोर्देवयोर्विराट्छन्दोऽभिश्रीः। अभिश्रिता। आश्रितासीत्। विराजा सह मित्रावरुणावपि प्रजापतेः सकाशादजायेतामित्यर्थः। इहास्मिन्यज्ञेऽह्नः सवनत्रयरूपस्य भागो मध्यन्दिनसवनाख्योंऽशस्त्रिष्टुप्छन्दश्चेन्द्रस्याभिश्रयणीयावास्ताम्। ताविन्द्रश्च प्रजापतेः। सकाशादजायन्तेत्यर्थः। तथा च तैत्तिरीयकम्। उरसो बाहुभ्यां पञ्चदशं निरमिमीत तमिन्द्रो देवतान्वसृज्यत तत्र त्रिष्टुप्छन्दो बृहत्साम। तै. सं. ७-१-१-४। इति। तथा विश्वान्सर्वान्देवाञ्जगतीछन्द आ विवेश। प्रविष्टवती। विश्वे देवा जगती च प्रजापतेरजायन्तेत्यर्थः। तथा च तैत्तिरीयैअम्। तं विश्वे देवा देवता अन्वस्रुह्यन्त जगती छन्दो वैरूपं साम। तै. सं. ७-१-१-५। इति। उक्तेन प्रकारेण प्रतिमा कासीत् छन्दः किमासीत् प्रौगं किमुक्थमिति त्रयाणामुत्तरं जातम्। आज्यं किमासीत् परिधिः क आसीदित्यनयोरुत्तरं पुरुषसूक्तेद्रष्टव्यम् । तत्र ह्येवमाम्नायते। देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः। ऋ. १०-९०-६। सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः। ऋ. १०-९०-१५। इति। अयमर्थः। सर्वरसोत्पादको वसन्तस्तस्य जगत्सर्जनसाधनस्य यज्ञस्याज्यमासीत्। आज्यदध्यादिभी रसैः सार्धं ताद्रुशो वसन्तोऽजायतेत्यर्थः। सर्वरसानां शोषको ग्रीष्म ऋतुरिध्म आसीत्। शुष्कैः काष्थैः सार्धं ग्रीष्मोऽजायतेत्यर्थः। पच्यमानव्रीहियुक्तः शरदृतुस्तस्य यज्ञस्य हविरासीत्। सप्तच्छन्दांसि त्रिः सप्तैकविंशतिधा भूत्वाष्वादश समिधस्त्रयः परिधयश्चासन्। कासीत्प्रजा प्रतिमा किं निदानमित्यनयोरपि प्रश्नयोरप्येवमुत्तरम् पूर्वे विश्वसृजोऽमृताः शतं वर्षसहस्राणि दीक्षिताः सत्त्रमासतेति एतेन वै विश्वसृज इदं विश्वमसृजन्तेति च तैत्तिरीयके। तै. ब्रा. ३-१२-९-१ रिन्द ८। समाम्नायते। अतस्तस्य यज्ञस्य सहस्रसंवत्सरपरिमितः कालः प्रमाणम् । विश्वस्य जगतः सर्जनमादिकारणं प्रवर्तकं फलमित्यर्थः। एतदुक्तं भवति। यदा विश्वसृजो देवा देवं प्रजापतिं विश्वसृजामयनाख्येन यागेनायजन् तदोक्ताः सर्वयागोपकाराः प्रजापतेः सकाशादजायन्तेति। यतोऽग्न्यादिदेवताभिः सह गायत्र्यादीनि सप्त च्छन्दांसि जातानि अतो हेतोस्तेषां छन्दसामग्न्यादयो देवता इति। छन्दोविचितौ सूत्रितं च। अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वे देवा देवतः। पिं. ३-६३। इति। एवं प्राजापत्यो यज्ञोऽनुष्थितः। तेन यज्ञेनर्षयो मनुष्याश्च चाक्लृप्रे। चक्लृपिरे। क्लृप्ताः सृष्टा आसन्। कृपेः कर्मणि लिटीरयोरिति रेआदेशः। क्रुपो रो लः। पा. ८-२-१८। इति लत्वम्। तुजादित्वादभ्यासदीर्थः। तेनैव यज्ञेन सर्वं जगदसृजन्नित्यर्थः॥५॥

10.130.6
चा॒कॢ॒प्रे तेन॒ ऋष᳚यो मनु॒ष्या᳚ य॒ज्ञे जा॒ते पि॒तरो᳚ नः पुरा॒णे ।
पश्य᳚न्मन्ये॒ मन᳚सा॒ चक्ष᳚सा॒ तान्य इ॒मं य॒ज्ञमय᳚जन्त॒ पूर्वे᳚ ॥
▶ पदपाठः (Word-by-word)
चा॒कॢ॒प्रे । तेन᳚ । ऋष᳚यः । म॒नु॒ष्याः᳚ । य॒ज्ञे । जा॒ते । पि॒तरः᳚ । नः॒ । पु॒रा॒णे ।
पश्य᳚न् । म॒न्ये॒ । मन᳚सा । चक्ष᳚सा । तान् । ये । इ॒मम् । य॒ज्ञम् । अय᳚जन्त । पूर्वे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुराणे चिरन्तनेऽस्मिन्यज्ञे जाते विश्वसृड्भिर्देवैः सम्यगनुष्ठिते सति तेन यज्ञेनर्षयो मनुष्या नोऽस्माकं पितरः पूर्वपुरुषाश्च चाक्लृप्रे। अकल्प्यन्त। असृज्यन्त। इममीदृशं यज्ञं ये पूर्वे साध्या देवाः प्रजापतेः प्राणभुता अयजन्त अन्वतिष्ठन् तान्देवान्प्रानात्मना सर्वत्र वर्तमानांश्चक्षसा दर्शनहेतुना मनसा पश्यञ्जानन्मन्ये। तानेव विश्वस्रष्टॄन्देवान् स्त्ॐइ। मन्यतिरर्चतिकर्मा॥६॥

10.130.7
स॒हस्तो᳚माः स॒हछ᳚न्दस आ॒वृतः᳚ स॒हप्र᳚मा॒ ऋष᳚यः स॒प्त दैव्या᳚ः ।
पूर्वे᳚षां॒ पन्था᳚मनु॒दृश्य॒ धीरा᳚ अ॒न्वाले᳚भिरे र॒थ्यो॒३॒᳚ न र॒श्मीन् ॥
▶ पदपाठः (Word-by-word)
स॒ह॑स्तो᳚माः । स॒ह॑छ᳚न्दसः । आ॒॑वृतः᳚ । स॒ह॑प्र᳚माः । ऋष᳚यः । स॒प्त । दैव्याः᳚ ।
पूर्वे᳚षाम् । पन्था᳚म् । अ॒नु॒॑दृश्य᳚ । धीराः᳚ । अ॒नु॒॑आले᳚भिरे । र॒थ्यः᳚ । न । र॒श्मीन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्तोमैः त्रिवृत्पञ्चदशादिभिः सह वर्तमानाः सहस्तोमाः सहच्छन्दसो गायत्र्यादिभिश्छन्दोभिः सह वर्तमाना आवृत आवर्तमानाः सहप्रमाः। प्रमितिः प्रमा यज्ञस्येयत्तापरिज्ञानम्। तेन सह वर्तमाना दैव्या देवस्य प्रजापतेः सम्बन्धिनः यद्वा देवानां यष्टव्यानां सम्बन्धिन ऋषयो द्रष्टारः सप्तसङ्ख्याकाः शीर्षण्याः। यद्वा। मरीचिप्रमुखाः सप्तर्षयो होत्रादयः सप्त वष्ट्कर्तारो वा। एवंविधा एते पूर्वेषां पूर्वपुरुषाणामङ्गिरः प्रभृतीनां विश्वसृजां देवानां वा पन्थां पंणानमनुष्थानमार्गमनुदृश्य क्रमेण ज्ञात्वा धीरा धीमन्तः सन्तोऽन्वालेभिरे। अनुक्रमेणारब्धवन्तः। यागानुष्थाने प्रवृत्ता इत्यर्थः। रथ्यो न यथा रथिनो रथेन युक्ता रथस्य नेतारः सूता रश्मीनश्वनियोजनार्थान्प्रग्रहान् सम्यग्रथस्य नयनाय हस्तेनान्वारभन्ते अन्वारभ्य च सम्यक् तं रथं प्रवर्तयन्ति एवमेतेऽप्यनुष्ठानमार्गं श्रुतितोऽवगम्य सम्यगन्वतिष्ठन्नित्यर्थः॥७॥